भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 391, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 391

३८० ॥ काशिका ॥ ५ ॥ १ ॥ प्रत्येकमभिसंबध्यते । तत्र यदधमर्णेन उत्तमर्णाय मूलधनातिरिक्तं देयं तद् वृद्धिः । ग्रामादिषु स्वामिग्राह्यो भाग आयः । पटादीनामुपादानमूलादतिरिक्तं द्रव्यं लाभः । रक्षानिवेशो राजभागः शुल्कः । उत्कोच उपदा । पञ्चास्मिन्वृ- द्धिर्वा आयो वा लाभो वा शुल्को वा उपदा वा दीयते, पञ्चकः । सप्तकः । शत्यः । शतिकः । साहस्रः ॥ चतुर्थ्यर्थेऽपसंख्यानम् ॥ * ॥ पञ्चास्मै वृद्धिर्वा आयो वा लाभो वा उपदा वा दीयते, पञ्चको देवदत्तः । सिद्धं त्वधिकर- णत्वेन विवक्षितत्वात् । सममब्राह्मणे दानमिति यथा ॥ पूरणार्द्धाट्ठन् ॥ ४८ ॥ पूरणवाचिनः शब्दादर्द्धशब्दाच्च ठन् प्रत्ययो भवति तदस्मिन्वृद्ध्याय- लाभशुल्कोपदादीयतेत्येतस्मिन्नर्थे । यथायथं ठक्ठिटनोरपवादः । द्वितीयो वृद्ध्यादिरस्मिन्दीयते, द्वितीयिकः । तृतीयिकः । पञ्चमिकः । सप्तमिकः । आर्द्धिकः । अर्द्धशब्दो रूपकार्द्धस्य रूढिः ॥ भागाद्यच्च ॥ ४९ ॥ भागशब्दाद्यत् प्रत्ययो भवति । चकाराट्ठंश्च । तदस्मिन्वृद्ध्यायलाभ- शुल्कोपदा दीयतइत्येतस्मिन्नर्थे । ठञोऽपवादः । भागे वृद्ध्यादिरस्मिन्दीयते, भाग्यं, भागिकं शतम् । भाग्या भागिका विंशतिः । भागशब्दोऽपि रूपकार्द्धस्य वाचकः ॥ तद्धरति वहत्यावहति भाराद्वंशादिभ्यः ॥ ५० ॥ तदिति द्वितीयासमर्थाद्धरत्यादिष्वर्थेषु यथाविहितं प्रत्ययो भवति । प्रकृतिविशेषणं भाराद्वंशादिभ्य इति । वंशादिभ्यः परो यो भारशब्दस्तदन्ता- त्प्रातिपदिकादिति । वंशभारं हरति वहत्यावहति वा, वांशभारिकः । कौट- ञ्जभारिकः । बाल्बजभारिकः । भारादिति किम् । वंशं हरति । वंशादिभ्य इति किम् । व्रीहिभारं हरति । अपरा वृत्तिः । भाराद्वंशादिभ्य इति, भार- भूतेभ्यो वंशादिभ्य इत्यर्थः । भारशब्दोऽर्थद्वारेण वंशादीनां विशेषणम् । भार- भूतान्वंशान् हरति, वांशिकः । कौटञ्जिकः । बाल्बजिकः । भारादिति किम् । वंशं हरति । वंशादिभ्य इति किम् । भारभूतान्व्रीहीनवहति । सूत्रार्थद्वयमपि चेतदाचार्येण शिष्याः प्रतिपादिताः । तदुभयमपि ग्राह्यम् । हरति देशान्तरं प्रापयति चोरयति वा । वहत्युत्तिक्षिप्य धारयतीत्यर्थः । आवहति उत्पादय- तीत्यर्थः । वंश । कुटज । बल्वज । मूल । ऋक्ष । स्थूणा । अश्मन् । अश्व । इक्षु । खट्वा । वंशादि ॥ वस्त्रद्रव्याभ्यां ठन्कनौ ॥ ५१ ॥