भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 424, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 424

॥ काशिका ॥ ५ ॥ २ ॥ ४२३ अनुकाभिकाभीकः कमिता ॥ ७४ ॥ अनुक अभिक अभीक इत्येते शब्दाः कन्प्रत्ययान्ता निपात्यन्ते कमिते- त्येतस्मिन्नर्थे । अभेः पक्षे दीर्घत्वं च निपात्यते । अनुकामयते, अनुकः । अभिकः । अभीकः ॥ पार्श्वेनान्विच्छति ॥ ७५ ॥ पार्श्वशब्दात्तृतीयासमर्थादन्विच्छतीत्यस्मिन्नर्थे कन्प्रत्ययो भवति । अनृ- जूपायः पार्श्वम् । तेनार्थानन्विच्छति, पार्श्वकः । मायावी कौसृतिको जालिक उच्यते ॥ अयःशूलदण्डाजिनाभ्यां ठक्ठञौ ॥ ७६ ॥ अन्विच्छतीत्येव । अयःशूलदण्डाजिनाभ्यां तृतीयासमर्थाभ्यामन्विच्छती- त्यस्मिन्नर्थे ठक्ठञौ प्रत्ययौ भवतः । तीक्ष्ण उपायो ऽयःशूलमुच्यते । तेनान्वि- च्छति, आयःशूलिकः । साहसिक इत्यर्थः । दम्भो दण्डाजिनं, तेनान्विच्छति, दाण्डाजिनिकः । दाम्भिक इत्यर्थः ॥ तावतिथं ग्रहणमिति लुग्वा ॥ ७७ ॥ तावतां पूरणं तावतिथम् । गृह्यते ऽनेनेति ग्रहणम् । प्रकृतिविशेषणं चैतत् । पूरणप्रत्ययान्तात्प्रातिपदिकाद्ग्रहणोपाधिकात्स्वार्थे कन्प्रत्ययो भवति । पूरणस्य प्रत्ययस्य वा लुक् । द्वितीयेन रूपेण ग्रन्थं गृह्णाति द्विकं ग्रहणम् । द्वितीयकम् । त्रिकम् । तृतीयकम् । चतुष्कम् । चतुर्थकम् ॥ तावतिथेन गृह्णातीति कन्वक्तव्यः, पूरणप्रत्ययस्य च नित्यं लुक् ॥ * ॥ षष्ठेन रूपेण ग्रन्थं गृह्णाति, षट्को देवदत्तः । पञ्चकः । चतुष्कः । इतिकरणो विवक्षार्थः । तेन ग्रन्थविषयमेव ग्रहणं विज्ञायते नान्यविषयम् ॥ स एषां ग्रामणीः ॥ ७८ ॥ स इति प्रथमासमर्थादेषामिति षष्ठ्यर्थे कन्प्रत्ययो भवति, यत्तत्प्रथमास- मर्थं ग्रामणीश्चेत्स भवति । ग्रामणीः । प्रधानो मुख्य इत्यर्थः । देवदत्तो ग्राम- णीरेषां, देवदत्तकः । यज्ञदत्तकः । ग्रामणीरिति किम् । देवदत्तः शत्रुरेषाम् ॥ शृङ्खलमस्य बन्धनं करभे ॥ ७९ ॥ शृङ्खलशब्दात्प्रथमासमर्थादस्येति षष्ठ्यर्थे कन्प्रत्ययो भवति, यत्तत्प्रथमा- समर्थं बन्धनं चेत्तद्भवति, यत्तदस्येति निर्दिष्टं करभश्चेत्स भवति । शृङ्खलं बन्ध- नमस्य, करभस्य, शृङ्खलकः । उष्ट्राणां बालकाः करभाः । तेषां काष्ठमयं पाशकं पादे व्यतिषज्यते तदुच्यते शृङ्खलमिति । यद्यपि रज्ज्वादिकमपि तत्रास्ति तथापि शृङ्खलमस्यास्वातन्त्रीकरणे भवति साधनमिति बन्धनमित्युच्यते ॥