भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 415, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 415

४१४ ॥ काशिका ॥ ५ । २ ॥ सम् । सङ्गाच्चासिकापि, पुरुषोपि निबिडो, निबीरीसः । कथं निबिडाः केशाः । निबिडं वस्त्रम् । उपमानाद्भविष्यति * ॥ इनच्पिटच्चिक चि च ॥ ३३ ॥ नेरित्येव, नते नासिकाया इति च । निशब्दान्नासिकायां नतेभिधेये इनच् पिटच् इत्येतौ प्रत्ययौ भवतस्तत्संनियोगेन च निशब्दस्य यथासंख्यं चिक चि इत्येतावादेशौ भवतः । चिकिनः । चिपिटः ॥ ककारः प्रत्ययो वक्तव्यः श्चिक्च प्रकृत्या देशः ॥ * ॥ चिक्कः । तथा चोक्तम् ॥ इनच् पिटच्कांश्चिक- चिचिकादेशांश्च वक्तव्या इति ॥ क्किवस्य चिल् पिल्लश्वास्य चक्षुषी ॥ * ॥ क्किवस्य चिल् पिल् इत्येतावादेशौ भवतो लश्च प्रत्ययो ऽस्य चक्षुषी इत्येत- स्मिन्नर्थे । क्किवे अस्य चक्षुषी, चिल्लः । पिल्लः ॥ चुल्लादेशो वक्तव्यः ॥ * ॥ चुल्लः । चास्येत्यनेन नार्थः । चक्षुषोरेवाभिधाने प्रत्यय इष्यते । क्किवे चक्षुषी, चिल्ले । पिल्ले । चुल्ले । सङ्गात्तु पुरुषस्तथोच्यते ॥ उपाधिभ्यां त्यकन्नासन्नारूढयोः ॥ ३४ ॥ उप अधि इत्येताभ्यां यथासंख्यमासन्नारूढयोर्वर्त्तमानाभ्यांस्वार्थे त्यकन्प्र- त्ययो भवति । संज्ञाधिकाराच्च नियतविषयमासन्नारूढं गम्यते । पर्वतस्यासन्न, मुपत्यका । तस्यैवारूढ,मघित्यका । प्रत्ययस्थात्कात्पूर्वस्येतीत्वमत्र न भवति संज्ञाधिकारादेव † ॥ कर्मणि घटो ऽठच् ॥ ३५ ॥ निर्देशादेव समर्थ्यविभक्तिः । कर्मशब्दात्सप्तमीसमर्थाद् घट इत्येत- स्मिन्नर्थे ऽठच् प्रत्ययो भवति । घटतइति घटः ‡ । कर्मणि घटते, कर्मठः पुरुषः ॥ तदस्य संजातं तारकादिभ्य इतच् ॥ ३६ ॥ तदिति प्रथमासमर्थेभ्यस्तारकादिभ्यः शब्देभ्यो ऽस्येति षष्ठ्यर्थे इतच् प्रत्ययो भवति । संजातग्रहणं प्रकृतिविशेषणम् । तारकाः संजाता अस्य नभस,स्तारकितं नभः । पुष्पितो वृक्षः । तारका । पुष्प । मुकुल । कण्टक । पिपासा । सुख । दुःख । सञ्जोव । कुड्मल । सूचक । रोम । विचार । व्याधि । निष्क्रमख । मूत्र । पुरीष । किसलय । कुसुम ।

  • भविष्यतीत्यस्याग्रे घनत्वसाधर्म्यादित्यधिकं कुत्र चित् ।
  • नहि कृते इत्त्वे संज्ञा प्रतीयते । इत्याधिकं कुत्र चित् । ‡ घट इत्यस्याग्रे पञ्चाळादित्यधिकं बहुषु पुस्तकेषु । परं त्वयमपपाठः, पदमञ्जर्य्या दर्शनात् ।