काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 409, कुल 828 में से
संदर्भ में पढ़ें४०६ ॥ काशिका ॥ ५ ॥ १ ॥ खण्डिक । दण्डिक । कुत्रिक । मिलिक । पिण्डिक । बाल । मन्द । स्तनिक । चूडितिक । ह्वषिक । पूतिक । पर्णिक । प्रतिक । अजानिक । सलनिक । सूचिक । राहुर । सूचक । पत्तिक । सारथिक । जलिक । सूतिक । अञ्ज- लिक । सूचक * ॥ प्राणभृज्जातिवयोवचनोद्गात्रादिभ्यो ऽञ् ॥ १२६ ॥ प्राणभृज्जातिवाचिभ्यः प्रातिपदिकेभ्यो वयोवचनेभ्य उद्गात्रादिभ्यश्चाञ् प्रत्ययो भवति भावकर्मणोरर्थयोः । अश्वस्य भावः कर्म वा, आश्वम् । औष्ट्रम् । वयोवचनेभ्यः । कौमारम् । कैशोरम् । उद्गात्रादिभ्यः । औद्गात्रम् । औन्नेत्रम् । उद्गातृ । उन्नेतृ । प्रतिहर्तृ । रथगणक । पतिगणक † । सुष्ठु । दुष्ठु । अध्वर्यु । वधू ॥ सुभगमन्त्रे ‡ ॥ हायनान्तयुवादिभ्योऽण् ॥ १३० ॥ हायनान्तेभ्यः प्रातिपदिकेभ्यः युवादिभ्यश्चाण् प्रत्ययो भवति भाव- कर्मणोरर्थयोः । द्विहायनस्य भावः कर्म वा, द्वैहायनम् । त्रैहायनम् । युवा- दिभ्यः । यौवनम् । स्थाविरम् ॥ श्रोत्रियस्य यलोपश्च वाच्यः ॥ * ॥ श्रोत्रि- यस्य भावः कर्म वा, श्रौत्रम् । युवन् । स्थविर । होतृ । यजमान । कमण्डलु ॥ पुरुषासे ॥ सुहृत् । यातृ । श्वशुर । कुस्त्री । सुस्त्री । सुहृदय । सुभ्रातृ । वृषल । दुर्भातृ ॥ हृदयासे ॥ चेतञ्ज । कृतक । परिव्राजक । कुशल । चपल । निपुण । पिशुन । सब्रह्मचारिन् । कुतूहल । अनुशंस § । युवादिः ॥ इगन्ताच्च लघुपूर्वात् ॥ १३१ ॥ इगन्ताच्च लघुपूर्वादण् प्रत्ययो भवति भावकर्मणोः । लघुपूर्वग्रहणेन प्रातिपदिकसमुदायो विशेष्यते । लघुः पूर्वो ऽवयवो ऽस्येति लघुपूर्वः । कुतः पुनरसौ लघुः पूर्वः । इक्स्संनिधानादिक इति विज्ञायते । लघुपूर्वोयस्मादिकः तदन्तात्प्रातिपदिकादित्ययमर्थो विवक्षितः । अपरे तत्पुरुषकर्मधारयं वर्ण- यन्ति । इक्चासावन्तश्चेतीगन्तः । लघुपूर्वग्रहणेन स एव विशेष्यते । पश्चा- त्तेन प्रातिपदिकस्य तदन्तविधिरिति । अस्मिन्व्याख्याने ऽन्तग्रहणमतिरिच्यते । लघुपूर्वादिक । इत्येतावदेव वाच्यं स्यात् । शुचेर्भावः कर्म वा, शौचम् ।
- शर्मिक । चर्मिक । कर्मिक । शोलिक । मूलिक । तिलिका । तिखिक । अजातिका । खण्डिक । पुत्रक । पर्णिका । प्रच्छिक । प्रविक । परिच्छक । पूजनिक ॥ राजासे ॥ सूचिक । स्व- स्तिक । चुडिक । एते शब्दा अत्र गणे पुस्तकान्तरे ऽधिकाः । † पक्षिगणक । पा० २ । ‡ प्रशास्तृ । पोतृ । नेष्टृ । कर्तृ । एते ऽत्र गणे ऽधिकाः कुत्र चित् । § भ्रातृ । कुण्डुक । कन्दुक । दुःस्त्री । दुर्हृदय । दुर्भर्तृ । मिथुन । कुलटी । मण्डप । कतक । कितव । पोत । एते ऽत्र गणे ऽधिकाः पुस्तकान्तरे ।