काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 362, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ४ ॥ ४ ॥ ३५६ पर्पादिभ्यः ष्ठन् ॥ १० ॥ पर्प इत्येवमादिभ्यः ष्ठन् प्रत्ययो भवति चरतीत्येतस्मिन्नर्थे । ठकोऽप- वादः । नकारः स्वरार्थः । षकारो ङीषर्थः । पर्पिकः । पर्पिकी । आश्विकः । आश्विकी । पर्प । आश्व । आश्वत्थ । रथ । जाल । न्यास । व्यास ॥ पादः पत्त्व ॥ पर्दिकः ॥ श्वगणाट्ठञ् ॥ ११ ॥ श्वगणशब्दाट्ठञ् प्रत्ययो भवति, चकारात् ष्ठन्, चरतीत्येतस्मिन्नर्थे । ठकोऽपवादः । श्वगणेन चरति, श्वागणिकः । श्वागणिकी । ठन् । श्वगणिकः । श्वगणिका । स्वादेरित्योत्त्वं वक्ष्यति, इकारादिग्रहणं च कर्त्तव्यं श्वागणिका- द्यर्थमिति । तेन ठञि द्वारादिकार्यं न भवति ॥ वेतनादिभ्यो जीवति ॥ १२ ॥ तेनेति तृतीयासमर्थेभ्यो वेतनादिभ्यः शब्देभ्यो जीवतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । वेतनेन जीवति वैतनिकः कर्मकरः । धनुर्दण्डग्रहणमत्र संघातविगृहीतार्थम् । धानुर्दण्डिकः । धानुष्कः । दाण्डिकः । वेतन । वाह । आर्धुवाह । धनुर्दण्ड । जाल । वेस । उपवेस । प्रेषण । उपस्ति । सुख । शय्या । शक्ति । उपनिषत् । उपवेष । स्रक् । पाद । उपस्थान ॥ वस्त्रक्रयविक्रयाट्ठन् ॥ १३ ॥ वस्त्रक्रयविक्रयशब्दाभ्यां तृतीयासमर्थाभ्यां ठन् प्रत्ययो भवति जीवती- त्येतस्मिन्विषये । ठकोऽपवादः । वस्त्रेण जीवति, वस्त्रिकः । क्रयविक्रयग्रहणं संघा- तविगृहीतार्थम् । क्रयविक्रयिकः । क्रयिकः । विक्रयिकः ॥ आयुधाच्छ च ॥ १४ ॥ आयुधशब्दाच्छप्रत्ययो भवति, चकाराट्ठंश्च जीवतीत्येतस्मिन्विषये । आयुधेन जीवति, आयुधीयः । आयुधिकः ॥ हरत्युत्सङ्गादिभ्यः ॥ १५ ॥ तेनेत्येव । उत्सङ्गादिभ्यस्तृतीयासमर्थेभ्यो हरतीत्येतस्मिन्नर्थे ठक् प्रत्य- यो भवति । हरतिर्देशान्तरप्रापणे वर्त्तते । उत्सङ्गेन हरति, औत्सङ्गिकः । औडुपिकः । उत्सङ्ग । उडुप । उत्पत । पिटक । उत्सङ्गादिः * ॥ भस्त्रादिभ्यः ष्ठन् ॥ १६ ॥ भस्त्रेत्येवमादिभ्यस्तृतीयासमर्थेभ्यो हरतीत्येतस्मिन्नर्थे ष्ठन्प्रत्ययो भव-
- उडुप । पिटक । इति शब्दद्वयं पुस्तकान्तरे प्रोक्तौ ।