काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 411, कुल 828 में से
संदर्भ में पढ़ें४०८ ॥ काशिका ॥ ५ । २ ॥ वह्नीयम् । ब्राह्मणाच्छंसीयम् । आग्नीध्रम् । प्रतिप्रस्थात्रीयम् । त्वष्ट्रीयम् । पोत्रीयम् । बहुवचनं स्वरूपविधिनिरासार्थम् ॥ ब्रह्मणस्त्वः ॥ १३६ ॥ होत्राभ्य इत्यनुवर्त्तते । ब्रह्मन्शब्दाद्धोत्रावाचिनस्त्वः प्रत्ययो भवति भावकर्मणोः । छस्यापवादः । ब्रह्मणो भावः कर्म वा, ब्रह्मत्वम् । नेति वक्तव्ये त्ववचनं तलो बाधनार्थम् । यस्तु जातिशब्दो ब्राह्मणपर्यायो ब्रह्मन्- शब्दस्तस्त्वतलौ भवत एव । ब्रह्मत्वम् । ब्रह्मता । भवनावधिकयोर्नञ्स्न- ञोरधिकारः समाप्तः ॥ ॥ इति काशिकायां वृत्तौ पञ्चमस्याध्यायस्य प्रथमः पादः ॥ ॥ अथ पञ्चमाध्यायस्य द्वितीयः पादः ॥ धान्यानां भवने क्षेत्रे खञ् ॥ १ ॥ निर्देशादेव समर्थविभक्तिः । धान्यविशेषवाचिभ्यः षष्ठीसमर्थेभ्यो भव-