काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 408, कुल 828 में से
संदर्भ में पढ़ेंमौनम् । नागरम् । हारीतकम् । पाटवम् । लाघवम् । इगन्तादिति किम् । पटुत्वम् । लघुत्वम् । लघुपूर्वादिति किम् । कण्डूत्वम् । पाण्डुत्वम् । कथं काव्यमिति । ब्राह्मणादिषु कविशब्दो द्रष्टव्यः ॥ योपधाद्गुरूपोत्तमाद्वुञ् ॥ १३२ ॥ त्रिपभृतीनामन्तस्य समीपमुपोत्तमम् । गुरूपोत्तमं यस्य तद्गुरूपोत्तमम् । यकारोपधाद्गुरूपोत्तमाद्वुञ् प्रत्ययो भवति भावकर्मणोः । रमणीयस्य भावः कर्म वा, रामणीयकम् । वासनीयकम् । योपधादिति किम् । विमानत्वम् * । गुरूपोत्तमादिति किम् । तच्चियत्वम् ॥ सहायाद्वेति वक्तव्यम् ॥ * ॥ साहा- यकम् । साहाय्यम् ॥ द्वन्द्वमनोज्ञादिभ्यश्च ॥ १३३ ॥ द्वन्द्वसंज्ञकेभ्यो मनोज्ञादिभ्यश्च वुञ् प्रत्ययो भवति भावकर्मणोः । गोपा- लपशुपालानां भावः कर्म वा, गोपालपशुपालिका । शैष्योपाध्यायिका । कौत्स- कुशिकिका । मनोज्ञादिभ्यः । मानोज्ञकम् । काल्याणकम् । मनोज्ञ । कल्याण । प्रियरूप । छान्दस । छात्त्र । मेधाविन् । अभिरूप । आढ्य । कुलपुत्र । श्रोत्रिय । चोर । धूर्त्त । वैश्वदेव । युवन् । ग्रामपुत्र । ग्रामखण्ड । ग्रामकुमार । अमु- ष्यपुत्र । अमुष्यकुल । शतपुत्र । कुशल । मनोज्ञादिः † ॥ गोत्रचरणाच्छ्लाघात्याकारतद्वेतेषु ॥ १३४ ॥ गोत्रवाचिनश्चरणवाचिनश्च प्रातिपदिकाद् वुञ् प्रत्ययो भवति प्रत्येकं भावकर्मणोरर्थयोः श्लाघादिषु विषयभूतेषु । तत्र श्लाघा विकत्थनम् । अत्या- कारः पराधिक्षेपः तद्वेतस्तत्प्राप्तस्तत्सङ्गेतो वा । तदिति गोत्रचरणयोर्भावक- र्मणी निर्दिश्येते । तत्प्राप्तस्तदवगतवान् तद्वेत्त इत्युच्यते । श्लाघायां तावत् । गार्गिकया श्लाघते । काठिकया श्लाघते । गार्ग्यत्वेन कठत्वे विक- त्थनमित्यर्थः । अत्याकारे । गार्गिकयात्याकुरुते । काठिकयात्याकुरुते । गार्ग्य- त्वेन कठत्वेन परानधिक्षिप्तीत्यर्थः । तद्वेत्तः । गार्गिकामवेतः । काठिकाम- वेतः । गार्ग्यत्वं कठत्वं च प्राप्त इत्यर्थः । तद्वा ऽवगतवानित्यर्थः । श्लाघा- दिष्विति किम् । गार्ग्यत्वम् । कठत्वम् ॥ होत्राभ्यश्छः ॥ १३५ ॥ होत्राशब्द ऋत्विग्विशेषवचनः । ऋत्विग्विशेषवाचिभ्यश्छः प्रत्ययो भवति भावकर्मणोः । अच्छावाकस्य भावः कर्म वा, ऽच्छावाकीयम् । मित्रा-
पादटिप्पणी (Footnotes):
- कुलीनत्वम् । पा० २ । † अपुत्र । अवश्य । अहोपुरुष । एते शब्दा अत्र ग्रन्थे ऽधिकाः कुत्र चित् ।