काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 393, कुल 828 में से
संदर्भ में पढ़ें३८२ ॥ काशिका ॥ ५ ॥ १ ॥ तदस्य परिमाणम् ॥ ५७ ॥ तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत् प्रथमासमर्थं परिमाणं चेत्तद्भवति। प्रस्थः परिमाणमस्य, प्रास्थिको राशिः। खारीकः। शत्यः। शतिकः। साहस्रः। द्रौणिकः। कौडविकः। वर्षशतं परिमाणमस्य, वार्षशतिकः। वार्षसाहस्रिकः। षष्टिर्जीवितपरिमाणमस्येति, षाष्टिकः। द्विसप्ततिकः। समर्थविभक्तिः प्रत्ययार्थेश्च पूर्वसूत्रादेवानुवर्त्तष्यते किमर्थं पुनरनयोरुपादानम्। पुनर्विधानार्थम्। द्वे षष्टी जीवितपरिमाणमस्य द्विषाष्टिकः। द्विसप्ततिकः। पुनर्विधानसामर्थ्याद्व्यर्हत्पूर्वद्विगोर्लुङ् न भवति॥ संख्यायाः संज्ञासंघसूत्राध्ययनेषु ॥ ५८ ॥ तदस्य परिमाणमिति वर्तते। संख्यावाचिनः प्रातिपदिकात्परिमाणो- पाधिकात्प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति। संज्ञासंघ- सूत्राध्ययनेष्विति प्रत्ययार्थविशेषणम्। तत्र संज्ञायां स्वार्थे प्रत्ययो वाच्यः। पञ्चैव पञ्चकाः शकुनयः। त्रिकाः शालङ्कायनाः। संघ। पञ्च परिमाणमस्य, पञ्चकः संघः। अष्टकः। सूत्र। अष्टावध्यायाः परिमाणमस्य सूत्रस्य, अष्टकं पाणिनीयम्। दशकं वैयाघ्रपदीयम्। त्रिकं काशकृत्स्नम्। ननु चाध्यायसमूहः सूत्रसंघ एव भवति। नैतदस्ति। प्राणिसमूहे संघशब्दो रूढः। अध्ययने। पञ्चको ऽधीतः। सप्तको ऽधीतः। अष्टकः। नवकः। अधीतिरध्ययनम्। तस्य संख्यापरिमाणं पञ्चावृत्तयः पञ्चवाराः पञ्चरूपाण्यस्याध्ययनस्य, पञ्चकम- ध्ययनम्॥ स्तोमे डविधिः पञ्चदशाद्यर्थः ॥ * ॥ पञ्चदश मन्त्राः परिमाण- मस्य, पञ्चदशः स्तोमः। सप्तदशः। एकविंशः॥ शन्शतोर्डिनिश्च्छन्दसि ॥ * ॥ पञ्चदशिनोऽर्द्धमासाः। त्रिंशिनो मासाः॥ विंशतेश्चेति वक्तव्यम् ॥ * ॥ विंशिनो ऽङ्गिरसः॥ पङ्क्तिविंश