भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 367, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 367

३६६ ॥ काशिका ॥ ४ ॥ ४ ॥ मड्डुकझर्झराभ्यामन्यतरस्यामण् प्रत्ययो भवति तदस्य शिल्पमि- त्येतस्मिन्विषये । ठकोपवादः । पक्षे सोऽपि भवति । मड्डुकवादनं शिल्पमस्य, माड्डुकः । माड्डुकिकः । झार्झरः । झार्झरिकः ॥ प्रहरणम् ॥ ५७ ॥ तदस्येत्येव । तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत्प्रथमासमर्थं प्रहरणं चेत्तद्भवति । असिः प्रहरणमस्य, आसिकः । प्रासिकः । धान्ुष्कः । चाक्रिकः ॥ परश्वधाट्ठञ् च ॥ ५८ ॥ परश्वधशब्दात् ठञ् प्रत्ययो भवति, चकारात् ठक् । स्वरे विशेषः । परश्वधः प्रहरणमस्य, पारश्वधिकः ॥ शक्तियष्ट्योरीकक् ॥ ५९ ॥ शक्तियष्टिशब्दाभ्यामीकक् प्रत्ययो भवति तदस्य प्रहरणमित्येतस्मिन्वि- षये । ठकोपवादः । शक्तिः प्रहरणमस्य, शाक्तीकः । याष्टीकः ॥ अस्तिनास्तिदिष्टं मतिः ॥ ६० ॥ तदस्येत्येव । तदिति प्रथमासमर्थेभ्यो ऽस्ति नास्ति दिष्ट इत्येतेभ्यः शब्देभ्यो ऽस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत्प्रथमासमर्थं मतिश्चेत्तद्भवति । अस्ति मतिरस्य, आस्तिकः । नास्ति मतिरस्य, नास्तिकः । दैष्टिकः । न च मतिमात्रे प्रत्यय इष्यते, किं तर्हि परलोकोऽस्तीति यस्य मतिरस्ति स आ- स्तिकः । तद्विपरीतो नास्तिकः । प्रमाणानुपातिनी यस्य मतिः स दैष्टिकः । तदेतदभिधानशक्तिस्वभावाल्लभ्यते । अस्तिनास्तिशब्दौ निपातौ, वचनसाम- र्थ्याद्वा आख्याताद्वाक्याच्च प्रत्ययः ॥ शीलम् ॥ ६१ ॥ तदस्येत्येव । तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत्प्रथमासमर्थं शीलं चेद्भवति । शीलं स्वभावः । आपूपभक्षणं शीलमस्य, आपूपिकः । शाष्कुलिकः । मौदकिकः । भक्षणक्रिया तद्विशेषणं च शीलं तद्धितवृत्तावन्तर्भवति ॥ छत्रादिभ्यो णः ॥ ६२ ॥ छत्र इत्येवमादिभ्यः प्रातिपदिकेभ्यो णः प्रत्ययो भवति तदस्य शील- मित्येतस्मिन्विषये । ठकोपवादः । छत्रं शीलमस्य, छात्रः । छादनादावरणा- च्छत्रम् । गुरुकार्येष्ववहितस्तच्छिद्रावरणप्रवृत्तश्छत्रशीलः शिष्यश्छात्रः । स्था- शब्दो ऽत्र पठ्यते स उपसर्गपूर्वाच्च गृह्यते । आस्था संस्था चकास् इति । छत्र ।

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक) · पृष्ठ 367, कुल 828 में से · BharatKosha