काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 410, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ५ ॥ १ ॥ ४०९ मौनम् । नागरम् । हारीतकम् । पाटवम् । लाघवम् । इगन्तादिति किम् । पटुत्वम् । लघुत्वम् । लघुपूर्वादिति किम् । कण्डूत्वम् । पाण्डुत्वम् । कथं काव्यमिति । ब्राह्मणादिषु कविशब्दो द्रष्टव्यः ॥ योपधाद्गुरूपोत्तमाद्वुञ् ॥ १३२ ॥ त्रिप्रभृतीनामन्तस्य समीपमुपोत्तमम् । गुरुरुपोत्तमं यस्य तद्गुरूपोत्तमम् । यकारोपधाद्गुरूपोत्तमाद्वुञ् प्रत्ययो भवति भावकर्मणोः । रमणीयस्य भावः कर्म वा, रामणीयकम् । वासनीयकम् । योपधादिति किम् । विमानत्वम् * । गुरूपोत्तमादिति किम् । क्षत्रियत्वम् ॥ सहायाद्द्वेति वक्तव्यम् ॥ * ॥ साहा- यकम् । साहाय्यम् ॥ द्वन्द्वमनोज्ञादिभ्यश्च ॥ १३३ ॥ द्वन्द्वसंज्ञकेभ्यो मनोज्ञादिभ्यश्च वुञ् प्रत्ययो भवति भावकर्मणोः । गोपा- लपशुपालानां भावः कर्म वा, गौपालपशुपालिका । शैव्योपाध्यायिका । कौत्स- कुशिकिका । मनोज्ञादिभ्यः । मानोज्ञकम् । काल्याणाकम् । मनोज्ञ