काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 364, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ४ । ४ ॥ ३६३ माथोत्सरपदपदव्यनुपदं धावति ॥ ३७ ॥ माथशब्दोत्तरपदात्प्रातिपदिकात्पदवी अनुपद् इत्येताभ्यां च धावती- त्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । दण्डमाथं धावति, दाण्डमाथिकः । शौल्क- माथिकः । पादविकः । आनुपदिकः । माथशब्दः पथिपर्यायः ॥ आक्रन्दाट्ठञ् ॥ ३८ ॥ आक्रन्द्यतेऽस्मिन्नित्याक्रन्दो देशः । अथ वा ऽऽक्रन्द्यातइत्याक्रन्द, चार्तो- यनमुच्यते । विशेषाभावाद् द्वयोरपि ग्रहणम् । आक्रन्दशब्दात्तदिति द्वितीया- समर्थाद्धावतीत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति, चकाराट्ठक् च । स्वरे विशेषः । आक्रन्दं धावति आक्रन्दिकः । आक्रन्दिकी ॥ पदोत्तरपदं गृह्णाति ॥ ३६ ॥ पदशब्द उत्तरपदं यस्य तस्मात्पदोत्तरपदशब्दात्तदिति द्वितीयासम- र्थाद्गृह्णातीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । पूर्वपदं गृह्णाति, पौर्वपदिकः । औत्तरपदिकः । पदान्तादिति नोक्तं, बहुच्पूर्वान्मा भूदिति ॥ प्रतिकण्ठार्थललामं च ॥ ४० ॥ प्रतिकण्ठार्थललामशब्देभ्यस्तदिति द्वितीयासमर्थेभ्यो गृह्णातीत्येतस्मि- न्नर्थे ठक् प्रत्ययो भवति । प्रतिकण्ठं गृह्णाति, प्रातिकण्ठिकः । आर्थिकः । लालामिकः ॥ धर्मं चरति ॥ ४१ ॥ धर्मशब्दात्तदिति द्वितीयासमर्थाच्चरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । चरतिरासेवायाम् नानुष्ठानमात्रे । धर्मं चरति, धार्मिकः ॥ अधर्माच्चेति वक्त- व्यम् ॥ * ॥ आधार्मिकः ॥ प्रतिपथमिति ठंश्च ॥ ४२ ॥ प्रतिपथशब्दाद्द्वितीयासमर्थाद् एतीत्यस्मिन्नर्थे ठन् प्रत्ययो भवति, चकाराट्ठक् च । प्रतिपथमिति, प्रतिपथिकः । प्रातिपथिकः ॥ समवायान् समवैति ॥ ४३ ॥ समवायवाचिभ्यः शब्देभ्यस्तदिति द्वितीयासमर्थेभ्यः समवैतीत्येतस्मि- न्नर्थे ठक् प्रत्ययो भवति । समवायः समूह उच्यते न संप्रधारणा । समवाया- निति बहुवचनं स्वरूपविधिनिरासार्थम् । समवैति आगत्य तदेकदेशी भव- तीत्यर्थः । समवायान्समवैति, सामवायिकः । सामाजिकः । सामूहिकः । साधिवेशनिकः ॥