भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 407, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 407

४०६ ॥ काशिका ॥ ५ ॥ १ ॥ खण्डिक । दण्डिक । कुञ्जिक । मिल्लिक । पिण्डिक । आल । मन्द । स्वनिक । मूडितिक । ह्रषिक । पूतिक । पश्विक । प्रतिक । अजानिक । सलनिक । सूचिक । राकर । सूचक । पत्तिक । सारथिक । जलिक । सूतिक । अञ्ज- लिक । सूचक * ॥ प्राणभृज्जातिवयोवचनोद्गात्रादिभ्यो ऽञ् ॥ १२६ ॥ प्राणभृज्जातिवाचिभ्यः प्रातिपदिकेभ्यो वयोवचनेभ्य उद्गात्रादिभ्यश्चाञ् प्रत्ययो भवति भावकर्मणोरर्थयोः । अश्वस्य भावः कर्म वा, आश्वम् । मौष्ट्रम् । वयोवचनेभ्यः । कौमारम् । कैशोरम् । उद्गात्रादिभ्यः । औद्गात्रम् । औन्नेत्रम् । उद्गातृ । उन्नेतृ । प्रतिहर्तृ । रथगणक । पत्तिगणक † । सुष्ठु । दुष्ठु । आध्वर्यु । वधू ॥ सुभगमन्त्रे ‡ ॥ हायनान्तयुवादिभ्योऽण् ॥ १३० ॥ हायनान्तेभ्यः प्रातिपदिकेभ्यः युवादिभ्यश्चाण् प्रत्ययो भवति भाव- कर्मणोरर्थयोः । द्विहायनस्य भावः कर्म वा, द्वैहायनम् । त्रैहायनम् । युवा- दिभ्यः । यौवनम् । स्थविरम् ॥ श्रोत्रियस्य यलोपश्च वाच्यः ॥ * ॥ श्रोत्रि- यस्य भावः कर्म वा, श्रौत्रम् । युवन् । स्थविर । होतृ । यजमान । कमण्डलु ॥ पुरुषासे ॥ सुहृत् । यातृ । श्रवण । कुस्त्री । सुस्त्री । सुहृदय । सुभ्रातृ । वृषल । दुर्भ्रातृ ॥ हृदयासे ॥ क्षेत्रज्ञ । सूतक । परिव्राजक । कुशल । चपल । निपुण । पिशुन । सब्रह्मचारिन् । कुतूहल । अनृशंस § । युवादिः ॥ इगन्ताच्च लघुपूर्वात् ॥ १३१ ॥ इगन्ताच्च लघुपूर्वाद् अण् प्रत्ययो भवति भावकर्मणोः । लघुपूर्वग्रहणेन प्रातिपदिकसमुदायो विशेष्यते । लघुः पूर्वो ऽवयवो ऽस्येति लघुपूर्वः । कुतः पुनरसौ लघुः पूर्वः । इक्संविधानादिक इति विज्ञायते । लघुपूर्वोऽयस्मादिकः तदन्तात्प्रातिपदिकादित्ययमर्थो विवक्षितः । अपरे तत्पुरुषकर्मधारयं वर्ण- यन्ति । इक्चासावन्तश्चेतीगन्तः । लघुपूर्वग्रहणेन स एव विशेष्यते । पश्चा- त्तेन प्रातिपदिकस्य तदन्तविधिरिति । अस्मिन्व्याख्याने ऽन्तग्रहणमतिरिच्यते । लघुपूर्वादिक इत्येतावदेव वाच्यं स्यात् । शुचेर्भावः कर्म वा, शौचम् ।

  • शर्मिक । चर्मिक । कार्मिक । शीलिन । मूलिन । तिलिका । तिथिक । अञ्जलिका । वार्त्तिक । पुत्रक । पथिक । प्रचिक । प्रविक । परिचक । पूजनिक ॥ राजासे ॥ मूचिक । स्व- रिक । मुडिक । एते शब्दा अत्र गणे पुस्तकान्तरे ऽधिकाः । † पत्तिगणक । पा० २ । ‡ प्रशास्तृ । पोतृ । नेष्टृ । कर्तृ । एते ऽत्र गणे ऽधिकाः कुत्र चित् । § भ्रातृ । कुपुत्र । कन्दुक । दुःस्त्री । दुर्हृदय । दुर्हृत् । मिथुन । कुस्त्री । मङ्गल । कतक । किसलय । पोत । एते ऽत्र गणे ऽधिकाः पुस्तकान्तरे ।