भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 374, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 374

॥ काशिका ॥ ४ ॥ ४ ॥ ३७३ भक्तात्खः ॥ १०० ॥ भक्तशब्दात् खः प्रत्ययो भवति तत्र साधुरित्येतस्मिन्विषये । यतोप- वादः । भक्ते साधुः, भाक्तः शालिः । भाक्तास्तण्डुलाः ॥ परिषदो ण्यः ॥ १०१ ॥ परिषच्छब्दाद् ण्यः प्रत्ययो भवति तत्र साधुरित्येतस्मिन्विषये । यतोपवादः । परिषदि साधुः, पारिषद्यः ॥ णप्रत्ययोऽप्यत्रेष्यते ॥ तदर्थं योग- विभागः क्रियते । परिषदो णो भवति । परिषदि साधुः, पारिषदः ॥ कथादिभ्यष्ठक् ॥ १०२ ॥ कथादिभ्यः शब्देभ्यष्ठक् प्रत्ययो भवति तत्र साधुरित्येतस्मिन्विषये । यतो- पवादः । कथायां साधुः, काथिकः । वैकथिकः । कथा । विकथा । वितण्डा । कुष्ट- चित् । जनवाद । जनेवाद । वृत्ति । सङ्ग्रह । गुण । गण । आयुर्वेद । कथादिः

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक) · पृष्ठ 374, कुल 828 में से · BharatKosha