भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 377, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 377

३७६ ॥ काशिका ॥ ४ ॥ ४ ॥

असुरशब्दात्षष्ठीसमर्थात्स्वमित्येतस्मिन्नर्थे यत्प्रत्ययो भवति । खञोप- वादः । आसुर्यं वा एतत्पात्रं, यच्चक्रमृतं कुलालकृतम् ॥ मायायामण् ॥ १२४ ॥ असुरशब्दात्षष्ठीसमर्थान्मायायां स्वविशेषे ऽण् प्रत्ययो भवति । पूर्वस्य यतोपवादः । आसुरी माया स्वधया कृतासि ॥ तद्वान्तासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः ॥ १२५ ॥ तद्वानिति निर्देशादेव समर्थविभक्तिः । मतुबन्तात्प्रातिपदिकात्प्रथमा- समर्थादासामिति षष्ठ्यर्थे यत्प्रत्ययो भवति । यत्प्रथमासमर्थमुपधानो मन्त्र- श्चेत्स भवति । यत्तदासामिति निर्दिष्टमिष्टकाश्चेत्ता भवन्ति । लुक्च मतो- रिति प्रकृतिनिर्देशः । इतिकरणस्तत्तच्चेद्विवक्षा । तद्वानित्यवयवेन समुदायो व्यपदिश्यते । वर्चःशब्दो यस्मिन्मन्त्रे ऽस्ति स वर्चस्वान् । उपधीयते येन स उपधानः । शयनवचन इत्यर्थः । वर्चस्वानुपधानमन्त्र आसामिष्टकानामिति विगृह्य यति विहिते मतोर्लुकि कृते वर्चस्या उपदधाति तेजस्या उपदधाति । पयस्याः । रेतस्याः । तद्वानिति किम् । मन्त्रसमुदायादेव मा भूत् । उपधान इति किम् । वर्चस्वामुपस्थानमन्त्र आसामित्यत्र मा भूत् । मन्त्र इति किम् । अङ्गुलिमानुपधानो हस्त आसामित्यत्र मा भूत् । इष्टकास्विति किम् । वर्च- स्वानुपधानो मन्त्र एषां कपालानामित्यत्र मा भूत् । इतिकरणो नियमार्थः । अनेकपदसंभवेऽपि केन चिदेव पदेन तद्वान्मन्त्रो गृह्यते न सर्वेण ॥ अश्विमानण् ॥ १२६ ॥ अश्विशब्दो यस्मिन्मन्त्रे ऽस्ति सोऽश्विमान् । अश्विमच्छब्दादण् प्रत्ययो भवति । पूर्वस्य यतोपवादः । अश्विमानुपधानो मन्त्र आसामिष्टकानामिति विगृह्याणि विहिते तत्र मतुपो लुकि कृते इनण्यनपत्यइति प्रकृतिभावः । आश्विनीरुपदधाति ॥ वयस्यासु मूर्ध्नो मतुप् ॥ १२७ ॥ वयस्वानुपधानो मन्त्रो यासां ता वयस्यास्तास्वभिधेयासु मूर्ध्नो मतुप् प्रत्ययो भवति । पूर्वस्य यतोपवादः । यस्मिन्मन्त्रे वयः शब्दो मूर्धन् शब्दश्च विद्यते स वयस्वानपि भवति मूर्धन्वानपि । यथा मूर्द्धा वयः प्रजापतिश्छन्द इति । तत्र वयस्वच्छब्दादिव मूर्धन्वच्छब्दादपि यति प्राप्ते मतुब् विधीयते । मूर्धन्वतीरुपदधाति । वयस्या एव मूर्धन्वल्यः । वयस्यास्विति किम् । यत्र