भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 414, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 414

॥ काशिका ॥ ५ ॥ २ ॥ ४१३ तिविशेषकम्। असहाये पृथग्भावे वर्तमानाभ्यां विनञ्भ्यां स्वार्थे नानाञौ प्रत्ययौ भवतः। विना। नाना॥ वेः शालच्छङ्कटचौ ॥ २८ ॥ विशब्दाच् शालच् शङ्कटज् इत्येतौ भवतः। साधनक्रियावचनादुपस- र्गात्स्वार्थे प्रत्ययौ भवतः। विगते शृङ्गे विशाले। विशङ्कटे। तद्योगाद्गौरपि विशालो विशङ्कट इत्युच्यते। परमार्थतस्तु गुणशब्दा एते यथाकथंचिद्व्युत्पा- द्यन्ते। नात्र प्रकृतिप्रत्ययार्थयोरभिनिवेशः॥ संप्रोदश्च कटच् ॥ २९ ॥ सम् प्र उद् इत्येतेभ्यः कटच् प्रत्ययो भवति। चकाराद्वेश्च। संक- टम्। प्रकटम्। उत्कटम्। विकटम्॥ कटच्प्रकरणे ऽलाबूतिलोमाभङ्गाभ्यो रजस्युपसंख्यानम् ॥ * ॥ अलाबूनां रजो ऽलाबूकटम्। तिलकटम्। उमाक- टम्। भङ्गाकटस्॥ गोष्ठादयः स्थानादिषु पशुनामादिभ्य उपसंख्यानम् ॥ * ॥ गवां स्थानं, गोगोष्ठम्। महिषीगोष्ठम्॥ संघाते कटच् वक्तव्यः ॥ * ॥ अवीनां संघातः, अविकटम्॥ विस्तारे पटच् वक्तव्यः ॥ * ॥ अविपटम्॥ द्वित्वे गोयुगच् ॥ * ॥ उष्ट्रगोयुगम्। अश्वगोयुगम्॥ प्रकृत्यर्थस्य षट्त्वे षड्- गवच् ॥ * ॥ हस्तिषड्गवम्। अश्वषड्गवम्॥ विकारे स्नेहने तैलच्* ॥ * ॥ एर- ण्डतैलम्। इङ्गुदीतैलम्। तिलतैलम्॥ भवने क्षेत्रे इत्त्वादिभ्यः शाकटशा- किनौ ॥ * ॥ इक्षुशाकटम्। मूलकशाकटम्। इक्षुशाकिनम्। मूलकशाकिनम्॥ अवात्कुटारच् ॥ ३० ॥ अवशब्दात् कुटारच् प्रत्ययो भवति। चकारात् कटच्। अवकुटारम्। अवकटम् ॥ नते नासिकायाः संज्ञायां टीटञ् नाट- ञ्भ्रटचः ॥ ३१ ॥ अवादित्येव। नमनं नतम्। नासिकायाः संबन्धिनि नते ऽभिधेये टीटञ् नाटञ् भ्रटच् इत्येते प्रत्यया भवन्ति संज्ञायां विषये। नासिकाया नतं, अवटीटम्। अवनाटम्। अवभ्रटम्। तद्योगान्नासिकापि, पुरुषोऽपि तयो- च्यते। अवटीटा। अवनाटः। अवभ्रट इति ॥ नेर्बिडज्बिरीसचौ ॥ ३२ ॥ नते नासिकाया इत्यनुवर्तते, संज्ञायामिति च। निशब्दान्नासिकाया नते ऽभिधेये बिडच् बिरीसच् इत्येतौ प्रत्ययौ भवतः। निबिडम्। निबिरी-

  • 'स्नेहे तैलच्' ॥ पा० २। अयमेव च पाठः पदमञ्जरीसंमतः।