काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
४०६ ॥ काशिका ॥ ५ ॥ १ ॥ खण्डिक । दण्डिक । कुत्रिक । मिलिक । पिण्डिक । बाल । मन्द । स्तनिक । चूडितिक । ह्वषिक । पूतिक । पर्णिक । प्रतिक । अजानिक । सलनिक । सूचिक । राहुर । सूचक । पत्तिक । सारथिक । जलिक । सूतिक । अञ्ज- लिक । सूचक * ॥ प्राणभृज्जातिवयोवचनोद्गात्रादिभ्यो ऽञ् ॥ १२६ ॥ प्राणभृज्जातिवाचिभ्यः प्रातिपदिकेभ्यो वयोवचनेभ्य उद्गात्रादिभ्यश्चाञ् प्रत्ययो भवति भावकर्मणोरर्थयोः । अश्वस्य भावः कर्म वा, आश्वम् । औष्ट्रम् । वयोवचनेभ्यः । कौमारम् । कैशोरम् । उद्गात्रादिभ्यः । औद्गात्रम् । औन्नेत्रम् । उद्गातृ । उन्नेतृ । प्रतिहर्तृ । रथगणक । पतिगणक † । सुष्ठु । दुष्ठु । अध्वर्यु । वधू ॥ सुभगमन्त्रे ‡ ॥ हायनान्तयुवादिभ्योऽण् ॥ १३० ॥ हायनान्तेभ्यः प्रातिपदिकेभ्यः युवादिभ्यश्चाण् प्रत्ययो भवति भाव- कर्मणोरर्थयोः । द्विहायनस्य भावः कर्म वा, द्वैहायनम् । त्रैहायनम् । युवा- दिभ्यः । यौवनम् । स्थाविरम् ॥ श्रोत्रियस्य यलोपश्च वाच्यः ॥ * ॥ श्रोत्रि- यस्य भावः कर्म वा, श्रौत्रम् । युवन् । स्थविर । होतृ । यजमान । कमण्डलु ॥ पुरुषासे ॥ सुहृत् । यातृ । श्वशुर । कुस्त्री । सुस्त्री । सुहृदय । सुभ्रातृ । वृषल । दुर्भातृ ॥ हृदयासे ॥ चेतञ्ज । कृतक । परिव्राजक । कुशल । चपल । निपुण । पिशुन । सब्रह्मचारिन् । कुतूहल । अनुशंस § । युवादिः ॥ इगन्ताच्च लघुपूर्वात् ॥ १३१ ॥ इगन्ताच्च लघुपूर्वादण् प्रत्ययो भवति भावकर्मणोः । लघुपूर्वग्रहणेन प्रातिपदिकसमुदायो विशेष्यते । लघुः पूर्वो ऽवयवो ऽस्येति लघुपूर्वः । कुतः पुनरसौ लघुः पूर्वः । इक्स्संनिधानादिक इति विज्ञायते । लघुपूर्वोयस्मादिकः तदन्तात्प्रातिपदिकादित्ययमर्थो विवक्षितः । अपरे तत्पुरुषकर्मधारयं वर्ण- यन्ति । इक्चासावन्तश्चेतीगन्तः । लघुपूर्वग्रहणेन स एव विशेष्यते । पश्चा- त्तेन प्रातिपदिकस्य तदन्तविधिरिति । अस्मिन्व्याख्याने ऽन्तग्रहणमतिरिच्यते । लघुपूर्वादिक । इत्येतावदेव वाच्यं स्यात् । शुचेर्भावः कर्म वा, शौचम् ।
- शर्मिक । चर्मिक । कर्मिक । शोलिक । मूलिक । तिलिका । तिखिक । अजातिका । खण्डिक । पुत्रक । पर्णिका । प्रच्छिक । प्रविक । परिच्छक । पूजनिक ॥ राजासे ॥ सूचिक । स्व- स्तिक । चुडिक । एते शब्दा अत्र गणे पुस्तकान्तरे ऽधिकाः । † पक्षिगणक । पा० २ । ‡ प्रशास्तृ । पोतृ । नेष्टृ । कर्तृ । एते ऽत्र गणे ऽधिकाः कुत्र चित् । § भ्रातृ । कुण्डुक । कन्दुक । दुःस्त्री । दुर्हृदय । दुर्भर्तृ । मिथुन । कुलटी । मण्डप । कतक । कितव । पोत । एते ऽत्र गणे ऽधिकाः पुस्तकान्तरे ।
॥ काशिका ॥ ५ ॥ १ ॥ ४०९ मौनम् । नागरम् । हारीतकम् । पाटवम् । लाघवम् । इगन्तादिति किम् । पटुत्वम् । लघुत्वम् । लघुपूर्वादिति किम् । कण्डूत्वम् । पाण्डुत्वम् । कथं काव्यमिति । ब्राह्मणादिषु कविशब्दो द्रष्टव्यः ॥ योपधाद्गुरूपोत्तमाद्वुञ् ॥ १३२ ॥ त्रिप्रभृतीनामन्तस्य समीपमुपोत्तमम् । गुरुरुपोत्तमं यस्य तद्गुरूपोत्तमम् । यकारोपधाद्गुरूपोत्तमाद्वुञ् प्रत्ययो भवति भावकर्मणोः । रमणीयस्य भावः कर्म वा, रामणीयकम् । वासनीयकम् । योपधादिति किम् । विमानत्वम् * । गुरूपोत्तमादिति किम् । क्षत्रियत्वम् ॥ सहायाद्द्वेति वक्तव्यम् ॥ * ॥ साहा- यकम् । साहाय्यम् ॥ द्वन्द्वमनोज्ञादिभ्यश्च ॥ १३३ ॥ द्वन्द्वसंज्ञकेभ्यो मनोज्ञादिभ्यश्च वुञ् प्रत्ययो भवति भावकर्मणोः । गोपा- लपशुपालानां भावः कर्म वा, गौपालपशुपालिका । शैव्योपाध्यायिका । कौत्स- कुशिकिका । मनोज्ञादिभ्यः । मानोज्ञकम् । काल्याणाकम् । मनोज्ञ
४०८ ॥ काशिका ॥ ५ । २ ॥ वह्नीयम् । ब्राह्मणाच्छंसीयम् । आग्नीध्रम् । प्रतिप्रस्थात्रीयम् । त्वष्ट्रीयम् । पोत्रीयम् । बहुवचनं स्वरूपविधिनिरासार्थम् ॥ ब्रह्मणस्त्वः ॥ १३६ ॥ होत्राभ्य इत्यनुवर्त्तते । ब्रह्मन्शब्दाद्धोत्रावाचिनस्त्वः प्रत्ययो भवति भावकर्मणोः । छस्यापवादः । ब्रह्मणो भावः कर्म वा, ब्रह्मत्वम् । नेति वक्तव्ये त्ववचनं तलो बाधनार्थम् । यस्तु जातिशब्दो ब्राह्मणपर्यायो ब्रह्मन्- शब्दस्तस्त्वतलौ भवत एव । ब्रह्मत्वम् । ब्रह्मता । भवनावधिकयोर्नञ्स्न- ञोरधिकारः समाप्तः ॥ ॥ इति काशिकायां वृत्तौ पञ्चमस्याध्यायस्य प्रथमः पादः ॥ ॥ अथ पञ्चमाध्यायस्य द्वितीयः पादः ॥ धान्यानां भवने क्षेत्रे खञ् ॥ १ ॥ निर्देशादेव समर्थविभक्तिः । धान्यविशेषवाचिभ्यः षष्ठीसमर्थेभ्यो भव-
॥ काशिका ॥ ५ ॥ २ ॥ ४०६ सर्वचर्मणः कृतः खखञौ ॥ ५ ॥ सर्वचर्मन्शब्दात्तृतीयासमर्थात्कृत इत्यस्मिन्नर्थे खखञौ प्रत्ययौ भवतः । सर्वशब्दश्चात्र प्रत्ययार्थेन कृतेन संबध्यते, न चर्मणा । तत्रायमसामर्थ्यसमासो द्रष्टव्यः । सर्वचर्मणा कृत इत्येतस्मिन्वाक्यार्थे वृत्तिः । सर्वचर्मीणः । सार्व- चर्मीणः ॥ यथामुखसंमुखस्य दर्शनः खः ॥ ६ ॥ यथामुखशब्दात्संमुखशब्दात्षष्ठीसमर्थाद्दर्शन इत्येतस्मिन्नर्थे खः प्रत्ययो भवति । दृश्यते ऽस्मिन्निति दर्शनः । आदर्शादिः प्रतिबिम्बाश्रय उच्यते । निपातनात्सा दृश्ये ऽव्ययीभावः । यथामुखं दर्शनः, यथा मुखीनः । सर्वस्य मुखस्य दर्शनः, सम्मुखीनः ॥ तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति ॥ ७ ॥ [L13
कर्म व्रातम् । तेन व्रातेन जीवति व्रातीनः । तेषामेव व्रातानामन्यतम उच्यते । यस्त्वन्यत्सङ्घीयेन जीवति तत्र नेष्यते ॥ साप्तपदीनं सख्यम् ॥ २२ ॥ साप्तपदीनमिति निपात्यते सख्ये ऽभिधेये सप्तभिः पदैरवाप्यते साप्त- पदीनम् । सख्यं जनाः साप्तपदीनमाहुः । कथं साप्तपदीनः सखा, साप्त- पदीनं मित्रमिति । यदा गुणप्रधानः साप्तपदीनशब्दः सखिभावे सत्कर्मणि च वर्तते तदा सख्यशब्देन समानाधिकरणो भवति, यदा तु लक्षणया वर्तते तदा पुरुषेण सामानाधिकरण्यं भवति ॥ हैयङ्गवीनं संज्ञायाम् ॥ २३ ॥ हैयङ्गवीनं निपात्यते संज्ञायां विषये । ह्योगोदोहस्य हियङ्गीवादेशः, तस्य विकारे खञ् प्रत्ययो भवति संज्ञायाम् । ह्योगोदोहस्य विकारः, हैयं- गवीनम् । घृतस्य संज्ञा । तेनेह न भवति, ह्योगोदोहस्य विकार उदश्वित् ॥ तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ ॥ २४ ॥ तस्येति षष्ठीसमर्थेभ्यः पील्वादिभ्यः कर्णादिभ्यश्च यथासंख्यं पाकमूल- योर्थयोः कुणब् जाहच् इत्येतौ प्रत्ययौ भवतः । पीलूनां पाकः, पीलुकुणः । कर्कन्धुकुणः । कर्णादिभ्यः । कर्णस्य मूलं, कर्णजाहम् । पीलु । कर्कन्धु । शमी । करीर । कुवल । बदर । अश्वत्थ । खदिर । पील्वादिः ॥ कर्ण । अक्षि । नख । मुख । मेख । केश । पाद । गुल्फ । भ्रूभ्रू । दन्त । ओष्ठ । पृष्ठ । अङ्गुष्ठ । कर्णादिः ॥ पक्षात्तिः ॥ २५ ॥ तस्येत्येव । तस्येति षष्ठीसमर्थात्पक्षशब्दाद् मूलेभिधेये तिः प्रत्ययो भवति । मूलग्रहणमनुवर्त्तते न पाकग्रहण, मेकयोगनिर्दिष्टानामध्येकदेशोनुवर्त्त- तइति । पक्षस्य मूलं, पक्षतिः प्रतिपत् ॥ तेन वित्तश्चुञ्चुप्प्रणपौ ॥ २६ ॥ तेनेति तृतीयासमर्थाद्वित्त इत्येतस्मिन्नर्थे चुञ्चुप् चणप् इत्येतौ प्रत्ययौ भवतः । वित्तः प्रतीतो ज्ञात इत्यर्थः । विद्यया वित्तः । विद्याचुञ्चुः । केश- चणः ॥ विनञ्भ्यां नानाञौ नसह ॥ २७ ॥ वि नञ् इत्येताभ्यां यथासंख्यं ना नाञ् इत्येतौ भवतः । नसहेति प्रकृ-
॥ काशिका ॥ ५ ॥ २ ॥ ४१३ तिविशेषकम्। असहाये पृथग्भावे वर्तमानाभ्यां विनञ्भ्यां स्वार्थे नानाञौ प्रत्ययौ भवतः। विना। नाना॥ वेः शालच्छङ्कटचौ ॥ २८ ॥ विशब्दाच् शालच् शङ्कटज् इत्येतौ भवतः। साधनक्रियावचनादुपस- र्गात्स्वार्थे प्रत्ययौ भवतः। विगते शृङ्गे विशाले। विशङ्कटे। तद्योगाद्गौरपि विशालो विशङ्कट इत्युच्यते। परमार्थतस्तु गुणशब्दा एते यथाकथंचिद्व्युत्पा- द्यन्ते। नात्र प्रकृतिप्रत्ययार्थयोरभिनिवेशः॥ संप्रोदश्च कटच् ॥ २९ ॥ सम् प्र उद् इत्येतेभ्यः कटच् प्रत्ययो भवति। चकाराद्वेश्च। संक- टम्। प्रकटम्। उत्कटम्। विकटम्॥ कटच्प्रकरणे ऽलाबूतिलोमाभङ्गाभ्यो रजस्युपसंख्यानम् ॥ * ॥ अलाबूनां रजो ऽलाबूकटम्। तिलकटम्। उमाक- टम्। भङ्गाकटस्॥ गोष्ठादयः स्थानादिषु पशुनामादिभ्य उपसंख्यानम् ॥ * ॥ गवां स्थानं, गोगोष्ठम्। महिषीगोष्ठम्॥ संघाते कटच् वक्तव्यः ॥ * ॥ अवीनां संघातः, अविकटम्॥ विस्तारे पटच् वक्तव्यः ॥ * ॥ अविपटम्॥ द्वित्वे गोयुगच् ॥ * ॥ उष्ट्रगोयुगम्। अश्वगोयुगम्॥ प्रकृत्यर्थस्य षट्त्वे षड्- गवच् ॥ * ॥ हस्तिषड्गवम्। अश्वषड्गवम्॥ विकारे स्नेहने तैलच्* ॥ * ॥ एर- ण्डतैलम्। इङ्गुदीतैलम्। तिलतैलम्॥ भवने क्षेत्रे इत्त्वादिभ्यः शाकटशा- किनौ ॥ * ॥ इक्षुशाकटम्। मूलकशाकटम्। इक्षुशाकिनम्। मूलकशाकिनम्॥ अवात्कुटारच् ॥ ३० ॥ अवशब्दात् कुटारच् प्रत्ययो भवति। चकारात् कटच्। अवकुटारम्। अवकटम् ॥ नते नासिकायाः संज्ञायां टीटञ् नाट- ञ्भ्रटचः ॥ ३१ ॥ अवादित्येव। नमनं नतम्। नासिकायाः संबन्धिनि नते ऽभिधेये टीटञ् नाटञ् भ्रटच् इत्येते प्रत्यया भवन्ति संज्ञायां विषये। नासिकाया नतं, अवटीटम्। अवनाटम्। अवभ्रटम्। तद्योगान्नासिकापि, पुरुषोऽपि तयो- च्यते। अवटीटा। अवनाटः। अवभ्रट इति ॥ नेर्बिडज्बिरीसचौ ॥ ३२ ॥ नते नासिकाया इत्यनुवर्तते, संज्ञायामिति च। निशब्दान्नासिकाया नते ऽभिधेये बिडच् बिरीसच् इत्येतौ प्रत्ययौ भवतः। निबिडम्। निबिरी-
- 'स्नेहे तैलच्' ॥ पा० २। अयमेव च पाठः पदमञ्जरीसंमतः।
४१४ ॥ काशिका ॥ ५ । २ ॥ सम् । सङ्गाच्चासिकापि, पुरुषोपि निबिडो, निबीरीसः । कथं निबिडाः केशाः । निबिडं वस्त्रम् । उपमानाद्भविष्यति * ॥ इनच्पिटच्चिक चि च ॥ ३३ ॥ नेरित्येव, नते नासिकाया इति च । निशब्दान्नासिकायां नतेभिधेये इनच् पिटच् इत्येतौ प्रत्ययौ भवतस्तत्संनियोगेन च निशब्दस्य यथासंख्यं चिक चि इत्येतावादेशौ भवतः । चिकिनः । चिपिटः ॥ ककारः प्रत्ययो वक्तव्यः श्चिक्च प्रकृत्या देशः ॥ * ॥ चिक्कः । तथा चोक्तम् ॥ इनच् पिटच्कांश्चिक- चिचिकादेशांश्च वक्तव्या इति ॥ क्किवस्य चिल् पिल्लश्वास्य चक्षुषी ॥ * ॥ क्किवस्य चिल् पिल् इत्येतावादेशौ भवतो लश्च प्रत्ययो ऽस्य चक्षुषी इत्येत- स्मिन्नर्थे । क्किवे अस्य चक्षुषी, चिल्लः । पिल्लः ॥ चुल्लादेशो वक्तव्यः ॥ * ॥ चुल्लः । चास्येत्यनेन नार्थः । चक्षुषोरेवाभिधाने प्रत्यय इष्यते । क्किवे चक्षुषी, चिल्ले । पिल्ले । चुल्ले । सङ्गात्तु पुरुषस्तथोच्यते ॥ उपाधिभ्यां त्यकन्नासन्नारूढयोः ॥ ३४ ॥ उप अधि इत्येताभ्यां यथासंख्यमासन्नारूढयोर्वर्त्तमानाभ्यांस्वार्थे त्यकन्प्र- त्ययो भवति । संज्ञाधिकाराच्च नियतविषयमासन्नारूढं गम्यते । पर्वतस्यासन्न, मुपत्यका । तस्यैवारूढ,मघित्यका । प्रत्ययस्थात्कात्पूर्वस्येतीत्वमत्र न भवति संज्ञाधिकारादेव † ॥ कर्मणि घटो ऽठच् ॥ ३५ ॥ निर्देशादेव समर्थ्यविभक्तिः । कर्मशब्दात्सप्तमीसमर्थाद् घट इत्येत- स्मिन्नर्थे ऽठच् प्रत्ययो भवति । घटतइति घटः ‡ । कर्मणि घटते, कर्मठः पुरुषः ॥ तदस्य संजातं तारकादिभ्य इतच् ॥ ३६ ॥ तदिति प्रथमासमर्थेभ्यस्तारकादिभ्यः शब्देभ्यो ऽस्येति षष्ठ्यर्थे इतच् प्रत्ययो भवति । संजातग्रहणं प्रकृतिविशेषणम् । तारकाः संजाता अस्य नभस,स्तारकितं नभः । पुष्पितो वृक्षः । तारका । पुष्प । मुकुल । कण्टक । पिपासा । सुख । दुःख । सञ्जोव । कुड्मल । सूचक । रोम । विचार । व्याधि । निष्क्रमख । मूत्र । पुरीष । किसलय । कुसुम ।
- भविष्यतीत्यस्याग्रे घनत्वसाधर्म्यादित्यधिकं कुत्र चित् ।
- नहि कृते इत्त्वे संज्ञा प्रतीयते । इत्याधिकं कुत्र चित् । ‡ घट इत्यस्याग्रे पञ्चाळादित्यधिकं बहुषु पुस्तकेषु । परं त्वयमपपाठः, पदमञ्जर्य्या दर्शनात् ।
॥ काशिका ॥ ५ ॥ २ ॥ ४५३ प्रवार । तन्द्रा । वेग । पुच्छा । श्रद्धा । उत्कण्ठ । भर । द्रोह ॥ गर्भादपा- क्षिति * ॥ तारकादिराकृतिगणः ॥ प्रमाणे द्वयसज्दघ्नञ्मात्रचः ॥ ३७ ॥ तदस्येत्यनुवर्तते । तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे द्वयसच् दघ्नच् मात्रच् इत्येते प्रत्यया भवन्ति यत्तत्प्रथमासमर्थं प्रमाणं चेत्तद्भवति । ऊरुः प्रमाणमस्य, ऊरुद्वयसम् । ऊरुदघ्नम् । ऊरुमात्रम् । जानुमात्रम् । जानुद्वय- सम् । जानुदघ्नम् । “प्रथमश्च द्वितीयश्च ऊर्ध्वमाने मतौ मम” । ऊरुद्वयसमुदकम् । ऊरुदघ्नमुदकम् । मात्रच्पुनरविशेषेण, प्रस्थमात्र- मित्यपि भवति ॥ प्रमाणे लो वक्तव्यः ॥ * ॥ प्रमाणशब्दा इति ये प्रसिद्धा- स्तेभ्य उत्पद्यस्य प्रत्ययस्य लुग्भवति । शमः प्रमाणमस्य, शमः । दिष्टिः । वितस्तिः ॥ द्विगोर्नित्यम् ॥ * ॥ द्वौ शमौ प्रमाणमस्य, द्विशमः । त्रिशमः । द्विवितस्तिः । नित्यग्रहणं किम् । संशये आधिक्यं † कल्प्यति । तत्रापि द्विगो- र्लुगेव यथा स्यात् । द्वे दिष्टी स्यातां वा न वा, द्विदिष्टिः ॥ डट् स्तोमे वक्तव्यः ॥ * ॥ पञ्चदशस्तोमः । पञ्चदशी रात्रिः । टित्त्वाद् ङीप् ॥ शन्तश- तोर्डिनिर्वक्तव्यः ॥ * ॥ पञ्चदशिनोऽर्धमासाः । त्रिंशिनो मासाः ॥ विंशतेश्चेति वक्तव्यम् ॥ * ॥ विंशिनोऽङ्गिरसः ॥ प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये मात्रज्वक्तव्यः ॥ * ॥ शममात्रम् । दिष्टिमात्रम् । प्रस्थमात्रम् । कुडवमा- त्रम् । पञ्चमात्रम् । दशमात्रा गावः ॥ वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहु- लम् ॥ * ॥ तावदेव, तावद्द्वयसम् । तावन्मात्रम् । एतावद्द्वयसम् । एता- वन्मात्रम् । यावद्द्वयसम् । यावन्मात्रम् ॥ पुरुषहस्तिभ्यामण्च ॥ ३८ ॥ तदस्येत्येव, प्रमाणेति च । पुरुषहस्तिभ्यां प्रथमासमर्थाभ्यां प्रमाणो- पाधिकाभ्यामस्येति षष्ठ्यर्थे ऽण् प्रत्ययो भवति, चकाराद् द्वयसजादयश्च । पुरुषः प्रमाणमस्य, पौरुषम् । पुरुषद्वयसम् । पुरुषदघ्नम् । पुरुषमात्रम् । हस्तिद्वयसम् । हस्तिदघ्नम् । हस्तिमात्रम् । हास्तिनम् । द्विगोर्नित्यं लुक् ।
- फल । उच्चार । स्तबक । पल्लव । खण्ड । धेनुष्या । श्रम । अङ्गारक । कह्लार । कर्बण । पुस्तक । कुवलय । शैवल । गर्व । तरह्न । कल्लोल । पयहा । चम्र् । खवक । मुद्रा । राग । खण्डक । हस्त । कर । सीमन्त । कर्दम । कज्जल । कस्तूरु । कुतूहल । कन्दल । आन्दोल । अन्धकार । कोटरक । अङ्कुर । रोमाञ्च । हर्ष । उत्कर्ष । बुधा । ज्वर । मोर । डोह । बाह्र । हुङ्कुर । तिलक । मुभुक्षा । निद्रा । एते शब्दाः पुस्तकान्तरे ऽत्र गणे ऽधिकाः । † यच्छ्रं वाचः, असम्पुट इति चक्र, द्वे प्रमाणेति वाची, मात्रजित्यर्थः ।
द्विपुरुषमुदकम् । त्रिपुरुषमुदकम् । द्विहस्ति । त्रिहस्ति । द्विपुरुषी । त्रिपु- रुषी । द्विहस्तिनी । त्रिहस्तिनी ॥ यत्तदेतेभ्यः परिमाणे वतुप् ॥ ३९ ॥ तदस्येत्येव । यत्तदेतेभ्यः प्रथमासमर्थेभ्यः परिमाणोपाधिकेभ्योस्येति षष्ठ्यर्थे वतुप् प्रत्ययो भवति । यत्परिमाणमस्य, यावान् । तावान् । एतावान् । प्रमाणग्रहणे ऽनुवर्त्तमाने परिमाणग्रहणं प्रमाणपरिमाणयोर्भेदात् ॥ डावतामर्थवैशेष्यान्निर्देशः पृथगुच्यते । मात्राद्यप्रतिघाताय भावः सिद्धश्च डाषतः ॥ वतुप्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृश्यउपसंख्यानम् ॥ * ॥ न त्वा वाँ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते । त्वावतः पुरुवसो यज्ञं विप्रस्य मावतः । त्वत्सदृशस्य मत्सदृशस्येत्यर्थः ॥ किमिदंभ्यां वो घः ॥ ४० ॥ किमिदंभ्यामुत्तरस्य वतुपो वकारस्य घकारादेशो भवति । कियान् । इयान् । एतदेव चादेशविधानं ज्ञापकं किमिदंभ्यां वतुप्प्रत्ययो भवतीति । अथ वा योगविभागेन वा वतुपं विधाय पश्चाद्वो घो विधीयते ॥ किमः संख्यापरिमाणे डति च ॥ ४१ ॥ संख्यायाः परिमाणं, संख्यापरिच्छेद इत्यर्थः । संख्यापरिमाणे वर्त्तमानात् किमः प्रथमासमर्थादस्येति षष्ठ्यर्थे डतिः प्रत्ययो भवति । चकाराद्वतुप् । तस्य च वकारस्य घादेशो भवति । एकाग्रानन्तत्वात्परिच्छेदोपाधिकायां संख्यायां वर्त्तमानात्किमः प्रत्ययो विज्ञायते । का संख्या परिमाणमेषां ब्राह्मणानां, कति ब्राह्मणाः । कियन्तो ब्राह्मणाः । अथ वा संख्यैव परिमाणात्मिका परि- च्छेदस्वभावा गृह्यते । का संख्या परिमाणं येषामिति । ननु च संख्या परि- माणात्मिकैव परिच्छेदस्वभावा, सा किमर्थं परिमाणेन विशेष्यते । यत्रापरि- च्छेदकत्वेन विवक्ष्यते तत्र मा भूदिति । क्षेपे हि परिच्छेदो नास्ति । केयमेषां संख्या दशानामिति ॥ संख्याया अवयवे तयप् ॥ ४२ ॥ तदस्येत्येव । संख्याया अवयवे वर्त्तमानाया यस्येति षष्ठ्यर्थे तयप् प्रत्ययो भवति । अवयवा अवयविनः सम्बन्धिन इति सामर्थ्यादवयवी प्रत्ययार्थो विज्ञा- यते । पञ्च अवयवा अस्य, पञ्चतयम् । दशतयम् । चतुष्टयम् । चतुष्टयी ॥ द्वित्रिभ्यां तयस्यायज्वा ॥ ४३ ॥
पूर्वेण विहितस्य तयस्य द्वित्रिभ्यां परस्य वा ऽयजादेशो भवति । द्वावयवावस्य, द्वयम् । द्वितयम् । त्रयम् । त्रितयम् । तयग्ग्रहणं स्थानिनि- र्देशार्थम् । अन्यथा प्रत्ययान्तरमयग्विज्ञायेत । तत्र को दोषः । त्रयी गति- रिति तयनिबन्धन ईकारो न स्यात् । प्रथमचरमतयेत्येष विधिर्न स्यात् । द्वये । द्वयाः । चकारः स्वरार्थः ॥ उभादुदात्तो नित्यम् ॥ ४४ ॥ उभशब्दात्परस्य तयपो नित्यमयजादेशो भवति स चोदात्तः । वचन- सामर्थ्यादादेरुदात्तत्वं विज्ञायते । उभशब्दो यदि लौकिकी संख्या ततः पूर्वे- णैव विहितस्य तयप आदेशविधानार्थं वचनम् । अथ न संख्या, ततो योग- विभागेन तयपं विधाय तस्य नित्यमयजादेशो विधीयते । उभये मणयः । उभये देवमनुष्याः ॥ तदस्मिन्नधिकमिति दशान्ताड्डः ॥ ४५ ॥ तदिति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे दशान्तात्प्रातिपदिकाड् डः प्रत्ययो भवति यत्तत्प्रथमासमर्थमधिकं चेत्तद्भवति । इतिकरणस्तत्त्वेष्टिवृत्त्या । एकादश अधिका अस्मिन् शते, एकादशं शतम् । एकादशं सहस्रम् । द्वादशं शतम् । द्वादशं सहस्रम् । दशान्तादिति किम् । पञ्चाधिका अस्मिन् शते । अन्तग्रहणं किम् । दशाधिका अस्मिन् शते ॥ प्रत्ययार्थेन च समानजातीये प्रकृत्यर्थे सति प्रत्यय इष्यते ॥ एकादश कार्षापणा अधिका अस्मिन् कार्षाप- णशते, एकादशं कार्षापणशतमिति । इह तु न भवति । एकादश माषा अधिका अस्मिन्कार्षापणशतमिति ॥ शतसहस्रयोश्चेष्यते ॥ इह न भवति । एकादशाधिका अस्यां विंशताविति । इतिकरणो विवक्षार्थ इत्युक्तं तत इदं सर्वं लभ्यते । कथमेकादशं शतसहस्रमिति । शतानां सहस्रं सहस्राणां वा शत- मिति शतसहस्रमित्युच्यते । तत्र शतसहस्रयोरेवेत्येव सिद्धम् ॥ अधिके समानजाताविष्टं शतसहस्रयोः । यस्य संख्या तदाधिक्ये डः कर्तव्यो मतो मम ॥ षडन्तविंशतेश्च ॥ ४६ ॥ तदस्मिन्नधिकमित्यनुवर्तते, ड इति च । षडन्तात्प्रातिपदिकाद्विंशतेश्च डः प्रत्ययो भवति तदस्मिन्नधिकमित्येतस्मिन्विषये । त्रिंशदधिका अस्मिन् शते, त्रिंशं शतम् । षड्ग्रहणे ऽन्तग्रहणं प्रत्ययग्रहणे यस्मात्स तदादेरधिका- र्थम् । एकत्रिंशं शतम् । एकचत्वारिंशं शतम् । संख्याग्रहणं च कर्तव्यम् । इह मा भूत् गोत्रिंशदधिका अस्मिन् गोशते इति । विंशतेश्च ॥ तदन्तादपीति २७
४१८ ॥ काशिका ॥ ५ । २ ॥ वक्तव्यम् ॥ * ॥ एकविंशं शतम् । संख्याग्रहणं च कर्तव्यम् । इह मा भूत् । गोविंशतिरधिका ऽस्मिन्गोशतमिति ॥ संख्याया गुणस्य निमाने मयट् ॥ ४७ ॥ तदस्येत्यनुवर्त्तते तदस्य संजातमित्यतः । तदिति प्रथमासमर्थात्संख्या- वाचिनः प्रातिपदिकादस्येति षष्ठ्यर्थे मयट् प्रत्ययो भवति यत्प्रथमासमर्थं गुणस्य चेन्निमाने वर्त्तते । गुणो भागः । निमानं मूल्यम् । गुणो येन निमीयते मूल्यभूतेन सोऽपि सामर्थ्याद्भाग एव विज्ञायते । यवानां द्वौ भागौ निमानम- स्योदश्विद्भागस्य, द्विमयमुदश्विद्यवानाम् । त्रिमयम् । चतुर्मयम् । भागे ऽपि तु विधीयमानः प्रत्ययः प्राधान्येन भागवन्तमाचष्टे । तेन सामानाधिक- रण्यं भवति द्विमयमुदश्विदिति । गुणस्येति चैकत्वं विवक्षितं, तेनेह न भवति । द्वौ भागौ यवानां त्रय उदश्वित इति ॥ भूयस्त्ववाचिकायाः संख्यायाः प्रत्यय इष्यते ॥ इह न भवति । एको भागो निमानमस्येति । भूयस इति च प्रत्ययार्थात्तात्कृत्यर्थस्याधिक्यमात्रं विवक्षितम्, बहुत्वमतन्त्रं तेन द्विशब्दादपि भवति । गुणशब्दः समानावयववचनः । तेनेह न भवति । द्वौ भागौ यवा- नामध्यर्द्धं उदश्वित इति ॥ निमेये चापि दृश्यते ॥ निमेये वर्त्तमानायाः संख्याया निमाने प्रत्ययो दृश्यते । उदश्वितो द्वौ भागौ निमेयस्य यवभागस्य, द्विमया यवा उदश्वितः । त्रिमया यत्रा उदश्वितः । चतुर्मयाः । गुणस्येति किम् । द्वौ व्रीहियवौ निमानमस्योदश्वितः । निमानइति किम् । द्वौ गुणौ क्षीरस्यैकस्तैलस्य द्विगुणं पच्यते तैलं क्षीरेणेत्यत्र मा भूत् ॥ तस्य पूरणे डट् ॥ ४८ ॥ तस्येति षष्ठीसमर्थात्संख्यावाचिनः प्रातिपदिकात्पूरणइत्यस्मिन्नर्थे डट् प्रत्ययो भवति । पूर्यते ऽनेनेति पूरणम् । येन संख्या संख्यानं पूर्यते संपद्यते स तस्याः पूरणः । एकादशानां पूरण, एकादशः । त्रयोदशः । यस्मिन्नुपसंजाते ऽन्या संख्या संपद्यते स प्रत्ययार्थः । इह न भवति । पञ्चानां मुष्टिकानां पूरणो घट इति ॥ नान्तादसंख्यादेर्मट् ॥ ४९ ॥ डडिति वर्त्तते । नकारान्तात्संख्यावाचिनः प्रातिपदिकादसंख्यादेः परस्य डटो मडागमो भवति । नान्तादिति पञ्चमी डट आगमसंबन्धे षष्ठीं प्रकल्प- यति । पञ्चानां पूरणः पञ्चमः । सप्तमः । नान्तादिति किम् । विंशतेः पूरणो विंशः । असंख्यादेरिति किम् । एकादशानां पूरण एकादशः ॥ षट् चच्छन्दसि ॥ ५० ॥
॥ काशिका ॥ ५ ॥ २ ॥ ४१९ नान्तादसंख्यादेः परस्य डटश्छन्दसि विषये थडागमो भवति, चेका- रात्पक्षे मडपि भवति । पर्णमयानि पञ्चथानि भवन्ति । पञ्चथः । सप्तथः । मट् । पञ्चममिन्द्रियमस्यापाक्रामन् ॥ षट्कतिकतिपयचतुरां थुक् ॥ ५१ ॥ डडित्यनुवर्त्तते तत्सप्तम्या विपरिणम्यते । षट् कति कतिपय चतुर् इत्येतेषां डटि परतस्थुगागमो भवति । कतिपयशब्दो न संख्या । तस्मादस्मा- देव ज्ञापकाद् डट् प्रत्ययो विज्ञायते । षण्णां पूरणः षष्ठः । कतिथः । कति- पयथः । चतुर्थः ॥ चतुरश्छयतावाद्यक्षरलोपश्च ॥ * ॥ चतुर्णां पूरणः, । तुरीयः । तुर्यः ॥ बहुपूगगणसंघस्य तिथुक् ॥ ५२ ॥ डडित्येव । बहु पूग गण संघ इत्येतेषां डटि परतस्तिथुगागमो भवति । पूगसंघशब्दयोरसंख्यावाचित्वादिदमेव ज्ञापकं डटो भावस्य । बहूनां पूरणो, बहुतियः । पूगतिथः । गणतिथः । संघतिथः ॥ वतोरियुक् ॥ ५३ ॥ डडित्येव । वतोर्डटि परत इथुगागमो भवति । वत्वन्तस्य संख्यात्वा- त्पूर्वेण डड्विहितस्तस्मिन्नयमागमो विधीयते । यावतां पूरणो, यावतिथः । ता- वतिथः । एतावतिथः ॥ द्वेस्तीयः ॥ ५४ ॥ द्विशब्दात्तीयः प्रत्ययो भवति तस्य पूरणइत्यस्मिन्विषये । डटोप- वादः । द्वयोः पूरणो, द्वितीयः ॥ त्रेः संप्रसारणं च ॥ ५५ ॥ त्रिशब्दात्तीयः प्रत्ययो भवति तस्य पूरणइत्येतद्विषये । डटोपवादः । तत्सन्नियोगेन त्रेः संप्रसारणं च भवति । त्रयाणांपूरण स्तृतीयः । हल इति संप्रसारणस्य दीर्घत्वं न भवति । अण इति तत्रानुवर्त्तते डलोप इत्यतः, पूर्वेण च शकारेणायङ्ग्रहणम् ॥ विंशत्यादिभ्यस्तमडन्यतरस्याम् ॥ ५६ ॥ विंशत्यादिभ्यः परस्य डटस्तमडागमो भवत्यन्यतरस्याम् । पूरणाधिका- राद् डट् प्रत्यय आगमो विज्ञायते । विंशतेः पूरणः, विंशतितमः । विंशः । एकविंशतितमः । एकविंशः । त्रिविंशतितमः । त्रिविंशः । त्रिंशत्तमः । त्रिंशः । एकत्रिंशत्तमः । एकत्रिंशः । विंशत्यादयो लौकिकाः संख्याशब्दा गृह्यन्ते न पङ्क्त्यादिसूत्रसंनिविष्टाः, तद्ग्रहणे ह्येकविंशतिप्रभृतयो न स्यात् । बह्वशक्ता
प्रातिपदिकेन तदन्तविधिप्रतिषेधात् । एवं च सति षष्ट्यादेश्चासंख्यादेरिति पर्युदासो युज्यतएव ॥ नित्यं शतादिमासार्द्धमाससंवत्सराच्च ॥ ५७ ॥ शतादयः संख्याशब्दा लौकिका गृह्यन्ते । शतादिभ्यो मासार्द्धमाससं- वत्सरशब्देभ्यश्च परस्य डटो नित्यं तमडागमो भवति । मासादयः संख्याशब्दा न भवन्ति तेभ्यो ऽस्मादेव ज्ञापकाद् डट् प्रत्ययो विज्ञायते । शतस्य पूरणः- शततमः । सहस्रतमः । लक्षतमः । मासस्य पूरणो, मासतमो दिवसः । अर्द्ध- मासतमः । संवत्सरतमः । षष्ट्यादेश्चासंख्यादेरिति वक्ष्यमाणेन सिद्धे शतादि- ग्रहणं संख्याद्यर्थम् । एकशततमः । द्विशततमः ॥ षष्ट्यादेश्चासंख्यादेः ॥ ५८ ॥ षष्ट्यादेः संख्याशब्दादसंख्यादेः परस्य डटो नित्यं तमडागमो भवति । विंशत्यादिभ्य इति विकल्पेन प्राप्ते नित्यार्थम् । षष्टितमः । सप्ततितमः * । असंख्यादेरिति किम् । एकषष्टः । एकषष्टितमः । एकसप्ततः । एकसप्ततितमः ॥ मतौ छः सूक्तसाम्नोः ॥ ५९ ॥ मताविति मत्वर्थे उच्यते । प्रातिपदिकान्मत्वर्थे छः प्रत्ययो भवति सूक्ते सामनि चाभिधेये । मत्वर्थग्रहणेन समर्थविभक्तिः प्रकृतिविशेषणं प्रत्ययार्थ इति सर्वमातिष्यते । अच्छावाकशब्दोस्मिन्निति, अच्छावाकीयं सूक्तम् । मित्रावरुणीयम् । यज्ञायज्ञीयं साम । वारवन्तीयम् । अनुकरणशब्दाश्च- स्वरूपमात्रप्रधानाः प्रत्ययमुत्पादयन्ति । तेनानेकपदादपि सिद्धम् । अस्यवामी- यम् । कयाशुभीयम् ॥ अध्यायानुवाकयोर्लुक् ॥ ६० ॥ मतावित्येव । मत्वर्थेउत्पन्नस्य छस्य लुग् भवति, अध्यायानुवाकयोरभि- धेययोः । केन पुनरध्यायानुवाकयोः प्रत्ययः । इदमेव लुग्वचनं ज्ञापकं तद्वि- धानस्य । विकल्पेन लुगयमिष्यते । गर्दभाण्डशब्दोस्मिन्नस्ति, गर्दभाण्डो ऽध्यायः । अनुवाको वा गर्दभाण्डीयः । दीर्घजीवितः । दीर्घजीवितीयः । पलि- तसम्भः । पलितसम्भीयः ॥ विमुक्तादिभ्यो ऽण् ॥ ६१ ॥ मतावित्येव, अध्यायानुवाकयोरिति च । विमुक्तादिभ्यः प्रातिपदिकेभ्यो ऽण् प्रत्ययो भवति मत्वर्थे, अध्यायानुवाकयोरभिधेययोः । विमुक्तशब्दोस्मि- न्नस्ति, वैमुक्तो ऽध्यायो ऽनुवाको वा । देवासुरः । विमुक्त । देवासुर । वसु-
- अशीतितमः । नवतितमः । इत्यधिकं पुस्तकान्तरे ।
॥ काशिका ॥ ५ ॥ २ ॥ ४२१
मत् । मत्त्वत् । उपसत् । दशार्हपयस् । हविर्द्धान । मित्री । सोमापूषन् । अग्नाविष्णू । वृत्रहति । इडा । रक्षोसुर । सद्सत् । परिषद्क । वसु । मह- त्त्वत् । पत्नीवत् । महीयल् । सत्वन् । दशार्ह । वयस् । पतत्रि । सोम । महिन्नी । हेतु * विमुक्तादिः ॥ गोषदादिभ्यो वुन् ॥ ६२ ॥ मतावित्येव, अध्यायानुवाकयोरिति च । गोषदादिभ्यः प्रातिपदि- केभ्यो वुन्प्रत्ययो भवति मत्वर्थे ऽध्यायानुवाकयोः । गोषदशब्दोऽस्मिन्नस्ति, गोषदको ऽध्यायो ऽनुवाको वा । इषेत्वकः । मातरिश्वकः । गोषद । इषेत्व । मातरिश्वन् । देवस्यत्वा । देवीरापः । कृष्णोस्याखरेष्टः । दैवोंधियम् । रक्षो- हण । आञ्जन । प्रभूत । प्रतूर्त्त । दृशान । † गोषदादिः ॥ तत्र कुशलः पथः ॥ ६३ ॥ वुन्नित्येव । तत्रेति सप्तमीसमर्थात्पथिन् शब्दात्कुशल इत्यस्मिन्नर्थे वुन्प्रत्ययो भवति । पथि कुशलः, पथकः ॥ आकर्षादिभ्यः कन् ॥ ६४ ॥ तत्रेत्येव, कुशल इति च । आकर्षादिभ्यः प्रातिपदिकेभ्यः सप्तमीसमर्थे- भ्यः कुशल इत्येतस्मिन्नर्थे कन्प्रत्ययो भवति । आकर्षे कुशल, आकर्षकः । त्सरुकः । आकर्ष । त्सरु । पिपासा । पिचण्ड । अशनि । अश्मन् । विचय । चय । जय । आचय । आय । नय । निषाद । गद्गद । दीप । हृद । ह्लाद । ह्राद । शकुनि ‡ ॥ धनहिरण्यात्कामे ॥ ६५ ॥ तत्रेत्येव, कन्निति च । धनहिरण्यशब्दाभ्यां तत्रेति सप्तमीसमर्थाभ्यां कामइत्यस्मिन्नर्थे कन्प्रत्ययो भवति । काम इच्छा ऽभिलाषः । धने कामः, धनको देवदत्तस्य । हिरण्य को देवदत्तस्य ॥ स्वाङ्गेभ्यः प्रसिते ॥ ६६ ॥ तत्रेत्येव, कन्निति च । स्वाङ्गवाचिभ्यः शब्देभ्यस्तत्रेति सप्तमीसमर्थेभ्यः प्रसितइत्येतस्मिन्नर्थे कन्प्रत्ययो भवति । प्रसितः प्रसक्तस्तत्पर इत्यर्थः । केशेषु प्रसितः, केशकः । केशादिरचनायां प्रसक्त एवमुच्यते । बहुवचनं स्वाङ्गसमुदा- यशब्दादपि यथा स्यात् । दन्तोष्ठकः । केशनखकः ॥
* कश्यपस्य । दशार्ह । उर्वशी । सुपर्ण । एते शब्दाः पुस्तकान्तरे ऽत्र गणे ऽधिकाः । † युञ्जान । सहस्रशीर्षा । वातस्पते । कश्चाञ्च । स्वाहाप्राञ्च । प्रसुप्त । एते शब्दा अत्र गणे ऽधिकाः पुस्तकान्तरे । ‡ पिण्डाश । विवद । एतौ शब्दौ पुस्तकान्तरे ऽत्र गणे ऽधिकौ ।
४२२ ॥ काशिका ॥ ५ । २ ॥ उदराट्ठगादूने ॥ ६७ ॥ तत्रेत्येव, प्रसितइति च। उदरशब्दात्सप्तमीसमर्थात्प्रसितइत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। आदूनइति प्रत्ययार्थविशेषणम्। उदरे ऽविजिगीषुर्म- ज्जते। यो बुभुक्षया ऽत्यन्तं पीड्यते स एवमुच्यते। उदरे प्रसित, औदरिकं आदूनः। आदूनइति किम्। उदरकः॥ सस्येन परिजातः ॥ ६८ ॥ कन्प्रत्यय इत्येव स्मर्यते, न ठक्। निर्देशादेव तृतीया समर्थविभक्तिः। सस्यशब्दात्तृतीयासमर्थात्परिजात इत्यस्मिन्नर्थे कन्प्रत्ययो भवति। सस्यशब्दोयं गुणवाची। परिः सर्वतो भावे वर्त्तते। यो गुणैः संबद्धो जायते यस्य किं चिदपि वैगुण्यं नास्ति तस्येदमभिधानम्। सस्येन परिजातः, सस्यकः शालिः। सस्यकः साधुः। सस्यको मणिः। आकारशुद्ध इत्यर्थः॥ अंशं हारी ॥ ६९ ॥ अंशशब्दान्निर्देशादेव द्वितीयासमर्थाद्धारीत्येतस्मिन्नर्थे कन्प्रत्ययो भवति। अंशं हारी, अंशको दायादः। अंशकः पुत्रः। हारीत्यावश्यके णिनिः। तत्र षष्ठीप्रतिषेधात् कर्मणि द्वितीयैव भवति॥ तन्त्रादचिरापहृते ॥ ७० ॥ तन्त्रशब्दान्निर्देशादेव पञ्चमीसमर्थादचिरापहृतइत्यस्मिन्नर्थे कन् प्रत्ययो भवति। अचिरापहृतस्तोकालापहृत इत्यर्थः। तन्त्रादचिरापहृतः, तन्त्रकः पटः। तन्त्रकः प्रावारः। प्रत्ययो नव उच्यते॥ ब्राह्मणकोष्णिके संज्ञायाम् ॥ ७१ ॥ ब्राह्मणक उष्णिक इत्येतौ शब्दौ निपात्येते कन्प्रत्ययान्तौ संज्ञायां विषये। ब्राह्मणको देशः। उष्णिका यवागूः। यत्रायुधजीविनो ब्राह्मणाः सन्ति तत्र ब्राह्मणक इति संज्ञा। अल्पाचा यवागूरुष्णिकेत्युच्यते॥ शीतोष्णाभ्यां कारिणि ॥ ७२ ॥ शीतोष्णशब्दाभ्यां कारिण्यभिधेये कन्प्रत्ययो भवति। क्रियाविशेषणात् द्वितीयासमर्थादयं प्रत्ययः। शीतं करोति, शीतकः। अलसो जड उच्यते। उष्णं करोति, उष्णकः। शीघ्रकारी दक्ष उच्यते॥ अधिकम् ॥ ७३ ॥ अधिकमिति निपात्यते। अध्यारूढस्योत्तरपदलोपः कंश्च प्रत्ययः। अधिको द्रोणः खार्या, अधिका खारी द्रोणेन। कर्त्तरि कर्मणि वा ऽध्यारूढशब्दः॥
॥ काशिका ॥ ५ ॥ २ ॥ ४२३ अनुकाभिकाभीकः कमिता ॥ ७४ ॥ अनुक अभिक अभीक इत्येते शब्दाः कन्प्रत्ययान्ता निपात्यन्ते कमिते- त्येतस्मिन्नर्थे । अभेः पक्षे दीर्घत्वं च निपात्यते । अनुकामयते, अनुकः । अभिकः । अभीकः ॥ पार्श्वेनान्विच्छति ॥ ७५ ॥ पार्श्वशब्दात्तृतीयासमर्थादन्विच्छतीत्यस्मिन्नर्थे कन्प्रत्ययो भवति । अनृ- जूपायः पार्श्वम् । तेनार्थानन्विच्छति, पार्श्वकः । मायावी कौसृतिको जालिक उच्यते ॥ अयःशूलदण्डाजिनाभ्यां ठक्ठञौ ॥ ७६ ॥ अन्विच्छतीत्येव । अयःशूलदण्डाजिनाभ्यां तृतीयासमर्थाभ्यामन्विच्छती- त्यस्मिन्नर्थे ठक्ठञौ प्रत्ययौ भवतः । तीक्ष्ण उपायो ऽयःशूलमुच्यते । तेनान्वि- च्छति, आयःशूलिकः । साहसिक इत्यर्थः । दम्भो दण्डाजिनं, तेनान्विच्छति, दाण्डाजिनिकः । दाम्भिक इत्यर्थः ॥ तावतिथं ग्रहणमिति लुग्वा ॥ ७७ ॥ तावतां पूरणं तावतिथम् । गृह्यते ऽनेनेति ग्रहणम् । प्रकृतिविशेषणं चैतत् । पूरणप्रत्ययान्तात्प्रातिपदिकाद्ग्रहणोपाधिकात्स्वार्थे कन्प्रत्ययो भवति । पूरणस्य प्रत्ययस्य वा लुक् । द्वितीयेन रूपेण ग्रन्थं गृह्णाति द्विकं ग्रहणम् । द्वितीयकम् । त्रिकम् । तृतीयकम् । चतुष्कम् । चतुर्थकम् ॥ तावतिथेन गृह्णातीति कन्वक्तव्यः, पूरणप्रत्ययस्य च नित्यं लुक् ॥ * ॥ षष्ठेन रूपेण ग्रन्थं गृह्णाति, षट्को देवदत्तः । पञ्चकः । चतुष्कः । इतिकरणो विवक्षार्थः । तेन ग्रन्थविषयमेव ग्रहणं विज्ञायते नान्यविषयम् ॥ स एषां ग्रामणीः ॥ ७८ ॥ स इति प्रथमासमर्थादेषामिति षष्ठ्यर्थे कन्प्रत्ययो भवति, यत्तत्प्रथमास- मर्थं ग्रामणीश्चेत्स भवति । ग्रामणीः । प्रधानो मुख्य इत्यर्थः । देवदत्तो ग्राम- णीरेषां, देवदत्तकः । यज्ञदत्तकः । ग्रामणीरिति किम् । देवदत्तः शत्रुरेषाम् ॥ शृङ्खलमस्य बन्धनं करभे ॥ ७९ ॥ शृङ्खलशब्दात्प्रथमासमर्थादस्येति षष्ठ्यर्थे कन्प्रत्ययो भवति, यत्तत्प्रथमा- समर्थं बन्धनं चेत्तद्भवति, यत्तदस्येति निर्दिष्टं करभश्चेत्स भवति । शृङ्खलं बन्ध- नमस्य, करभस्य, शृङ्खलकः । उष्ट्राणां बालकाः करभाः । तेषां काष्ठमयं पाशकं पादे व्यतिषज्यते तदुच्यते शृङ्खलमिति । यद्यपि रज्ज्वादिकमपि तत्रास्ति तथापि शृङ्खलमस्यास्वातन्त्रीकरणे भवति साधनमिति बन्धनमित्युच्यते ॥
४२४ ॥ काशिका ॥ ५ । २ ॥ उत्क उन्मनाः ॥ ८० ॥ उत्क इति निपात्यते उन्मनाश्चेत्स भवति । उद्गतं मनो यस्य स, उन्मनाः । उच्छब्दात्संसाधनक्रियावचनात्तदुति कन्प्रत्ययो निपात्यते । उत्को देवदत्तः । उत्कः प्रवासी । उत्सुक इत्यर्थः ॥ कालप्रयोजनाद्रोगे ॥ ८१ ॥ अर्थाभ्यां समर्थविभक्तिः । कालात्प्रयोजनाच्च यथायोगं समर्थविभक्तियु- क्ताद्रोगे ऽभिधेये कन्प्रत्ययो भवति । कालो दिवसादिः । प्रयोजनं कारणं रोगस्य फलं वा । द्वितीयेऽह्नि भवो, द्वितीयको ज्वरः । चतुर्थकः । प्रयोजनात् । विषपु- ष्पैर्जनितो, विषपुष्पको ज्वरः । काशपुष्पकः । उष्णं कार्यमस्य उष्णकः । शीतको ज्वरः । उत्तरसूत्रात्संज्ञायग्रहणमनुकृष्यते । तेनायं प्रकारनियमः सर्वो लभ्यते ॥ तदस्मिन्नन्नं प्राय
यहाँ प्रस्तुत पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी लिप्यन्तरण है:
॥ काशिका ॥ ५ ॥ २ ॥ ४२५ पूर्वाद्दिनिः ॥ ८६ ॥ अनेनेति प्रत्ययार्थः कर्त्तानुवर्त्तते । न च क्रियामन्तरेण कर्त्ता संभव- तीति यां कां चित्क्रियामध्याहृत्य प्रत्ययो विधेयः । पूर्वाद्नेनेत्यस्मिन्नर्थे इनिः प्रत्ययो भवति । पूर्वं गतमनेन भुक्तं पीतं वा, पूर्वी । पूर्विणौ । पूर्विणः ॥ सपूर्वाच्च ॥ ८७ ॥ विद्यमानं पूर्वे यस्मादिति सपूर्वं प्रातिपदिकम् । तस्य पूर्वशब्देन तद- न्तविधिः । सपूर्वात्प्रातिपदिकात्पूर्वशब्दान्तादनेनेत्यस्मिन्नर्थे इनिः प्रत्ययो भवति । पूर्वं कृतमनेन कृतपूर्वी कटम् । भुक्तपूर्वी ओदनम् । सुप्सुपेति समासं कृत्वा तद्धित उत्पाद्यते । योगद्वयेन चानेन पूर्वाद्दिनिः सपूर्वाच्चेति परिभा- षाद्वयं ज्ञाप्यते । व्यपदेशिवद्भाव
४२६ ॥ काशिका ॥ ५ ॥ २ ॥ साक्षाच्छब्दो ऽव्ययम् । तस्मादिनिः प्रत्ययो भवति द्रष्टरि वाच्ये । संज्ञाग्रहणमभिधेयनियमार्थम् । साक्षाद् द्रष्टा साक्षी । साक्षिणौ । साक्षिणः । संज्ञाग्रहणादुपद्रष्टैवोच्यते न दाता ग्रहीता वा ॥ क्षेत्रियच् परक्षेत्रे चिकित्स्यः ॥ ९२ ॥ क्षेत्रियञिति निपात्यते । परक्षेत्रे चिकित्स्य इत्येतस्मिन् वाक्यार्थे पदवो- चनम् । परक्षेत्राद्वा तत्रेति सप्तमीसमर्थात् चिकित्स्य इत्येतस्मिन्नर्थे घच् प्रत्ययः परशब्दलोपश्च निपात्यते । परक्षेत्रे चिकित्स्यः, क्षेत्रियो व्याधिः । क्षेत्रियं कुष्ठम् । परक्षेत्रं जन्मान्तरशरीरम् । तत्र चिकित्स्यः क्षेत्रियः । असाध्य- ऽप्रत्याख्येयो व्याधिरुच्यते । नामृतस्य निवर्त्ततइत्यर्थः । अथ वा क्षेत्रियं विषम् यत्परक्षेत्रे परशरीरे संक्रमय्य चिकित्स्यते । अथ वा क्षेत्रियाणि तृणानि । यानि सस्यार्थे क्षेत्रे जातानि चिकित्स्यानि नाशयितव्यानि । अथ वा क्षेत्रियः पारदा- रिकः । परदाराः परक्षेत्रं, तत्र चिकित्स्यः निग्रहीतव्यः । सर्वे चैतन्मयायाम् ॥ इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्र- जुष्टमिन्द्रदत्तमिति वा ॥ ९३ ॥ इन्द्रियमित्यान्तोदात्तं शब्दरूपं निपात्यते । रूढिरेषा चक्षुरादीनां कर- णानां, तथा च व्युत्पत्तेर्नियमं दर्शयति । इन्द्रशब्दात्षष्ठीसमर्थाल्लिङ्गमित्ये- तस्मिन्नर्थे घच्प्रत्ययो । भवति । इन्द्रस्य लिङ्गमिन्द्रियम् । इन्द्र आत्मा स रादिना करणेनानुमीयते । नाकत्तृकं करणमस्ति । इन्द्रेण दृष्टम् । तृतीयासं- मर्थात्प्रत्ययः । आत्मना दृष्टमित्यर्थः । इन्द्रेण सृष्टम् । आत्मना सृष्टम् । तेन शुभाशुभेन कर्मणोत्पद्यमिति कृत्वा । इन्द्रेण जुष्टम् । आत्मना जुष्टं सेवितं तद्द्वारेण विज्ञानात्पादनाद् । इन्द्रदत्त,मात्मना विषयेभ्यो दत्तं यर्थं ग्रहणाय । इतिकरणः प्रकारार्थः । सति संभवे व्युत्पत्तिरन्यथापि कर्त्तव्या रूढेर्नियमादिति । वाशब्दः प्रत्येकमभिसंबध्यमानो विकल्पानां स्वातन्त्र्यं दर्शयति ॥ तदस्यास्त्यस्मिन्निति मतुप् ॥ ९४ ॥ तदिति प्रथमा समर्थविभक्तिः । अस्यास्मिन्निति प्रत्ययार्थैः, चास्तीति प्रकृतिविशेषणम् । इतिकरणो विवक्षार्थः तदितिप्रथमासमर्थादस्येति ऽस्मिन्निति सप्तम्यर्थे वा मतुप् प्रत्ययो भवति, यत्तत्प्रथमासमर्थमस्ति वति । अस्त्यर्थोपाधिकं चेत्तद्भवतीत्यर्थः । इतिकरणस्तत्त्वेनेतिवक्ता । गावो ऽस्य सन्ति, वृक्षा अस्मिन्सन्ति, गोमान्देवदत्तः । वृक्षवान्पर्वतः । यवमान् प्रस्थवान् । इतिकरणाद्विषयनियमः ।
॥ काशिका ॥ ५ । २ ॥ ४२७ भूमनिन्दाप्रशंसासु नित्ययोगे ऽतिशायने । संसर्गे ऽस्तिविवक्षायां भवन्ति मतुबादयः ॥ भूम्नि तावत् । गोमान् । निन्दायाम् । कुष्ठी । ककुदावर्त्तिनी । प्रशंसा- याम् । रूपवती कन्या । नित्ययोगे । क्षीरिणो वृक्षाः । अतिशायने । उदरिणी कन्या । संसर्गे । दण्डी । छत्री । अस्तिविवक्षायाम् । अस्तिमान् ॥ गुणवचनेभ्यो मतुपो लुग्वक्तव्यः ॥ * ॥ शुक्लो गुणोस्यास्ति, शुक्लः पटः । कृष्णः । श्वेतः ॥ रसादिभ्यश्च ॥ ९५ ॥ रसादिभ्यः प्रातिपदिकेभ्यो मतुप् प्रत्ययो भवति, तदस्यास्त्यस्मिन्नित्ये- तस्मिन्विषये । रसवान् । रूपवान् । किमर्थमिदमुच्यते, न पूर्वसूत्रेणैव मतुप् सिद्धः । रसादिभ्यः पुनर्वचनमन्यनिवृत्त्यर्थम् । अन्येमत्वर्थीया मा भूवन्निति । कथं रूपिणी कन्या । रूपिको दारकः । प्रायिकमेतद्वचनम् । इतिकरणो विष- यार्थो ऽनुवर्त्तते । अथ वा मुखादित्यत्र पठ्यते । तेन ये रसनेन्द्रियादिग्राह्या गुणास्तेषामत्र पाठः । इह मा भूत्, रूपिणी, रूपिक इति, शोभायोग्यता गम्यते । रसिको नट इत्यत्र भावयोगः । रस । रूप । गन्ध । स्पर्श । शब्द । स्नेह । गुणात् । एकाचः । गुणग्रहणं रसादीनां विशेषणम् ॥ प्राणिस्थादातो लजन्यतरस्याम् ॥ ९६ ॥ प्राणिस्थवाचिनः शब्दादाकारान्ताल्लच् प्रत्ययो भवत्यन्यतरस्यां मत्वर्थे । चूडालः । चूडावान् । कर्णिकालः । कर्णिकावान् । प्राणिस्थादिति किम् । शिखावान्प्रदीपः । आदिति किम् । हस्तवान् । पादवान् ॥ प्राण्यङ्गादिति वक्तव्यम् ॥ * ॥ इह मा भूत् । चिकीर्षा ऽस्यास्ति, जिहीर्षा ऽस्यास्ति, चिकी- र्षावान्, जिहीर्षावान् । प्रत्ययस्वरेणैवान्तोदात्तत्वे सिद्धे चकारश्चूढालोऽसीत्यत्र स्वरितो वा ऽनुदात्ते पदादाविति स्वरितबाधनार्थः ॥ सिध्मादिभ्यश्च ॥ ९७ ॥ लजन्यतरस्यामिति वर्त्तते । सिध्मादिभ्यः प्रातिपदिकेभ्यो लच् प्रत्ययो भवत्यन्यतरस्यां मत्वर्थे । सिध्मलः । सिध्मवान् । गडुलः । गडुमान् अन्यतर- स्यांग्रहणेन मतुप्समुच्चीयते, न तु प्रत्ययो विकल्प्यते । तस्मादकारान्तेभ्य इनि- ठनौ प्रत्ययौ न भवतः । सिध्म । गडु । मणि । नाभि । जीव । निष्पाव । पांसु । सक्तु । हनु । मांस । परशु ॥ पार्श्वाधमन्योर्दीर्घश्च । पार्श्वोलः । धमनीलः । पर्यश्व । उदक । प्रज्ञा । मण्ड । पार्श्व । गण्ड । ग्रन्थि ॥ वातद- न्तबलललाटगलानामुट् च * ॥ वातूलः । दन्तूलः । बलूलः । ललाटूलः ।
- वातदन्तेति गवासूत्रे मत्वेति, तदुदाहरणं गमूत इति च पुस्तकान्तरे, पदमञ्जर्य्यां च नास्ति ।