भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 423, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 423

४२२ ॥ काशिका ॥ ५ । २ ॥ उदराट्ठगादूने ॥ ६७ ॥ तत्रेत्येव, प्रसितइति च। उदरशब्दात्सप्तमीसमर्थात्प्रसितइत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। आदूनइति प्रत्ययार्थविशेषणम्। उदरे ऽविजिगीषुर्म- ज्जते। यो बुभुक्षया ऽत्यन्तं पीड्यते स एवमुच्यते। उदरे प्रसित, औदरिकं आदूनः। आदूनइति किम्। उदरकः॥ सस्येन परिजातः ॥ ६८ ॥ कन्प्रत्यय इत्येव स्मर्यते, न ठक्। निर्देशादेव तृतीया समर्थविभक्तिः। सस्यशब्दात्तृतीयासमर्थात्परिजात इत्यस्मिन्नर्थे कन्प्रत्ययो भवति। सस्यशब्दोयं गुणवाची। परिः सर्वतो भावे वर्त्तते। यो गुणैः संबद्धो जायते यस्य किं चिदपि वैगुण्यं नास्ति तस्येदमभिधानम्। सस्येन परिजातः, सस्यकः शालिः। सस्यकः साधुः। सस्यको मणिः। आकारशुद्ध इत्यर्थः॥ अंशं हारी ॥ ६९ ॥ अंशशब्दान्निर्देशादेव द्वितीयासमर्थाद्धारीत्येतस्मिन्नर्थे कन्प्रत्ययो भवति। अंशं हारी, अंशको दायादः। अंशकः पुत्रः। हारीत्यावश्यके णिनिः। तत्र षष्ठीप्रतिषेधात् कर्मणि द्वितीयैव भवति॥ तन्त्रादचिरापहृते ॥ ७० ॥ तन्त्रशब्दान्निर्देशादेव पञ्चमीसमर्थादचिरापहृतइत्यस्मिन्नर्थे कन् प्रत्ययो भवति। अचिरापहृतस्तोकालापहृत इत्यर्थः। तन्त्रादचिरापहृतः, तन्त्रकः पटः। तन्त्रकः प्रावारः। प्रत्ययो नव उच्यते॥ ब्राह्मणकोष्णिके संज्ञायाम् ॥ ७१ ॥ ब्राह्मणक उष्णिक इत्येतौ शब्दौ निपात्येते कन्प्रत्ययान्तौ संज्ञायां विषये। ब्राह्मणको देशः। उष्णिका यवागूः। यत्रायुधजीविनो ब्राह्मणाः सन्ति तत्र ब्राह्मणक इति संज्ञा। अल्पाचा यवागूरुष्णिकेत्युच्यते॥ शीतोष्णाभ्यां कारिणि ॥ ७२ ॥ शीतोष्णशब्दाभ्यां कारिण्यभिधेये कन्प्रत्ययो भवति। क्रियाविशेषणात् द्वितीयासमर्थादयं प्रत्ययः। शीतं करोति, शीतकः। अलसो जड उच्यते। उष्णं करोति, उष्णकः। शीघ्रकारी दक्ष उच्यते॥ अधिकम् ॥ ७३ ॥ अधिकमिति निपात्यते। अध्यारूढस्योत्तरपदलोपः कंश्च प्रत्ययः। अधिको द्रोणः खार्या, अधिका खारी द्रोणेन। कर्त्तरि कर्मणि वा ऽध्यारूढशब्दः॥