भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 361, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 361

३५८ ॥ काशिका ॥ ४ ॥ ४ ॥ संस्कृतम् ॥ ३ ॥ तेनेति तृतीयासमर्थात्संस्कृतमित्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। सत उत्कर्षाधानं संस्कारः। दध्ना संस्कृतं, दाधिकम्। शार्ङ्गावेरिकम्। मारिचिकम्। योगविभाग उत्तरार्थः॥ कुलत्थकोपधादण् ॥ ४ ॥ कुलत्थशब्दात्ककारोपधाच्छब्दाच्च प्रातिपदिकादण् प्रत्ययो भवति संस्कृतमित्येतस्मिन्विषये। ठकोपवादः। कुलत्थैः संस्कृतं, कौलत्थम्। कका- रोपधात्। तैत्तिडिकम्*। दार्दभकम्॥ तरति ॥ ५ ॥ तेनेति तृतीयासमर्थात्तरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। तरति प्लवते इत्यर्थः। काण्डप्लवेन तरति, काण्डप्लविकः। औडुपिकः॥ गोपुच्छाट्ठञ् ॥ ६ ॥ गोपुच्छशब्दाट् ठञ्प्रत्ययो भवति तरतीत्येतस्मिन्नर्थे। ठकोपवादः। स्वरे विशेषः। गौपुच्छिकः॥ नौद्व्यचष्ठन् ॥ ७ ॥ नौशब्दाद् द्व्यचश्च प्रातिपदिकाट् ठन् प्रत्ययो भवति तरतीत्येतस्मि- न्नर्थे। ठकोपवादः। नावा तरति, नाविकः। द्व्यचः खल्वपि। घटिकः। प्लवि- कः। बाहुकः। षकारः सांहितिको नानुबन्धः। बाहुका स्त्री॥ आकर्षात्पर्यदेर्भैस्त्रादिभ्यः कुसीदसूत्राच्च। आवसथात्किशरादेः षितः षडेते ठगाधिकारे॥ विधिवाक्यापेतं च षट्त्वं प्रत्ययास्तु सप्त॥ चरति ॥ ८ ॥ तेनेति तृतीयासमर्थाच्चरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। चरति- र्भक्षणे गतौ च वर्तते। दध्ना चरति, दाधिकः। हास्तिकः। शाकटिकः॥ आकर्षात्ष्ठल् ॥ ९ ॥ आकर्षशब्दात् ष्ठल् प्रत्ययो भवति चरतीत्येतस्मिन्नर्थे। ठकोपवादः। लकारः स्वरार्थः। षकारो ङीबर्थः। आकर्षेण चरति, आकर्षिकः। आकर्- षिकी। आकर्ष इति सुवर्णपरीक्षार्थो निकषोपल उच्यते॥

  • तैत्तिरीकम्। पा० २।