भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 376, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 376

॥ काशिका ॥ ४ ॥ ४ ॥ ३७५ अग्राद्यत् ॥ ११६ ॥ अग्रशब्दाद्यत् प्रत्ययो भवति तत्र भव इत्येतस्मिन्विषये । अग्रे भव- मग्र्यम् । किमर्थमिदं यावता सामान्येन यद्विहित एव । घच्छौ चेति वक्ष्यति ताभ्यां बाधा मा भूदिति पुनर्विधीयते ॥ घच्छौ च ॥ ११७ ॥ अग्रशब्दाद् घच्छौ प्रत्ययौ भवतस्तत्र भव इत्येतस्मिन्विषये । अग्रियम् । अग्रीयम् । चकारस्तुयत्प्रत्ययस्यानुकर्षणार्थः । अग्र्यम् । स्वरे विशेषः ॥ समुद्राभ्राद् घः ॥ ११८ ॥ समुद्रशब्दादभ्रशब्दाच्च घः प्रत्ययो भवति तत्र भव इत्येतस्मिन्नर्थे । यतोऽपवादः । सामुद्रियाणां नदीनाम् । अभ्रियस्येव घोषः । अभ्रशब्दस्यापूर्व- निपातस्तस्य लक्षणस्य व्यभिचारित्वात् ॥ बर्हिषि दत्तम् ॥ ११९ ॥ भव इति नि