काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 413, कुल 828 में से
संदर्भ में पढ़ेंकर्म व्रातम् । तेन व्रातेन जीवति व्रातीनः । तेषामेव व्रातानामन्यतम उच्यते । यस्त्वन्यत्सङ्घीयेन जीवति तत्र नेष्यते ॥ साप्तपदीनं सख्यम् ॥ २२ ॥ साप्तपदीनमिति निपात्यते सख्ये ऽभिधेये सप्तभिः पदैरवाप्यते साप्त- पदीनम् । सख्यं जनाः साप्तपदीनमाहुः । कथं साप्तपदीनः सखा, साप्त- पदीनं मित्रमिति । यदा गुणप्रधानः साप्तपदीनशब्दः सखिभावे सत्कर्मणि च वर्तते तदा सख्यशब्देन समानाधिकरणो भवति, यदा तु लक्षणया वर्तते तदा पुरुषेण सामानाधिकरण्यं भवति ॥ हैयङ्गवीनं संज्ञायाम् ॥ २३ ॥ हैयङ्गवीनं निपात्यते संज्ञायां विषये । ह्योगोदोहस्य हियङ्गीवादेशः, तस्य विकारे खञ् प्रत्ययो भवति संज्ञायाम् । ह्योगोदोहस्य विकारः, हैयं- गवीनम् । घृतस्य संज्ञा । तेनेह न भवति, ह्योगोदोहस्य विकार उदश्वित् ॥ तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ ॥ २४ ॥ तस्येति षष्ठीसमर्थेभ्यः पील्वादिभ्यः कर्णादिभ्यश्च यथासंख्यं पाकमूल- योर्थयोः कुणब् जाहच् इत्येतौ प्रत्ययौ भवतः । पीलूनां पाकः, पीलुकुणः । कर्कन्धुकुणः । कर्णादिभ्यः । कर्णस्य मूलं, कर्णजाहम् । पीलु । कर्कन्धु । शमी । करीर । कुवल । बदर । अश्वत्थ । खदिर । पील्वादिः ॥ कर्ण । अक्षि । नख । मुख । मेख । केश । पाद । गुल्फ । भ्रूभ्रू । दन्त । ओष्ठ । पृष्ठ । अङ्गुष्ठ । कर्णादिः ॥ पक्षात्तिः ॥ २५ ॥ तस्येत्येव । तस्येति षष्ठीसमर्थात्पक्षशब्दाद् मूलेभिधेये तिः प्रत्ययो भवति । मूलग्रहणमनुवर्त्तते न पाकग्रहण, मेकयोगनिर्दिष्टानामध्येकदेशोनुवर्त्त- तइति । पक्षस्य मूलं, पक्षतिः प्रतिपत् ॥ तेन वित्तश्चुञ्चुप्प्रणपौ ॥ २६ ॥ तेनेति तृतीयासमर्थाद्वित्त इत्येतस्मिन्नर्थे चुञ्चुप् चणप् इत्येतौ प्रत्ययौ भवतः । वित्तः प्रतीतो ज्ञात इत्यर्थः । विद्यया वित्तः । विद्याचुञ्चुः । केश- चणः ॥ विनञ्भ्यां नानाञौ नसह ॥ २७ ॥ वि नञ् इत्येताभ्यां यथासंख्यं ना नाञ् इत्येतौ भवतः । नसहेति प्रकृ-