काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 381, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 381
३८० ॥ काशिका ॥ ५ ॥ १ ॥ ॥ पञ्चमाध्यायस्य प्रथमः पादः ॥ प्राक् क्रीताच्छः ॥ १ ॥ तेन क्रीतमिति वक्ष्यति, प्रागेतस्मात्क्रीतसंशब्दनाद्यानित ऊर्ध्वमनुक्र- मिष्यामश्छप्रत्ययस् त्वधिकृतो वेदितव्यः । वक्ष्यति । तस्मै हितमिति । वत्से- भ्यो हितो, वत्सीयो गोधुक् । करभीय उष्ट्रः । शकरभीयः । श्ववत्सीयः । चार्था- वधित्वेन गृहीतः, न प्रत्ययः । तेन प्राक् ठञः छ इति नोक्तम् ॥ उगवादिभ्यो यत् ॥ २ ॥ प्राक् क्रीतादित्येव । उवर्णान्तात्प्रातिपदिकाद्गवादिभ्यश्च यत्प्रत्ययो भवति । प्राक्क्रीतीयेष्वर्थेषु । छस्यापवादः । शङ्कव्यं दारु । पिचव्यः कार्पासः । कमण्डलव्या मृत्तिका * । गवादिभ्यः खल्वपि । गव्यम् । हविष्यम् । सनङ्गु- र