भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 36, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 36

॥ काशिका ॥ १ ॥ २ ॥ २९

तमनेन। प्रद्योतितः। प्रद्युतितः। मुदितमनेन। मोदितमनेन। मुदितः। प्रमोदितः। उदुपधादिति किम्। लिखितमनेन। भावादिकर्मणोरिति किम्। रुचितं कार्षापणं ददाति। सेडित्येव। प्रभुक्त ओदनः। व्यवस्थितविभाषा चेयम्। तेन शब्विकरणानामेव भवति। गुधपरिवेष्टने। गुधितमित्यत्र न भवति॥ पूङः क्त्वा च ॥ २२ ॥ अन्यतरस्यामिति न स्वर्यते। उत्तरसूत्रे पुनर्वाववचनात्। नसेडिति वर्तते। पूङश्चेतीड्विहितः क्लिशः त्वानिष्ठयोः पूङश्चेति। पूङः परो निष्ठाप्रत्ययः क्त्वा च सेड् न किद्भवति। पवितः। पवितवान्। क्त्वाप्रत्ययस्य न क्त्वा सेडिति सिद्ध एव प्रतिषेधः। तस्य ग्रहणमुत्तरार्थम्। तथा चोक्तम्। नित्यमकित्त्वमि- डाद्योः क्त्वानिष्ठयोः क्त्वाग्रहणमुत्तरार्थ