काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 398, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ५ । १ ॥ ३८७
अवयसि ठंश्च ॥ ८४ ॥
षण्मासशब्दादवयस्यभिधेये ठन् प्रत्ययो भवति । चकारेणानन्तरण्यस्य
समुच्चयः क्रियते * । षण्मासिको रोगः । षाण्मास्यः ॥
समायाः खः ॥ ८५ ॥
अधीष्टादयश्चत्वारो ऽर्था अनुवर्तन्ते । समाशब्दाद् द्वितीयासमर्थाद्
अधीष्टादिष्वर्थेषु खः प्रत्ययो भवति । ठञोपवादः । समामधीष्टो भृतो भूतो
भावी वा, समीनः । के चित्तु तेन निर्वृत्तमिति सर्वत्रानुवर्तयन्ति । समया
निर्वृत्तः, समीनः ॥
द्विगोर्वा ॥ ८६ ॥
समायाः ख इत्येव । समाशब्दान्ताद् द्विगोर्निर्वृत्तादिष्वर्थेषु पञ्चसु
वा खः प्रत्ययो भवति । पूर्वेण नित्यः प्राप्तो विकल्प्यते । प्राप्तेः संख्यापूर्वे-
पदानां तदन्तग्रहणमलुकीति प्राप्तिरस्त्येव । खेन मुक्ते पक्षे ठञपि भवति ।
द्विसमीनः । द्वैसामिकः । त्रिसमीनः । त्रैसामिकः ॥
रात्र्यहस्संवत्सराच्च ॥ ८७ ॥
† रात्रि अहः संवत्सर इत्येवमन्ताद् द्विगोर्निर्वृत्तादिष्वर्थेषु वा खः
प्रत्ययो भवति । खेन मुक्ते पक्षे ठञपि भवति । द्विरात्रीणः । द्वैरात्रिकः ।
त्रिरात्रीणः । त्रैरात्रिकः । द्व्यहीनो, द्व्यहिकः । त्र्यहीणः । त्र्यहिकः । द्विसंव-
त्सरीणः । द्विसांवत्सरिकः । त्रिसंवत्सरीणः । त्रिसांवत्सरिकः । संख्यायाः ।
संवत्सरसंख्यस्य चेत्युत्तरपदवृद्धिः ॥
वर्षाल्लुक् च ॥ ८८ ॥
द्विगोरित्येव । वर्षान्ताद् द्विगोर्निर्वृत्तादिष्वर्थेषु वा खः प्रत्ययो भवति ।
पक्षे ठञ् । तयोश्च वा लुग्भवति । एवं त्रीणि रूपाणि भवन्ति । द्विवर्षीणो
व्याधिः । द्विवार्षिकः । द्विवर्षः । त्रिवर्षीणः । त्रिवार्षिकः । त्रिवर्षः । वर्ष-
स्याभविष्यतीत्युत्तरपदवृद्धिः । भाविनि तु द्वैवार्षिकः ॥
चित्तवति नित्यम् ॥ ८९ ॥
चित्तवति प्रत्ययार्थे ऽभिधेये वर्षशब्दान्ताद् द्विगोर्निर्वृत्तादिष्वर्थेषूत्प-
न्नस्य प्रत्ययस्य ‡ नित्यं लुग्भवति । पूर्वेण विकल्पे प्राप्ते वचनम् । द्विवर्षो
दारकः । चित्तवतीति किम् । द्विवर्षीणो व्याधिः ॥
- चकारो ऽनन्तरस्य ययतः समुच्चयार्थः । पा० २ । † द्विगोरित्येवेत्यधिकं बहुषु पुस्तकेषु । ‡ निर्वृत्तादिष्वर्थेषूत्पन्नस्य प्रत्ययस्येति बहुषु पुस्तकेषु नास्ति ।