काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 380, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ४ ॥ ४ ॥ ३७९ यञ्शब्दो निवृत्तः। मधुशब्दान्मयडर्थे यत्प्रत्ययो भवति। मधव्यान् स्तो- कान्। मधुमयानित्यर्थः ॥ वसोः समूहे च ॥ १४० वसुशब्दात्समूहे वाच्ये यत्प्रत्ययो भवति चकारान्मयडर्थे च। यथायोगं समर्थविभक्तिः। वस्यः समूहः। मयडर्थो वा ॥ अक्षरसम्हे छन्दसः स्वार्थेऽ- यसङ्ख्यानम् ॥ * ॥ ओश्रावयेति चतुरक्षरम्। अस्तु श्रौषडिति चतुरक्षरम्। यजेति द्वयक्षरम्। ये यजामहइति पञ्चाक्षरम्। द्वयक्षरो वषट्कारः। एष वै सप्तदशाक्षरश्छन्दस्यः प्रजापतिर्यज्ञो मन्त्रे विहितः। सप्तदशाक्षराण्येष छन्दस्य इत्यर्थः। छन्दःशब्दादक्षरसमूहे वर्तमानात्स्वार्थे यत्प्रत्ययः॥ वसुशब्दादपि बहुलक्यः ॥ * ॥ हस्तौ गृहीतस्य बहुभिर्वसव्यैः। वसुभिरित्यर्थः। अग्निरीशे वसव्यस्य। वसोरीत्यर्थः ॥ नक्षत्राद् घः ॥ १४१ ॥ नक्षत्रशब्दात्तुः प्रत्ययो भवति स्वार्थे। समूहमिति नानुवर्तते। नक्षत्रि- येभ्यः स्वाहा ॥ सर्वदेवात्तातिल् ॥ १४२ ॥ सर्वदेवशब्दाभ्यां तातिल् प्रत्ययो भवति छन्दसि विषये स्वार्थिकः। सर्वतातिः। देवतातिः ॥ शिवशमरिष्टस्य करे ॥ १४३ ॥ करोतीति करः प्रत्ययार्थः। तत्सामर्थ्यलभ्या षष्ठी समर्थविभक्तिः। शिवादिभ्यः शब्देभ्यः षष्ठीसमर्थेभ्यः कर इत्येतस्मिन्नर्थे तातिल् प्रत्ययो भवति। शिवं करोतीति, शिवतातिः। शंतातिः। अरिष्टतातिः ॥ भावे च ॥ १४४ ॥ भावे चार्थे छन्दसि विषये शिवादिभ्यस्तातिल् प्रत्ययो भवति। शिव- स्य भावः, शिवतातिः। शंतातिः। अरिष्टतातिः। इतः पूर्वोऽवधिरतः। पर- मन्यः प्रत्ययो ऽधिक्रियते ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य चतुर्थः पादः ॥ समाप्तश्च चतुर्थो ऽध्यायः ॥ ॥ शुभम् ॥