काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 375, कुल 828 में से
संदर्भ में पढ़ें३७४ ॥ काशिका ॥ ४ ॥ ४ ॥ समानोदरे शयित ओ चोदात्तः ॥ १०८ ॥ समानोदरशब्दात्सप्तमीसमर्थाच्छयित इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति ओकारश्चोदात्तः । शयितः स्थित इत्यर्थः । समानोदरे शयितः, समानोदर्यो भ्राता ॥ सोदराद्यः ॥ १०९ ॥ सोदरशब्दात्सप्तमीसमर्थात् शयित इत्येतस्मिन्नर्थे यः प्रत्ययो भवति । विभाषोदरइति सूत्रेण यकारादौ प्रत्यये विवक्षिते प्रागेव समानस्य सभावः । समानोदरे शयितः, सोदर्यो भ्राता । ओचोदात्त इति नानुवर्त्तते । यकारे स्वरः ॥ भवे छन्दसि ॥ ११० ॥ तत्रेत्येव । सप्तमीसमर्थाद्भव इत्येतस्मिन्नर्थे छन्दसि विषये यत्प्रत्ययो भवति । अणादीनां घादीनां चापवादः । सतिदर्शने ते ऽपि भवन्ति, सर्व- विधीनां छन्दसि व्यभिचारात् । मेध्याय च विद्युत्याय च नमः । आपादपरि- समाप्तेश्छन्दोधिकारो, भवाधिकारश्च समुद्रादाहु रिति यावत् ॥ पाथोनदीभ्यां ड्यण् ॥ १११ ॥ पाथश्शब्दान्नदी शब्दाच्च ड्यण् प्रत्ययो भवति । तत्र भव इत्येतस्मि- न्नर्थे । यतोपवादः । पाथसि भवः, पाथ्यो वृषा । नाव्यो गिरो मे प्रयच्छति । पाथो ऽन्तरिक्षम् ॥ वेशन्तहिमवद्भ्यामण् ॥ ११२ ॥ वेशन्तशब्दाद्धिमवच्छब्दाच्चाण् प्रत्ययो भवति तत्र भव इत्येतस्मि- न्विषये । यतोपवादः । वैशन्तीभ्यः स्वाहा । हैमवतीभ्यः स्वाहा ॥ स्रोतसो विभाषा डड्ढौ ॥ ११३ ॥ स्रोतश्शब्दाद्विभाषा डत् ढ्य इत्येतौ प्रत्ययौ भवतस्तत्र भव इत्येत- स्मिन्विषये । यतोपवादः । पक्षे सोपि भवति । स्रोतसिभवः, स्रोत्यः । स्रोतस्यः । डड्ढयोः स्वरे विशेषः ॥ सगर्भसयूथसनुताद्यन् ॥ ११४ ॥ सगर्भसयूथसनुतशब्देभ्यो यन् प्रत्ययो भवति तत्र भव इत्येतस्मिन्वि- षये । यतोपवादः । स्वरे विशेषः । अनुजाता सगर्भ्यः । अनुसक्षा सयूथ्यः । यो नः सनुत्यः । सर्वत्र समानस्य छन्दसीति सभावः ॥ तुग्राद् घन् ॥ ११५ ॥ तुग्रशब्दाद्घन् प्रत्ययो भवति तत्र भव इत्येतस्मिन्विषये । यतोपवादः । त्वमग्ने वृषभस्सुयावाळाम् । अत्राकाणयन्नवरिष्टेषु तुग्र्यन्वः ॥