काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 406, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ५ । १ ॥ ४०५ ब्राह्मणादिराकृतिगणः । आदिशब्दः प्रकारवचनः ॥ चातुर्वर्ण्यादीनां स्वार्थे- उपसंख्यानम् ॥ * ॥ चत्वार एव वर्णाश्चातुर्वर्ण्यम् । चातुराश्रम्यम् । त्रैलो- क्यम् । त्रैश्वर्यम् । षाड्गुण्यम् । सैन्यम् । साचिध्यम् । सामीप्यम् । औप- म्यम् । सौख्यम् । ब्राह्मण । वाडव । माणव । चोर । मूक । आराध्य । विराध्य । अपराधय । उपराध्य । एकभाव । द्विभाव । त्रिभाव । अन्यभाव । समस्थ । विषमस्थ । परस्थ । मध्यमस्थ । अनीश्वर । कुशल । कपि । चपल । अचेतन । निपुण ॥ अर्हतो नुम् च ॥ आर्हन्त्यम् । संवादिन् । संवेशिन् । बहुभाषिन् । बालिश । दुष्पुरुष । कापुरुष । दायाद । विशसि । धूर्त्त । राजन् । संभाषिन् । शीर्षघातिन् । अधिपति । अलस । पिशाच । पिशुन । विशाल । गणपति । धनपति । नरपति । गडुल । निख । निधान । विष ॥ सर्ववेदादिभ्यः स्वार्थे ॥ चतुर्वेदस्योभयपदवृद्धिश्च ॥ चातुर्वैद्यम् * ॥ स्तेनाद्यन्नलोपश्च ॥ १२५ ॥ स्तेनशब्दात्षष्ठीसमर्थाद्भावकर्मणोर्यत्प्रत्ययो भवति, नशब्दस्य लोपश्च भवति । स्तेनस्य भावः कर्म वा, स्तेयम् । स्तेनादिति के चिद् योगविभागं कुर्वन्ति । स्तेनात्ष्यङ्भवति । स्तैन्यम् । ततो यन्नलोपश्च, स्तेयम् ॥ सख्युर्यः ॥ १२६ ॥ सखिशब्दाद् यः प्रत्ययो भवति भावकर्मणोरर्थयोः सख्युर्भावः कर्म वा, सख्यम् ॥ दूतवणिग्भ्यां चेति वक्तव्यम् ॥ * ॥ दूत्यम् । वणिज्यम् । कथं वाणिज्यम् । ब्राह्मणादित्वात् ॥ कपिज्ञात्योर्ढक् ॥ १२७ ॥ कपिज्ञातिशब्दाभ्यां ढक् प्रत्ययो भवति भावकर्मणोरर्थयोः । कपेर्भावः कर्म वा, कापेयम् । ज्ञातेयम् ॥ यथासंख्यमर्थयोः सर्वेनैवात्र प्रकरणे नेष्यते ॥ पत्यन्तपुरोहितादिभ्यो यक् ॥ १२८ ॥ पत्यन्तात्प्रातिपदिकात्पुरोहितादिभ्यश्च यक् प्रत्ययो भवति भावकर्म- णोरर्थयोः । सेनापतेर्भावः कर्म वा, सेनापत्यम् । गार्हपत्यम् । प्राजापत्यम् । पौरोहित्यम् । राज्यम् । पुरोहित । राजन् । संयामिक । एषिक । वर्मित ।
- स्वभाव । निघातिन् । विघातिन् । राजपुत्र । विशस्ति । विप्राय । विप्रात । विश्वा- स । नयात । सुझित । दीन । विदग्ध । उचित । शमथ । श्लो । तत्पर । इदंपर । अवातपा । पुरस् । पुनःपुनर् । अभीक्ष्ण । सरतम । प्रकाम । यथाकाम । निकुल । स्वराज । महाराज । युवराज । सबाहु । अविदूर । अपिशुन । अयशस । अयवातथ । अयथापुर । स्वधर्म । अनुकूल । परिमण्डल । विमण्डल । असिच्यु । उदासीन । ईश्वर । प्रतिभू । साक्षि । मानुष । काशिक । नास्तिक । पुगपत् । पूर्वापर । उत्तराधर । एते शब्दा अत्र गणे अधिकाः पुस्तकान्तरे ।