भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 416, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 416

॥ काशिका ॥ ५ ॥ २ ॥ ४५३ प्रवार । तन्द्रा । वेग । पुच्छा । श्रद्धा । उत्कण्ठ । भर । द्रोह ॥ गर्भादपा- क्षिति * ॥ तारकादिराकृतिगणः ॥ प्रमाणे द्वयसज्दघ्नञ्मात्रचः ॥ ३७ ॥ तदस्येत्यनुवर्तते । तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे द्वयसच् दघ्नच् मात्रच् इत्येते प्रत्यया भवन्ति यत्तत्प्रथमासमर्थं प्रमाणं चेत्तद्भवति । ऊरुः प्रमाणमस्य, ऊरुद्वयसम् । ऊरुदघ्नम् । ऊरुमात्रम् । जानुमात्रम् । जानुद्वय- सम् । जानुदघ्नम् । “प्रथमश्च द्वितीयश्च ऊर्ध्वमाने मतौ मम” । ऊरुद्वयसमुदकम् । ऊरुदघ्नमुदकम् । मात्रच्पुनरविशेषेण, प्रस्थमात्र- मित्यपि भवति ॥ प्रमाणे लो वक्तव्यः ॥ * ॥ प्रमाणशब्दा इति ये प्रसिद्धा- स्तेभ्य उत्पद्यस्य प्रत्ययस्य लुग्भवति । शमः प्रमाणमस्य, शमः । दिष्टिः । वितस्तिः ॥ द्विगोर्नित्यम् ॥ * ॥ द्वौ शमौ प्रमाणमस्य, द्विशमः । त्रिशमः । द्विवितस्तिः । नित्यग्रहणं किम् । संशये आधिक्यं † कल्प्यति । तत्रापि द्विगो- र्लुगेव यथा स्यात् । द्वे दिष्टी स्यातां वा न वा, द्विदिष्टिः ॥ डट् स्तोमे वक्तव्यः ॥ * ॥ पञ्चदशस्तोमः । पञ्चदशी रात्रिः । टित्त्वाद् ङीप् ॥ शन्तश- तोर्डिनिर्वक्तव्यः ॥ * ॥ पञ्चदशिनोऽर्धमासाः । त्रिंशिनो मासाः ॥ विंशतेश्चेति वक्तव्यम् ॥ * ॥ विंशिनोऽङ्गिरसः ॥ प्रमाणपरिमाणाभ्यां संख्यायाश्चापि संशये मात्रज्वक्तव्यः ॥ * ॥ शममात्रम् । दिष्टिमात्रम् । प्रस्थमात्रम् । कुडवमा- त्रम् । पञ्चमात्रम् । दशमात्रा गावः ॥ वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहु- लम् ॥ * ॥ तावदेव, तावद्द्वयसम् । तावन्मात्रम् । एतावद्द्वयसम् । एता- वन्मात्रम् । यावद्द्वयसम् । यावन्मात्रम् ॥ पुरुषहस्तिभ्यामण्च ॥ ३८ ॥ तदस्येत्येव, प्रमाणेति च । पुरुषहस्तिभ्यां प्रथमासमर्थाभ्यां प्रमाणो- पाधिकाभ्यामस्येति षष्ठ्यर्थे ऽण् प्रत्ययो भवति, चकाराद् द्वयसजादयश्च । पुरुषः प्रमाणमस्य, पौरुषम् । पुरुषद्वयसम् । पुरुषदघ्नम् । पुरुषमात्रम् । हस्तिद्वयसम् । हस्तिदघ्नम् । हस्तिमात्रम् । हास्तिनम् । द्विगोर्नित्यं लुक् ।

  • फल । उच्चार । स्तबक । पल्लव । खण्ड । धेनुष्या । श्रम । अङ्गारक । कह्लार । कर्बण । पुस्तक । कुवलय । शैवल । गर्व । तरह्न । कल्लोल । पयहा । चम्र् । खवक । मुद्रा । राग । खण्डक । हस्त । कर । सीमन्त । कर्दम । कज्जल । कस्तूरु । कुतूहल । कन्दल । आन्दोल । अन्धकार । कोटरक । अङ्कुर । रोमाञ्च । हर्ष । उत्कर्ष । बुधा । ज्वर । मोर । डोह । बाह्र । हुङ्कुर । तिलक । मुभुक्षा । निद्रा । एते शब्दाः पुस्तकान्तरे ऽत्र गणे ऽधिकाः । † यच्छ्रं वाचः, असम्पुट इति चक्र, द्वे प्रमाणेति वाची, मात्रजित्यर्थः ।