काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 37, कुल 828 में से
संदर्भ में पढ़ें३० ॥ काशिका ॥ १ ॥ २ ॥ ऊकालो ऽज् ह्रस्वदीर्घप्लुतः ॥ २७ ॥ ऊरिति त्रयाणामयं मात्रिकद्विमात्रिकत्रिमात्रिकाणां प्रश्लिष्टनिर्देशः । ह्रस्वदीर्घप्लुतः इति द्वन्द्वैकवद्भावे पुँल्लिङ्गनिर्देशः । उऊऊ ३ इत्येवं कालोऽज् यथाक्रमं ह्रस्वदीर्घप्लुतः इत्येवं संज्ञो भवति । उकालो ह्रस्वः । दधि । मधु । ऊकालो दीर्घः । कुमारी । गौरी । ऊ ३ कालः प्लुतः । देवदत्ता ३ अन्वासि । कालग्र- हणं परिमाणार्थम् । दीर्घप्लुतयोः ह्रस्वसंज्ञा मा भूत् । आलूय । प्रलूय । ह्रस्व- स्य पिति कृति तुगिति तुङ् भवति । अज्ग्रहणं संयोगात्समुदायनिवृत्त्यर्थम् । प्रतत्य । प्रहत्य । ह्रस्वाश्रयस्तुङ् मा भूत् । तितउच्छत्रम् । दीर्घात्पदान्ताद्वेति विभाषा तुङ् मा भूत् । ह्रस्वदीर्घप्लुतप्रदेशाः । ह्रस्वो नपुंसके प्रातिपदिकस्य ।