काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 425, कुल 828 में से
संदर्भ में पढ़ें४२४ ॥ काशिका ॥ ५ । २ ॥ उत्क उन्मनाः ॥ ८० ॥ उत्क इति निपात्यते उन्मनाश्चेत्स भवति । उद्गतं मनो यस्य स, उन्मनाः । उच्छब्दात्संसाधनक्रियावचनात्तदुति कन्प्रत्ययो निपात्यते । उत्को देवदत्तः । उत्कः प्रवासी । उत्सुक इत्यर्थः ॥ कालप्रयोजनाद्रोगे ॥ ८१ ॥ अर्थाभ्यां समर्थविभक्तिः । कालात्प्रयोजनाच्च यथायोगं समर्थविभक्तियु- क्ताद्रोगे ऽभिधेये कन्प्रत्ययो भवति । कालो दिवसादिः । प्रयोजनं कारणं रोगस्य फलं वा । द्वितीयेऽह्नि भवो, द्वितीयको ज्वरः । चतुर्थकः । प्रयोजनात् । विषपु- ष्पैर्जनितो, विषपुष्पको ज्वरः । काशपुष्पकः । उष्णं कार्यमस्य उष्णकः । शीतको ज्वरः । उत्तरसूत्रात्संज्ञायग्रहणमनुकृष्यते । तेनायं प्रकारनियमः सर्वो लभ्यते ॥ तदस्मिन्नन्नं प्राय