भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 400, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 400

नस्तद्धितेति टिलोपः * ॥ अवान्तरदीक्षादिभ्यो डिनिर्वक्तव्यः ॥ * ॥ अवान्त- रदीक्षां चरति, अवान्तरदीक्षी । तिलव्रती ॥ अष्टाचत्वारिंशतो डुवुंश्च डिनिश्च वक्तव्यः ॥ * ॥ अष्टाचत्वारिंशद्वर्षाणि व्रतं चरति, अष्टाचत्वारिंशकः । अष्टा- चत्वारिंशी ॥ चातुर्मास्यानां यलोपश्च डुवुंश्च डिनिश्च वक्तव्यः ॥ * ॥ चातु- र्मास्यानि चरति, चातुर्मासकः । चातुर्मासी ॥ चतुर्मासाद् ण्यौ यज्ञे ॥ * ॥ तत्र भवे । चतुर्षु मासेषु भवानि, चातुर्मास्यानि ॥ संज्ञायामण्वक्तव्यः ॥ * ॥ चतुर्षु मासेषु भवा, चातुर्मासी पौषे मासी । आषाढी । कार्तिकी । फाल्गुनी ॥ तस्य च दक्षिणा यज्ञाख्येभ्यः ॥ ९५ ॥ तस्येति षष्ठीसमर्थेभ्यो यज्ञाख्येभ्यो दक्षिणेत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति । अग्निष्टोमस्य दक्षिणा, आग्निष्टोमिकी । वाजपेयिकी । राजसूयिकी । आख्याग्रहणमकालादपि यज्ञवाचिनो यथा स्यादिति । इतरथा हि कालाधि- कारादेकाहद्वादशाहप्रभृतय एव यज्ञा गृह्येरन् । प्राग्वतेः संख्यापूर्वपदानां तद- न्तस्याहनामलुकीति कालाधिकारेपि द्वादशाहादिष्वस्ति प्राप्तिः ॥ तत्र च दीयते कार्यं भववत् ॥ ९६ ॥ तत्रेति सप्तमीसमर्थात्कालवाचिनः प्रातिपदिकाद्दीयते कार्यमित्येतयो- रर्थयोर्भववत्प्रत्ययो भवति । यथा । मासे भवं, मासिकम् । सांवत्सरिकम् । प्रावृषेण्यम् । वासन्तिकम् । वासन्तम् । हैमनम् । हैमन्तम् । हैमन्तिकम् । शारदम् । वतिः सर्वसादृश्यार्थः । योगविभागश्चात्र कर्त्तव्यः । तत्र च दीयते, यज्ञाख्येभ्य इति । आग्निष्टोमिकं भक्तम् । राजसूयिकम् । वाजपेयिकम् । का- लाधिकारस्य पूर्णो ऽवधिः ॥ अतः परं सामान्येन प्रत्ययविधानम् ॥ व्युष्टादिभ्यो ऽण् ॥ ९७ ॥ तत्रेति सप्तमीसमर्थेभ्यो व्युष्टादिभ्यो दीयते कार्यमित्येतयोरण् प्रत्ययो भवति । व्युष्टे दीयते कार्यं वा, वैयुष्टम् । नैत्यम् ॥ अस्य प्रकरणे अग्निपदा- दिभ्य उपसंख्यानम् ॥ * ॥ † अत्रैव ते पठितव्याः । व्युष्ट । नित्य । निष्क्र- मण । प्रवेशन । तौर्य । संधम । आस्तरथ । संग्राम । संघात । अग्निपद । पीलुमूल । प्रवास । उपसंक्रमण । ‡ व्युष्टादिः ॥ तेन यथाकथाचहस्ताभ्यां णयतौ ९८ ॥


  • भस्याढ इति पुंवद्भावेन ङीपि निवृ