भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 387, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 387

३८६ ॥ काशिका ॥ ५ । १ ॥

शूर्पशब्दादन्यतरस्यामञ् प्रत्ययो भवति आर्हीयेष्वर्थेषु । ठञोऽपवादः । पक्षे सोऽपि भवति । शूर्पेण क्रीतं, शौर्पम् । शौर्पिकम् ॥ शतमानविंशतिकसहस्रवसनादण् ॥ २७ ॥ शतमानादिभ्यः शब्देभ्यो ऽण् प्रत्ययो भवति आर्हीयेष्वर्थेषु । ठञ्ठ- ञ्कनामपवादः । शतमानेन क्रीतं, शातमानं शतम् । वैंशतिकम् । साहस्रम् । वासनम् ॥ अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् ॥ २८ ॥ आर्हादित्येव । अध्यर्धशब्दः पूर्वो यस्मिन्तस्मादध्यर्धपूर्वात्प्रातिपदि- काद् द्विगोश्च परस्य आर्हीयस्य लुग् भवति असंज्ञायां विषये । अध्यर्धकंसम् । द्विकंसम् । त्रिकंसम् । अध्यर्धशूर्पम् । द्विशूर्पम् । त्रिशूर्पम् । असंज्ञायामिति किम् । पञ्चलोहितिकम् । पाञ्चकपालिकम् । लोहिनीशब्दस्य भस्याढे तद्धि- त इति पुंवद्भावः * । प्रत्ययान्तस्य विशेषणमसंज्ञाग्रहणं न चेत्प्रत्ययान्तं संज्ञेति । अध्यर्धशब्दः संख्येयः । किमर्थं भेदेनोपादीयते । ज्ञापकार्थं क्व चिदस्य संख्याकार्यं न भवति । संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुजिति ॥ विभाषा कार्षापणसहस्राभ्याम् ॥ २९ ॥ अध्यर्धपूर्वाद् द्विगोश्च कार्षापणसहस्रान्तादुत्तरस्यार्हीयप्रत्ययस्य विभा- षा लुग्भवति । पूर्वेण लुकि नित्ये प्राप्ते विकल्प्यते । अध्यर्धकार्षापणम् । अध्य- र्धकार्षापणिकम् । द्विकार्षापणम् । द्विकार्षापणिकम् । औपसंख्यानिकस्य टित्त्वेनो लुक् । अलुकूपक्षे च प्रतिरादेशो विकल्पितः । अध्यर्धप्रतिकम् । द्विप्रतिकम् । त्रिप्रतिकम् । सहस्रात् । अध्यर्धसहस्रम् । अध्यर्धसाहस्रम् । द्विसहस्रम् । द्विसाह- स्रम् । अलुकूपक्षे संख्यायाः संवत्सरसंख्यस्य चेत्युत्तरपदवृद्धिः ॥ सुवर्णशतमानयो- रुपसंख्यानम् ॥ * ॥ अध्यर्धसुवर्णम् । अध्यर्धसौवर्णिकम् । द्विसुवर्णम् । द्विसौ- वर्णिकम् । अध्यर्धशतमानम् । अध्यर्धशातमानम् । द्विशतमानम् । द्विशातमा- नम् । परिमाणान्तस्येत्युत्तरपदवृद्धिः ॥ द्वित्रिपूर्वान्निष्कात् ॥ ३० ॥ द्विगोरित्येव । द्वित्रिपूर्वाद् द्विगोर्निष्कान्तादार्हीयप्रत्ययस्य विभाषा लुग्भ- वति । द्विनिष्कम् । द्विनैष्किकम् । त्रिनिष्कम् । त्रिनैष्किकम् ॥ बहुपूर्वाच्चेति वक्तव्यम् ॥ * ॥ बहुनिष्कम् । बहुनैष्किकम् परिमाणान्तस्येत्युत्तरपदवृद्धिः ॥ बिस्ताच्च ॥ ३१ ॥


  • लोहिनीशब्दस्येत्यारभ्य पुंवद्भाव इत्यन्तो ग्रन्थः प्रक्षिप्तोऽत्र मूले । पदमञ्जर्यां दर्शनात् ।
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक) · पृष्ठ 387, कुल 828 में से · BharatKosha