काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 366, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ४ ॥ ४ ॥ ४६५ नरस्य धर्मो, नारी । विशसितुर्इड्लोपश्च ॥ * ॥ विशसितुर्धर्म्यं वैशससम् ॥ विभाजयितुर्ऋतोपश्च ॥ * ॥ विभाजयितुर्धर्म्यं वैभाजितम् ॥ अवक्रयः ॥ ५० ॥ तस्येत्येव । षष्ठीसमर्थादवक्रय इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । अवक्रीयते ऽनेनेत्यवक्रयः पिण्डक उच्यते । शुल्कशालाया अवक्रयः, शौल्कशा- लिकः । आकरिकः * । आपाकिकः । गौल्मिकः । नन्ववक्रयोऽपि धर्म्यमेव । नैत- दस्ति । लोकपीडया धर्मोऽतिक्रमेणाप्यवक्रयो भवति ॥ तदस्य पण्यम् ॥ ५१ ॥ तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत्प्रथमास- मर्थं पण्यं चेत्तद्भवति । अपूपाः पण्यमस्य, आपूपिकः । शाष्कुलिकः । मौद- किकः । पण्यमिति विशेषणं तद्धितवृत्तावन्तर्भूतमतः पण्यशब्दो न प्रयुज्यते ॥ लवणाट्ठञ् ॥ ५२ ॥ लवणशब्दाट्ठञ् प्रत्ययो भवति तदस्य पण्यमित्येतस्मिन्विषये । ठञो- ऽपवादः । स्वरे विशेषः । लवणं पण्यमस्य, लावणिकः ॥ किशरादिभ्य ष्ठन् ॥ ५३ ॥ किशरा इत्येवमादिभ्यः ष्ठन् प्रत्ययो भवति तदस्य पण्यमित्येतस्मिन्वि- षये । ठञोऽपवादः । किशरादयो गन्धविशेषवचनाः । किशराः पण्यमस्य, किश- रिकः । किशरिकी । नरदिकः । नरदिकी । किशर । नरद । नलद । सुगण्डल । तगर । गुग्गुलु । उशीर । हरिद्रा । हरिद्रायणी ॥ शलालुनो ऽन्यतरस्याम् ॥ ५४ ॥ शलालुशब्दादन्यतरस्यां ष्ठन् प्रत्ययो भवति तदस्य पण्यमित्येतद्विषये । ठञोऽपवादः । पक्षे सोऽपि भवति । शलालुशब्दो गन्धविशेषवचनः । शलालु पण्यमस्य, शलालुकः । शलालुकी । शालालुकः । शालालुकी ॥ शिल्पम् ॥ ५५ ॥ तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत्प्रथमास- मर्थे शिल्पं चेत्तद्भवति । शिल्पं कौशल्यम् । मृदङ्गवादनं शिल्पमस्य, मार्दङ्गिकः । पाशविकः । वैणिकः । मृदङ्गवादने वर्त्तमानो मृदङ्गशब्दः प्रत्ययमुत्पादयति । शिल्पं तद्धितवृत्तावन्तर्भवति ॥ मड्डुकझर्झरादणन्यतरस्याम् ॥ ५६ ॥
- आकारिक इति पाठः ॥