काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
३८८ ॥ काशिका ॥ ५ ॥ १ ॥ तेन क्रीतम् ॥ ३७ ॥ ठञादयस्त्रयोदश प्रत्ययाः प्रकृताः तेषामितः प्रभृति समर्थविभक्तयः प्रत्ययार्थाश्च निर्दिश्यन्ते । तेनेति तृतीयासमर्थात् क्रीतमित्येतस्मिन्नर्थे यथा- विहितं प्रत्ययो भवति । सप्तत्या क्रीतं, साप्ततिकम् । आशीतिकम् । नैष्क- कम् । पाक्षिकम् । पादिकम् । माषिकम् । शत्यम् । शतिकम् । द्विकम् । त्रिकम् । तेनेति मूल्यात्करणे तृतीया समर्थविभक्तिः । अन्यत्रानभिधानान्न भवति । देवदत्तेन क्रीतं, पाणिना क्रीतमिति । द्विवचनबहुवचनान्तात्प्रत्ययो न भवति । प्रस्थाभ्यां क्रीतं, प्रस्थैः क्रीतमिति, अनभिधानादेव । यत्र तु प्रकृ- त्यर्थस्य संख्याभेदावगमे प्रमाणमस्ति तत्र द्विवचनबहुवचनान्तादपि प्रत्ययो भवति । द्वाभ्यां क्रीतं, द्विकम् । त्रिकम् । पञ्चकम् । तथा मुद्गैः क्रीतं मौद्गि- कम् । माषिकम् । नह्येकेन मुद्गेन क्रयः संभवति ॥ तस्य निमित्तं संयोगोत्पातौ ॥ ३८ ॥ तस्येति षष्ठीसमर्थान्निमित्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यन्निमित्तं संयोगश्चेत्स भवति उत्पातो वा । संयोगः संबन्धः प्राणिनां शुभाशुभसूचकः । महाभूतपरिणाम उत्पातः । शतस्य निमित्तं धनपतिना संयोगः, शत्यः । शतिकः । साहस्रः । उत्पातः । खल्वपि । शतस्य निमित्तमु- त्यातो दक्षिणाक्षिस्यन्दनम्, शत्यम् । शतिकम् । साहस्रम् ॥ तस्य निमित्त- प्रकरणे वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसंख्यानम् ॥ * ॥ वातस्य शमनं कोपनं वा, वातिकम् । पैत्तिकम् । श्लैष्मिकम् ॥ सन्निपाताच्चेति वक्तव्यम् ॥ * ॥ सान्निपातिकम् ॥ गोद्व्यचोसंख्यापरिमाणाश्वादेर्यत् ॥ ३९ ॥ गोशब्दाद् द्व्यचश्च प्रातिपदिकात्संख्यापरिमाणाश्वादिविवर्जिताद्यत् प्रत्ययो भवति तस्य निमित्तं संयोगोत्पातावित्येतस्मिन्नर्थे । ठञादीनामप- वादः । गोर्निमित्तं संयोग उत्पातो वा, गव्यः । द्व्यचः खल्वपि । धन्यम् । स्वर्ग्यम् । यशस्यम् । आयुष्यम् । असंख्यापरिमाणाश्वादेरिति किम् । पञ्चानां निमित्तं पञ्चकम् । सप्तकम् । अष्टकम् । परिमाण । प्रास्थिकम् । खारीकम् । अश्वादिः । आश्विकः ॥ ब्रह्मवर्चसादुपसंख्यानम् ॥ * ॥ ब्रह्मवर्चसस्य निमित्तं गुरुणा संयोगः, ब्रह्मवर्चस्यम् । अश्व । अश्मन् । गण । ऊर्वा । उमा । वसु । वर्ष । मधु । अश्वादिः ॥ पुत्राच्छ च ॥ ४० ॥ पुत्रशब्दाच्छः प्रत्ययो भवति चकाराद्यच्च तस्य निमित्तं संयोगोत्पाता-
॥ काशिका ॥ ५ ॥ १ ॥ ३८९ न्वित्येतस्मिन्विषये । द्व्यच इति नित्ये यति प्राप्ते वचनम् । पुच्छस्य निमित्तं संयोग उत्पातो वा, पुच्छ्यायम् । पुच्छ्यम् ॥ सर्वभूमिपृथिवीभ्यामणञौ ॥ ४१ ॥ सर्वभूमिपृथिवीशब्दाभ्यां यथासंख्यमणञौ प्रत्ययौ भवतः तस्य निमित्तं संयोगोत्पातावित्येतस्मिन्विषये । ठञोपवादौ । सर्वभूमेर्निमित्तं संयोग उत्पातो वा, सार्वभौमः । पार्थिवः । सर्वभूमेरनुशतिकादिपाठादुभयपदवृद्धिः ॥ तस्येश्वरः ॥ ४२ ॥ तस्येति षष्ठीसमर्थाभ्यां सर्वभूमिपृथिवीशब्दाभ्यामणञौ प्रत्ययौ भवत ईश्वर इत्येतस्मिन्विषये । सर्वभूमेरीश्वरः, सार्वभौमः । पार्थिवः । षष्ठीप्रकरणे पुनः षष्ठीसमर्थविभक्तिनिर्देशः प्रत्ययार्थस्य निवृत्तये । अन्यथा संयोगोत्पाता- विव ईश्वरोऽपि प्रत्ययार्थस्य निमित्तस्य विशेषणं संभाव्येत ॥ तत्र विदित इति च ॥ ४३ ॥ तत्रेति सप्तमीसमर्थाभ्यां सर्वभूमिपृथिवीशब्दाभ्यां यथासंख्यमणञौ प्रत्ययौ भवतः विदित इत्येतस्मिन्नर्थे । विदितो ज्ञातः, प्रकाशित इत्यर्थः । सर्वभूमौ विदितः, सार्वभौमः । पार्थिवः ॥ लोकसर्वलोकाट्ठञ् ॥ ४४ ॥ लोकसर्वलोकशब्दाभ्यां तत्रेति सप्तमीसमर्थाभ्यां विदित इत्येतस्मि- न्विषये ठञ् प्रत्ययो भवति । लोके विदितः, लौकिकः । सार्वलौकिकः । अनुशतिकादित्वादुभयपदवृद्धिः ॥ तस्य वापः ॥ ४५ ॥ तस्येति सप्तमीसमर्थाद्वाप इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । उप्यते ऽस्मिन्वापः । क्षेत्रमुच्यते । प्रस्थस्य वापः क्षेत्रं, प्रास्थिकम् । द्रौणिकम् । खारीकम् ॥ पात्रात्ष्ठन् ॥ ४६ ॥ पात्रशब्दात् ष्ठन् प्रत्ययो भवति तस्य वाप इत्येतस्मिन्विषये । ठञो- पवादः । नकारः स्वरार्थः । षकारो ङीबर्थः । पात्रशब्दः परिमाणवाची । पात्रस्य वापः, पात्रिकं क्षेत्रम् । पात्रिकी क्षेत्रभक्तिः ॥ तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते ॥ ४७ ॥ तदिति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति यत्तत्प्रथमासमर्थं वृद्धादि चेत्तद्दीयते । दीयते इत्येकवचनान्तं वृद्धादिभिः
३८० ॥ काशिका ॥ ५ ॥ १ ॥ प्रत्येकमभिसंबध्यते । तत्र यदधमर्णेन उत्तमर्णाय मूलधनातिरिक्तं देयं तद् वृद्धिः । ग्रामादिषु स्वामिग्राह्यो भाग आयः । पटादीनामुपादानमूलादतिरिक्तं द्रव्यं लाभः । रक्षानिवेशो राजभागः शुल्कः । उत्कोच उपदा । पञ्चास्मिन्वृ- द्धिर्वा आयो वा लाभो वा शुल्को वा उपदा वा दीयते, पञ्चकः । सप्तकः । शत्यः । शतिकः । साहस्रः ॥ चतुर्थ्यर्थेऽपसंख्यानम् ॥ * ॥ पञ्चास्मै वृद्धिर्वा आयो वा लाभो वा उपदा वा दीयते, पञ्चको देवदत्तः । सिद्धं त्वधिकर- णत्वेन विवक्षितत्वात् । सममब्राह्मणे दानमिति यथा ॥ पूरणार्द्धाट्ठन् ॥ ४८ ॥ पूरणवाचिनः शब्दादर्द्धशब्दाच्च ठन् प्रत्ययो भवति तदस्मिन्वृद्ध्याय- लाभशुल्कोपदादीयतेत्येतस्मिन्नर्थे । यथायथं ठक्ठिटनोरपवादः । द्वितीयो वृद्ध्यादिरस्मिन्दीयते, द्वितीयिकः । तृतीयिकः । पञ्चमिकः । सप्तमिकः । आर्द्धिकः । अर्द्धशब्दो रूपकार्द्धस्य रूढिः ॥ भागाद्यच्च ॥ ४९ ॥ भागशब्दाद्यत् प्रत्ययो भवति । चकाराट्ठंश्च । तदस्मिन्वृद्ध्यायलाभ- शुल्कोपदा दीयतइत्येतस्मिन्नर्थे । ठञोऽपवादः । भागे वृद्ध्यादिरस्मिन्दीयते, भाग्यं, भागिकं शतम् । भाग्या भागिका विंशतिः । भागशब्दोऽपि रूपकार्द्धस्य वाचकः ॥ तद्धरति वहत्यावहति भाराद्वंशादिभ्यः ॥ ५० ॥ तदिति द्वितीयासमर्थाद्धरत्यादिष्वर्थेषु यथाविहितं प्रत्ययो भवति । प्रकृतिविशेषणं भाराद्वंशादिभ्य इति । वंशादिभ्यः परो यो भारशब्दस्तदन्ता- त्प्रातिपदिकादिति । वंशभारं हरति वहत्यावहति वा, वांशभारिकः । कौट- ञ्जभारिकः । बाल्बजभारिकः । भारादिति किम् । वंशं हरति । वंशादिभ्य इति किम् । व्रीहिभारं हरति । अपरा वृत्तिः । भाराद्वंशादिभ्य इति, भार- भूतेभ्यो वंशादिभ्य इत्यर्थः । भारशब्दोऽर्थद्वारेण वंशादीनां विशेषणम् । भार- भूतान्वंशान् हरति, वांशिकः । कौटञ्जिकः । बाल्बजिकः । भारादिति किम् । वंशं हरति । वंशादिभ्य इति किम् । भारभूतान्व्रीहीनवहति । सूत्रार्थद्वयमपि चेतदाचार्येण शिष्याः प्रतिपादिताः । तदुभयमपि ग्राह्यम् । हरति देशान्तरं प्रापयति चोरयति वा । वहत्युत्तिक्षिप्य धारयतीत्यर्थः । आवहति उत्पादय- तीत्यर्थः । वंश । कुटज । बल्वज । मूल । ऋक्ष । स्थूणा । अश्मन् । अश्व । इक्षु । खट्वा । वंशादि ॥ वस्त्रद्रव्याभ्यां ठन्कनौ ॥ ५१ ॥
वहद्रव्यशब्दाभ्यां द्वितीयासमर्थाभ्यां यथासंख्यं ठन् कन् इत्येतौ प्रत्ययौ भवतो हरत्यादिष्वर्थेषु । वहं हरति वहतिवा, वहिकः । द्रव्यकः ॥ संभवत्यवहरति पचति ॥ ५२ ॥ तदिति द्वितीया समर्थविभक्तिरनुवर्तते । तदिति द्वितीयासमर्थात्संभ- वत्यादिष्वर्थेषु यथाविहितं प्रत्ययो भवति । तत्राधेयस्य प्रमाणानातिरेकः संभ- वः । उपसंहरणमवहारः । विक्लेदनं पाकः । प्रस्थं संभवति अवहरति पचति वा, प्रास्थिकः । कौडविकः । खारीकः । ननु च पाके च संभवोऽस्ति । नास्त्यत्र नियोगः । प्रस्थं पचति ब्राह्मणी, प्रास्थिकी ॥ तत्पचतीति द्रोणाद्वच ॥ * ॥ द्रोणं पचति, द्रौणी । द्रौणिकी ॥ आढकाचितपात्रात्खोन्यतरस्याम् ॥ ५३ ॥ आढकाचितपात्रशब्देभ्यो द्वितीयासमर्थेभ्यो ऽन्यतरस्यां संभवादिष्वर्थेषु खः प्रत्ययो भवति । ठञोऽपवादः । पक्षे सोपि भवति । आढकं संभवत्यवहरति पचति वा, आढकीना । आढकिकी । आचितीना । आचितिकी । पात्रीखा । पात्रिकी ॥ द्विगोष्ठंश्च ॥ ५४ ॥ आढकाचितपात्रादित्येव । आढकाचितपात्रान्ताद् द्विगोः संभवत्याद्वि- ष्वर्थेषु ठन् प्रत्ययो भवति, चकारात्खः, अन्यतरस्याम् । विधानसामर्थ्यादेवा- नयोर्लुङ् न भवति । ठञस्तु पक्षे ऽनुज्ञातस्याढ्यर्धपूर्वद्विगोरिति लुग्भवत्येव । नकारः स्वरार्थः । षकारो ङीषर्थः । द्व्याढकिकी । द्व्याढकीना । द्व्याढकी । द्व्याचितिकी । द्व्याचितीना । द्व्याचिता । अपरप्रमाणबिस्ताचितेति ङीषः प्रति- षेधः । द्विपात्रिकी । द्विपात्रीखा । द्विपात्री ॥ कुलिजाल्लुक्खौ च ॥ ५५ ॥ द्विगोरित्येव । कुलिजशब्दान्ताद् द्विगोः संभवत्यादिष्वर्थेषु लुक्खौ भवतः । चकारात्ठंश्च । अन्यतरस्यां ग्रह्णानुवृत्त्या लुगपि विकल्प्यते । ठञः पक्षे श्रवणं भवति । तेन चातूरूप्यं संपद्यते । द्वे कुलिजे संभवत्यवहरति पचति वा, द्विकुलिजिकी । द्विकुलिजीना । द्विकुलिजा । द्वैकुलिजिकी । परिमाणा- न्त्यास्यासंज्ञाशाणयोरित्यत्र कुलिजग्रहणमपीष्यते । तेनोत्तरपदवृद्धिपि न भवति ॥ सोस्यांशवस्त्रभृतयः ॥ ५६ ॥ स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्तत् प्रथ
३८२ ॥ काशिका ॥ ५ ॥ १ ॥ तदस्य परिमाणम् ॥ ५७ ॥ तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत् प्रथमासमर्थं परिमाणं चेत्तद्भवति। प्रस्थः परिमाणमस्य, प्रास्थिको राशिः। खारीकः। शत्यः। शतिकः। साहस्रः। द्रौणिकः। कौडविकः। वर्षशतं परिमाणमस्य, वार्षशतिकः। वार्षसाहस्रिकः। षष्टिर्जीवितपरिमाणमस्येति, षाष्टिकः। द्विसप्ततिकः। समर्थविभक्तिः प्रत्ययार्थेश्च पूर्वसूत्रादेवानुवर्त्तष्यते किमर्थं पुनरनयोरुपादानम्। पुनर्विधानार्थम्। द्वे षष्टी जीवितपरिमाणमस्य द्विषाष्टिकः। द्विसप्ततिकः। पुनर्विधानसामर्थ्याद्व्यर्हत्पूर्वद्विगोर्लुङ् न भवति॥ संख्यायाः संज्ञासंघसूत्राध्ययनेषु ॥ ५८ ॥ तदस्य परिमाणमिति वर्तते। संख्यावाचिनः प्रातिपदिकात्परिमाणो- पाधिकात्प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति। संज्ञासंघ- सूत्राध्ययनेष्विति प्रत्ययार्थविशेषणम्। तत्र संज्ञायां स्वार्थे प्रत्ययो वाच्यः। पञ्चैव पञ्चकाः शकुनयः। त्रिकाः शालङ्कायनाः। संघ। पञ्च परिमाणमस्य, पञ्चकः संघः। अष्टकः। सूत्र। अष्टावध्यायाः परिमाणमस्य सूत्रस्य, अष्टकं पाणिनीयम्। दशकं वैयाघ्रपदीयम्। त्रिकं काशकृत्स्नम्। ननु चाध्यायसमूहः सूत्रसंघ एव भवति। नैतदस्ति। प्राणिसमूहे संघशब्दो रूढः। अध्ययने। पञ्चको ऽधीतः। सप्तको ऽधीतः। अष्टकः। नवकः। अधीतिरध्ययनम्। तस्य संख्यापरिमाणं पञ्चावृत्तयः पञ्चवाराः पञ्चरूपाण्यस्याध्ययनस्य, पञ्चकम- ध्ययनम्॥ स्तोमे डविधिः पञ्चदशाद्यर्थः ॥ * ॥ पञ्चदश मन्त्राः परिमाण- मस्य, पञ्चदशः स्तोमः। सप्तदशः। एकविंशः॥ शन्शतोर्डिनिश्च्छन्दसि ॥ * ॥ पञ्चदशिनोऽर्द्धमासाः। त्रिंशिनो मासाः॥ विंशतेश्चेति वक्तव्यम् ॥ * ॥ विंशिनो ऽङ्गिरसः॥ पङ्क्तिविंश
! Wait, let's look at the first word of L23: Is it "ब्राह्मणानि" or "ब्राह्मखानि"? It is "ब्राह्मणानि" with 'णा'! Wait, why does L22 have that odd letter? In L22: "त्रैंशानि ब्राह्म...नि": It is "त्रैंशानि ब्राह्मयानि" or "त्रैंशानि ब्राह्मणानि"? Wait, look at the letter in L22: it looks like "ब्राह्मयानि" or "ब्राह्मखानि". But wait, could it be "ब्राह्मणानि" with a broken type? Wait, if you zoom in on L22 "ब्राह्मयानि": It is clearly a 'य' or 'ख'! It has no stem on the right! It has an e/ya curve! Wait, look at L23 later: "कानि चिदेव ब्राह्म...न्युच्यन्ते" Between 'ह्म' and 'न्यु': it has 'या'! Wait! "ब्राह्मयान्युच्यन्ते"?! Wait, could the text actually say "ब्राह्मयानि" and "ब्राह्मयान्युच्यन्ते"? Wait, why would it say that?! Is there a word "ब्राह्मय"? NO! In Pāṇini 5.1.62: "त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण्" Triṁśat + ḍaṇ -> Tra
३९४ ॥ काशिका ॥ ५ ॥ १ ॥ शीर्षच्छेदाद्यच्च ॥ ६५ ॥ शीर्षच्छेदशब्दाद् द्वितीयासमर्थाच्चित्यमर्हतीत्यस्मिन्नर्थे यत् प्रत्ययो भवति चकाराद्यथाविहितश्च । शिरश्छेदं नित्यमर्हति, शीर्षच्छेद्यः । शीर्ष- च्छेदिकः । प्रत्ययसन्नियोगेन शिरसः शीर्षभावो निपात्यते ॥ दण्डादिभ्यो यः* ॥ ६६ ॥ नित्यमिति निवृत्तम् । दण्डादिभ्यो द्वितीयासमर्थेभ्यो ऽर्हतीत्यस्मिन्नर्थे यः प्रत्ययो भवति । ठञोपवादः । दण्डमर्हति, दण्ड्यः । मुसल्यः । दण्ड । मुसल । मधुपर्कं । कशा । अर्घ । मेधा । मेघ । युग । उदक । वध । गुहा । भाग । रभ । दण्डादिः ॥ छन्दसि च ॥ ६७ ॥ प्रातिपदिकमात्राच्छन्दसि विषये तदर्हतीत्यस्मिन्नर्थे यत् प्रत्ययो [L13
त्यस्मिन्विषये। ठञोपवादौ। यज्ञियो ब्राह्मणः। आर्त्विज्यीनो ब्राह्मणः॥ यज्ञ- र्त्विग्भ्यां तत्कर्मार्हतीत्युपसंख्यानम्॥ * ॥ यज्ञकर्मार्हति, यज्ञियो देशः। आर्त्वि- ज्यकर्मार्हति, आर्त्विज्यीनं ब्राह्मणकुलम्। आर्हीयानां ठगादीनां पूर्वोऽवधिः॥ अतः परं प्राग्वतीयष्ठञेव भवति ॥ पारायणतुरायणचान्द्रायणं वर्त्तयति ॥ ७२ ॥ समर्थविभक्तिरनुवर्त्तते। अर्हतीति निवृत्तम्। पारायणादिभ्यो द्विती- यासमर्थेभ्यो वर्त्तयतीत्यस्मिन्नर्थे ठञ् प्रत्ययो भवति। पारायणं वर्त्तयत्यधीते, पारायणिकश्छात्रः। तौरायणिको यजमानः। चान्द्रायणिकस्तपस्वी ॥ संशयमापन्नः ॥ ७३ ॥ संशयशब्दाद्द्वितीयासमर्थादापन्न इत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति। संशयमापन्नः प्राप्तः सांशयिकः स्थाणुः ॥ योजनं गच्छति ॥ ७४ ॥ योजनशब्दाद्द्वितीयासमर्थाद्गच्छतीत्यस्मिन्नर्थे ठञ् प्रत्ययो भवति। योजनं गच्छति, यौजनिकः॥ क्रोशशतयोजनशतयोरुपसंख्यानम्॥ * ॥ क्रोश- शतं गच्छति, क्रौशशतिकः। योजनशतिकः॥ ततो ऽभिगमनमर्हतीति च क्रोशशतयोजनशतयोरुपसंख्यानम् ॥ * ॥ क्रोशशतादभिगमनमर्हति, क्रौशश- तिको भिक्षुः। यौजनशतिक आचार्यः ॥ पथः ष्कन् ॥ ७५ ॥ पथिन्शब्दाद् द्वितीयासमर्थाद्गच्छतीत्यस्मिन्नर्थे ष्कन्प्रत्ययो भवति। नकारः स्वरार्थः। षकारो ङीषर्थः। पन्थानं गच्छति पथिकः। पथिकी॥ पन्थो ण नित्यम् ॥ ७६ ॥ नित्यग्रहणं प्रत्ययार्थविशेषणम्। पथः पन्थ इत्ययमादेशो भवति णश्च प्रत्ययो नित्यं गच्छतीत्यस्मिन्विषये। पन्थानं नित्यं गच्छति, पान्थो भिक्षां याचते। नित्यमिति किम्। पथिकः ॥ उत्तरपथेनाहृतं च ॥ ७७ ॥ निर्देशादेव समर्थविभक्तिः। उत्तरपथशब्दात्तृतीयासमर्थादाहृतमित्ये- तस्मिन्विषये ठञ् प्रत्ययो भवति। चकारः प्रत्ययार्थसमुच्चये, गच्छतीति च। क्वापि तृतीयेव समर्थविभक्तिः। उत्तरपथेनाहृत, मौत्तरपथिकम्। उत्तरपथेन गच्छति, औत्तरपथिकः॥ आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वपदादुपसं- ख्यानम् ॥ * ॥ वारिपथेनाहृतं, वारिपथिकम्। वारिपथेन गच्छति, वारिप- थिकः। जाङ्गलपथेनाहृतं, जाङ्गलपथिकम्। जाङ्गलपथेन गच्छति, जाङ्गलप-
। ३८६ ॥ काशिका ॥ ५ । १ ॥ धिकः। स्थलपथेनाहृतं, स्थालपथिकम्। स्थलपथेन गच्छति, स्थालपथिकः। कान्तारपथेनाहृतं, कान्तारपथिकम्। कान्तारपथेन गच्छती, कान्तारपथिकः ॥ अजपथशङ्कुपथाभ्यां चोपसंख्यानम् ॥ * ॥ अजपथेनाहृतं, गच्छति वा, ऽऽजप- थिकः। शङ्कुपथेनाहृतं, गच्छति वा, शाङ्कुपथिकः ॥ मधुकमरिचयोश्च स्थला- त् ॥ * ॥ स्थलपथेनाहृतं स्थालपथं मधुकम्। स्थालपथं मरिचम् ॥ कालात् ॥ ७८ ॥ कालादित्यधिकारः। यदिद ऊर्ध्वमनुक्रमिष्यामः कालादित्येवं तद्वे- दितव्यम्। वक्ष्यति। तेन निर्वृत्तम्। मासेन निर्वृत्तं, मासिकम्। चातुर्मासि- कम्। सांवत्सरिकम्। कालादित्यधिकारो व्युष्टादिभ्योऽणिति यावत् ॥ तेन
॥ काशिका ॥ ५ । १ ॥ ३८७
अवयसि ठंश्च ॥ ८४ ॥
षण्मासशब्दादवयस्यभिधेये ठन् प्रत्ययो भवति । चकारेणानन्तरण्यस्य
समुच्चयः क्रियते * । षण्मासिको रोगः । षाण्मास्यः ॥
समायाः खः ॥ ८५ ॥
अधीष्टादयश्चत्वारो ऽर्था अनुवर्तन्ते । समाशब्दाद् द्वितीयासमर्थाद्
अधीष्टादिष्वर्थेषु खः प्रत्ययो भवति । ठञोपवादः । समामधीष्टो भृतो भूतो
भावी वा, समीनः । के चित्तु तेन निर्वृत्तमिति सर्वत्रानुवर्तयन्ति । समया
निर्वृत्तः, समीनः ॥
द्विगोर्वा ॥ ८६ ॥
समायाः ख इत्येव । समाशब्दान्ताद् द्विगोर्निर्वृत्तादिष्वर्थेषु पञ्चसु
वा खः प्रत्ययो भवति । पूर्वेण नित्यः प्राप्तो विकल्प्यते । प्राप्तेः संख्यापूर्वे-
पदानां तदन्तग्रहणमलुकीति प्राप्तिरस्त्येव । खेन मुक्ते पक्षे ठञपि भवति ।
द्विसमीनः । द्वैसामिकः । त्रिसमीनः । त्रैसामिकः ॥
रात्र्यहस्संवत्सराच्च ॥ ८७ ॥
† रात्रि अहः संवत्सर इत्येवमन्ताद् द्विगोर्निर्वृत्तादिष्वर्थेषु वा खः
प्रत्ययो भवति । खेन मुक्ते पक्षे ठञपि भवति । द्विरात्रीणः । द्वैरात्रिकः ।
त्रिरात्रीणः । त्रैरात्रिकः । द्व्यहीनो, द्व्यहिकः । त्र्यहीणः । त्र्यहिकः । द्विसंव-
त्सरीणः । द्विसांवत्सरिकः । त्रिसंवत्सरीणः । त्रिसांवत्सरिकः । संख्यायाः ।
संवत्सरसंख्यस्य चेत्युत्तरपदवृद्धिः ॥
वर्षाल्लुक् च ॥ ८८ ॥
द्विगोरित्येव । वर्षान्ताद् द्विगोर्निर्वृत्तादिष्वर्थेषु वा खः प्रत्ययो भवति ।
पक्षे ठञ् । तयोश्च वा लुग्भवति । एवं त्रीणि रूपाणि भवन्ति । द्विवर्षीणो
व्याधिः । द्विवार्षिकः । द्विवर्षः । त्रिवर्षीणः । त्रिवार्षिकः । त्रिवर्षः । वर्ष-
स्याभविष्यतीत्युत्तरपदवृद्धिः । भाविनि तु द्वैवार्षिकः ॥
चित्तवति नित्यम् ॥ ८९ ॥
चित्तवति प्रत्ययार्थे ऽभिधेये वर्षशब्दान्ताद् द्विगोर्निर्वृत्तादिष्वर्थेषूत्प-
न्नस्य प्रत्ययस्य ‡ नित्यं लुग्भवति । पूर्वेण विकल्पे प्राप्ते वचनम् । द्विवर्षो
दारकः । चित्तवतीति किम् । द्विवर्षीणो व्याधिः ॥
- चकारो ऽनन्तरस्य ययतः समुच्चयार्थः । पा० २ । † द्विगोरित्येवेत्यधिकं बहुषु पुस्तकेषु । ‡ निर्वृत्तादिष्वर्थेषूत्पन्नस्य प्रत्ययस्येति बहुषु पुस्तकेषु नास्ति ।
३८८ ॥ काशिका ॥ ५ । १ ॥ षष्टिकाः षष्टिरात्रेण पच्यन्ते ॥ ९० ॥ षष्टिकशब्दो निपात्यते, बहुवचनमन्तवम् । षष्टिरात्रशब्दात्तृतीयासम्- र्थात्कन् प्रत्ययो निपात्यते पच्यन्त इत्येतस्मिन्नर्थे, रात्रिशब्दस्य च लोपः। षष्टि- रात्रेण पच्यन्ते षष्टिकाः । संज्ञैषा धान्यविशेषस्य । तेन मुद्गादिष्वतिप्रसङ्गो न भवति ॥ वत्सरान्ताच्छश्छन्दसि ॥ ९१ ॥ वत्सरान्तात्प्रातिपदिकाद्विर्वृत्तादिष्वर्थेषु छन्दसि विषये छः प्रत्ययो भवति । ठञोऽपवादः । इद्वत्सरीयः । इदावत्सरीयः ॥ संपरिपूर्वात्ख च ॥ ९२ ॥ संपरिपूर्वाद्वत्सरान्तात्प्रातिपदिकाच्छन्दसि विषये निर्वृत्तादिष्वर्थेषु खः प्रत्ययो भवति, चकाराच्छश्च । संवत्सरीणः । परिवत्सरीणः । संवत्सरीयः । परिवत्सरीयः ॥ तेन परिजय्यलभ्यकार्यसुकरम् ॥ ९३ ॥ तेनेति तृतीयासमर्थात्कालवाचिनः प्रातिपदिकात्परिजय्य लभ्यकार्य सुकर इत्येतेष्वर्थेषु ठञ् प्रत्ययो भवति । मासेन परिजय्यः, शक्यते जेतुं, मा- सिको व्याधिः । सांवत्सरिकः । मासेन लभ्यः, मासिकः पटः । मासेन कार्ये, मासिकं चान्द्रायणम् । मासेन सुकरो, मासिकः प्रासादः ॥ तदस्य ब्रह्मचर्यम् ॥ ९४ ॥ तदिति द्वितीया समर्थविभक्तिः । सा चात्यन्तसंयोगे । अस्येति प्रत्य- यार्थः । ब्रह्मचर्यमिति द्वाभ्यामपि संबध्यते । कालस्य व्यापकं, प्रत्ययार्थस्य च स्वमिति । तदिति द्वितीयासमर्थात्कालवाचिनः प्रातिपदिकादस्येति षष्ठ्यर्थे ठञ् प्रत्ययो भवति ब्रह्मचर्ये चेद्गम्यते । मासं ब्रह्मचर्यमस्य, मासिको ब्रह्म- चारी । षाण्मासिकः । सांवत्सरिकः । अपरा वृत्तिः । तदिति प्रथमासमर्था- दस्येति षष्ठ्यर्थे ठञ् प्रत्ययो भवति, यत्तदस्येति निर्दिष्टं ब्रह्मचर्यं चेद्भवति । मासोऽस्य ब्रह्मचर्यस्य मासिकं ब्रह्मचर्यम् । षाण्मासिकम् । सांवत्सरिकम् । पूर्वेत्र ब्रह्मचारी प्रत्ययार्थ, उत्तरत्र ब्रह्मचर्यमेव । उभयमपि प्रमाणमुभयथा सूत्रप्रणयनात् ॥ महानाम्न्यादिभ्यः षष्ठीसमर्थेभ्य उपसंख्यानम् ॥ * ॥ माहाना- म्निकम् । गौदानिकम् । आदित्यव्रतिकम् ॥ तच्चरतीति च * ॥ * ॥ महाना- म्न्य ऋचः, तत्सहचरितं व्रतं तच्छब्देनोच्यते । महानाम्नीश्चरति महाना- म्निकः । आदित्यव्रतिको, गौदानिकः । भस्याढेति पुंवद्भावेन ङीपि निवृत्ते
- तच्चरतीति महानाम्न्यादिभ्य उपसंख्यानम् । वा० २ ।
नस्तद्धितेति टिलोपः * ॥ अवान्तरदीक्षादिभ्यो डिनिर्वक्तव्यः ॥ * ॥ अवान्त- रदीक्षां चरति, अवान्तरदीक्षी । तिलव्रती ॥ अष्टाचत्वारिंशतो डुवुंश्च डिनिश्च वक्तव्यः ॥ * ॥ अष्टाचत्वारिंशद्वर्षाणि व्रतं चरति, अष्टाचत्वारिंशकः । अष्टा- चत्वारिंशी ॥ चातुर्मास्यानां यलोपश्च डुवुंश्च डिनिश्च वक्तव्यः ॥ * ॥ चातु- र्मास्यानि चरति, चातुर्मासकः । चातुर्मासी ॥ चतुर्मासाद् ण्यौ यज्ञे ॥ * ॥ तत्र भवे । चतुर्षु मासेषु भवानि, चातुर्मास्यानि ॥ संज्ञायामण्वक्तव्यः ॥ * ॥ चतुर्षु मासेषु भवा, चातुर्मासी पौषे मासी । आषाढी । कार्तिकी । फाल्गुनी ॥ तस्य च दक्षिणा यज्ञाख्येभ्यः ॥ ९५ ॥ तस्येति षष्ठीसमर्थेभ्यो यज्ञाख्येभ्यो दक्षिणेत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति । अग्निष्टोमस्य दक्षिणा, आग्निष्टोमिकी । वाजपेयिकी । राजसूयिकी । आख्याग्रहणमकालादपि यज्ञवाचिनो यथा स्यादिति । इतरथा हि कालाधि- कारादेकाहद्वादशाहप्रभृतय एव यज्ञा गृह्येरन् । प्राग्वतेः संख्यापूर्वपदानां तद- न्तस्याहनामलुकीति कालाधिकारेपि द्वादशाहादिष्वस्ति प्राप्तिः ॥ तत्र च दीयते कार्यं भववत् ॥ ९६ ॥ तत्रेति सप्तमीसमर्थात्कालवाचिनः प्रातिपदिकाद्दीयते कार्यमित्येतयो- रर्थयोर्भववत्प्रत्ययो भवति । यथा । मासे भवं, मासिकम् । सांवत्सरिकम् । प्रावृषेण्यम् । वासन्तिकम् । वासन्तम् । हैमनम् । हैमन्तम् । हैमन्तिकम् । शारदम् । वतिः सर्वसादृश्यार्थः । योगविभागश्चात्र कर्त्तव्यः । तत्र च दीयते, यज्ञाख्येभ्य इति । आग्निष्टोमिकं भक्तम् । राजसूयिकम् । वाजपेयिकम् । का- लाधिकारस्य पूर्णो ऽवधिः ॥ अतः परं सामान्येन प्रत्ययविधानम् ॥ व्युष्टादिभ्यो ऽण् ॥ ९७ ॥ तत्रेति सप्तमीसमर्थेभ्यो व्युष्टादिभ्यो दीयते कार्यमित्येतयोरण् प्रत्ययो भवति । व्युष्टे दीयते कार्यं वा, वैयुष्टम् । नैत्यम् ॥ अस्य प्रकरणे अग्निपदा- दिभ्य उपसंख्यानम् ॥ * ॥ † अत्रैव ते पठितव्याः । व्युष्ट । नित्य । निष्क्र- मण । प्रवेशन । तौर्य । संधम । आस्तरथ । संग्राम । संघात । अग्निपद । पीलुमूल । प्रवास । उपसंक्रमण । ‡ व्युष्टादिः ॥ तेन यथाकथाचहस्ताभ्यां णयतौ ९८ ॥
- भस्याढ इति पुंवद्भावेन ङीपि निवृ
४०० ॥ काशिका ॥ ५ ॥ १ ॥ दीयते कार्यमिति वर्तते । तेनेति तृतीयासमर्थाभ्यां यथाकथाचद्धस्तश- ब्दाभ्यां यथासंख्यं णय्तौ प्रत्ययौ भवतः । दीयते कार्यमित्येतयोरर्थयोः प्रत्ये- कमभिसम्बन्धो, यथासंख्यं नेष्यते । यथाकथाशब्दो ऽव्ययसमुदायो ऽनादरे वर्तते । तृतीयार्थमात्रं चात्रसंभवति, न तु तृतीया समर्थविभक्तिः । यथाकथाच दीयते कार्यं वा, याथाकथाचम् । हस्तेन दीयते कार्यं वा, हस्त्यम् ॥ संपादिनि ॥ ९९ ॥ तेनेत्येव । तृतीयासमर्थात्संपादिन्यभिधेये ठञ् प्रत्ययो भवति । गुणो- त्कर्षः संपत्तिः । आवश्यके णिनिः । कर्णवेष्टकाभ्यां संपादि मुखं, कार्णवेष्टकिकं मुखम् । वस्त्रयुगिकं शरीरम् । वस्त्रयुगेन विशेषतः शोभतइत्यर्थः ॥ कर्मवेषादात् ॥ १०० ॥ कर्मवेषशब्दाभ्यां तृतीयासमर्थाभ्यां यत्प्रत्ययो भवति संपादिनीत्येत- स्मिन्विषये । ठञोऽपवादः । कर्मणा संपाद्यते, कर्मण्यं शरीरम् । वेषेण संप- द्यते, वेष्यो नटः ॥ तस्मै प्रभवति संतापादिभ्यः ॥ १०१ ॥ तस्मादिति चतुर्थीसमर्थेभ्यः संतापादिभ्यः प्रभवतीत्यस्मिन्विषये ठञ् प्रत्ययो भवति । समर्थः शक्तः प्रभवतीत्युच्यते । अलमर्थे चतुर्थी । संतापाय प्रभवति, सांतापिकः । सांन्नाहिकः । संताप । संनाह । संयाम । संयोग । संप- राय । संपेष । निष्पेष । निसर्ग । असर्ग । विसर्ग । उपसर्ग । उपवास । प्रवास । संघात । संमोदन । *सक्तु ॥ मांसौदनाद्गृह्णीतादपि * ॥ योगाद्यच्च ॥ १०२ ॥ योगशब्दाद्यत्प्रत्ययो भवति, चकाराट्ठञ्, तस्मै प्रभवतीत्यस्मिन्वि- षये । योगाय प्रभवति, योग्यः । यौगिकः ॥ कर्मण उकञ् ॥ १०३ ॥ कर्मशब्दादुकञ् प्रत्ययो भवति तस्मै प्रभवतीत्येतस्मिन्नर्थे । ठञो ऽप- वादः । कर्मणे प्रभवति, कार्मुकं धनुः । धनुषोऽन्यत्र न भवति, अनभिधानात् † ॥ समयस्तदस्य प्राप्तम् ॥ १०४ ॥ समयशब्दात् तदिति प्रथमासमर्थाद् अस्येति षष्ठ्यर्थे ठञ् प्रत्ययो भवति
- निचोष । सर्ग । संपात । संवाद । संवेञ्जन । इत्येते शब्दा अत्र गणे ऽधिका बहुषु पुस्तकेषु । तत्रैकस्मिन्पुस्तके संवेञ्जनेत्यत्र संक्षेपइति पा० २ । † धनुषोऽन्येत्यारभ्य अनभिधानादित्यन्तो ग्रन्थो बहुषु पुस्तकेषु नास्ति । अपपाठः, पद- मञ्जर्य्यां दर्शनात् ।
॥ काशिका ॥ ५ । १ ॥ ४०१ यत्प्रथमासमर्थं प्राप्तं चेद्भवति । समयः प्राप्तो ऽस्य, सामयिकं कार्यम् । उपनतकालमित्यर्थः । समर्थविभक्तिनिर्देशउत्तरार्थः ॥ ऋतोरण् ॥ १०५ ॥ तदस्य प्राप्तमित्यनुवर्त्तते । ऋतुशब्दात्तदिति प्रथमा समर्थाद् अस्येति षष्ठ्यर्थे ऽण् प्रत्ययो भवति तदस्य प्राप्तमित्येतस्मिन् विषये * । ऋतुः प्राप्तो ऽस्य, आर्त्तवं पुष्पम् ॥ तदस्य प्रकरणे उपवस्त्रादिभ्य उपसंख्यानम् ॥ * ॥ उप- वस्त्रा प्राप्तो ऽस्य औपवस्त्रम् । प्राशिता प्राप्तोस्य प्राशित्रम् ॥ छन्दसि घस् ॥ १०६ ॥ ऋतुशब्दाच्छन्दसि विषये घस् प्रत्ययो भवति तदस्य प्राप्तमित्यस्मि- न्विषये । अणोऽपवादः । अयं ते योनिर्ऋत्वियः ॥ कालाद्यत् ॥ १०७ ॥ कालशब्दाद्यत्प्रत्ययो भवति तदस्य प्राप्तमित्यस्मिन्विषये । कालः प्राप्तोस्य काल्यस्तापः । काल्यं शीतम् † ॥ प्रकृष्टे ठञ् ॥ १०८ ॥ कालादित्येव, तदस्येति च । प्राप्तमिति निवृत्तम् । प्रकर्षेण कालो विशेष्यते । प्रकर्षे वर्त्तमानात्कालात्प्रथमासमर्थादस्येति षष्ठ्यर्थे ठञ् प्रत्ययो भवति । प्रकृष्टो दीर्घः कालोस्य, कालिकमृणम् । कालिकं वैरम् । ठञ्ग्रहणं विस्पष्टार्थम् ॥ प्रयोजनम् ॥ १०९ ॥ तदस्येत्येव । तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठञ् प्रत्ययो भवति यत्प्रथमासमर्थं प्रयोजनं चेत्तद्भवति । इन्द्रमहः प्रयोजनमस्य, ऐन्द्रमहिकम् माहार्महिकम् ॥ विशाखाषाढादण्डमन्थयदण्डयोः ॥ ११० ॥ विशाखाषाढाशब्दाभ्यामण् प्रत्ययो भवति तदस्य प्रयोजनमित्येत- स्मिन्विषये यथासंख्यं मन्थदण्डयोरभिधेययोः । विशाखा प्रयोजनमस्य, वैशाखो मन्थः । आषाढो दण्डः ॥ चूडादिभ्य उपसंख्यानम् ॥ * ॥ चूडा प्रयोजनमस्य चौडम् । श्रुतुः प्रयोजनमस्य, श्राद्धम् ॥ अनुप्रवचनादिभ्यश्छः ॥ १११ ॥
- ऋतुशब्दात्प्रथमासमर्थात्प्राप्तोपाधिकादस्येति षष्ठ्यर्थे ऽण् प्रत्ययो भवति । पा० २ अयमेव च पाठो युक्तः । † शीतम् । वा० २ । २६
४०२ ॥ काशिका ॥ ५ ॥ १ ॥
अनुप्रवचनादिभ्यः प्रातिपदिकेभ्यश्छः प्रत्ययो भवति तदस्य प्रयोजन- मित्यस्मिन्विषये। ठञोऽपवादः। अनुप्रवचनं प्रयोजनमस्य, अनुप्रवचनीयम्। उत्थापनीयम् ॥ विशिपूरिपतिदृहि*प्रकृतेरनात्पूर्वपदादुपसंख्यानम् ॥ * ॥ गृह- प्रवेशनं प्रयोजनमस्य, गृहप्रवेशनीयम्। प्रपापूरणीयम्। अश्वप्रपतनीयम्। प्रासादारोहणीयम् ॥ स्वर्गादिभ्यो यद्वक्तव्यः ॥ * ॥ स्वर्गः प्रयोजनमस्य, स्वर्यम्। यशस्यम्। आयुष्यम्। काम्यम्। धन्यम् ॥ पुण्याहवाचनादिभ्यो लुग्वक्तव्यः ॥
- ॥ पुण्याहवाचनं प्रयोजनमस्य, पुण्याहवाचनम्। स्वस्तिवाचनम्। शान्तिवा- चनम्। अनुप्रवचन। उत्थापन। प्रवेशन। अनुप्रवेशन। उपस्थापन। संवेशन। अनुवेशन। अनुवचन। अनुवादन। अनुवासन। आरम्भण। आरोहण। प्ररो- हण। अन्वारोहण। अनुप्रवचनादिः ॥ समापनात्सपूर्वपदात् ॥ ११२ ॥ समापनशब्दात्सपूर्वपदाद्विद्यमानपूर्वपदाच्छः प्रत्ययो भवति तदस्य प्रयोजनमित्येतस्मिन्विषये। ठञोऽपवादः। छन्दस्समापनं प्रयोजनमस्य छन्दः- समापनीयम्। व्याकरणसमापनीयम्। पदग्रहणं बहुपूर्वपद्निरासार्थम् ॥ ऐकागारिकट् चौरे ॥ ११३ ॥ ऐकागारिकट् इति निपात्यते चौरेऽभिधेये। एकागारं प्रयोजनमस्य, ऐकागारिकः चौरः। ऐकागारिकी। किमर्थमिदं निपात्यते। यावता प्रयोजन- मित्येव सिद्धश्छञ्। चौरे नियमार्थं वचनम्। इह मा भूत्। एकागारं प्रयोज- नमस्य भिक्षोरिति। टकारः कार्यावधारणार्थः। ङीबेव भवति, न ञित्स्वर इति। अपरे पुनरिकट् प्रत्ययं वृद्धिं च निपातयन्ति ॥ आकालिकडाद्यन्तवचने ॥ ११४ ॥ आकालिकड् इति निपात्यते आद्यन्तवचने। समानकालशब्दस्याका- लशब्द आदेशः। चाद्यन्तयोश्चैतद्विशेषणम्। इकट् प्रत्ययश्च निपात्यते। समा- नकालावाद्यन्तावस्य, आकालिकः स्तनयित्नुः। आकालिकी विद्युत्। जन्मना तुल्यकालविनाशा। उत्पत्त्यानन्तरं विनाशीत्यर्थः ॥ आकालाट् ठंश्च, ॥ * ॥ वात् ठञ् च। आकालिका विद्युत्। ठञः पूर्वेावधिः ॥ तेन तुल्यं क्रिया चेद्वतिः ॥ ११५ ॥ तेनेति तृतीयासमर्थात्सुल्यमित्यर्थे वतिः प्रत्ययो भवति यत्तुल्यं क्रिया चेत्सा भवति। ब्राह्मणेन तुल्यं वर्तते, ब्राह्मणवत्। राजवत्। क्रियाग्रहणं
- दृहेरित्यस्याग्रे पठतीत्यधिकं, प्रपद्नीयमित्युदाहरणं चाधिकमेकस्मिन्पुस्तके। परं तु पदमञ्जर्यसंमतस्तस्य पाठः। भाष्यपुस्तकेषु तु विशिपूरिपतीत्येव पाठ उपलभ्यते।
॥ काशिका ॥ ५ । १ ॥ ४०३ किम् । गुणद्रव्य*तुल्ये मा भूत । पुत्रेण सह स्थूलः । पुत्रेण तुल्यः पिङ्गलः । पुत्रेण तुल्यो गोमान् † ॥ तत्र तस्येव ॥ ११६ ॥ तत्रेति सप्तमीसमर्थात् तस्येति षष्ठीसमर्थाच्च इवार्थे वतिः प्रत्ययो भवति । मथुरायामिव, मथुराशत् स्रुघ्ने प्राकारः ‡ । पाटलिपुत्रवत्साकेते परिखा । षष्ठी- समर्थात् । देवदत्तस्येव देवदत्तवद् यज्ञदत्तस्य गावः । यज्ञ, दत्तस्येव देवदत्तस्य दन्ताः यज्ञदत्तवत् § ॥ तदर्हम् ॥ ११७ ॥ तदिति द्वितीयासमर्थादर्हमित्येतस्मिन्नर्थे वतिः प्रत्ययो भवति । राजा- नमर्हति, राजवत्पालनम् । ब्राह्मणवत् । ऋषिवत् । क्षत्रियवत् ॥ उपसर्गाच्छन्दसि धात्वर्थे ॥ ११८ ॥ उपसर्गात्साधने धात्वर्थे वर्तमानात्साध्वर्थे वतिः प्रत्ययो भवति छन्दसि विषये । यदुद्वतो निवतो यासि वप्सद्, उद्वतानि निगतानि च ॥ तस्य भावस्त्वतलौ ॥ ११९ ॥ तस्येति षष्ठीसमर्थाद् भाव इत्येतस्मिन्नर्थे त्वतलौ प्रत्ययौ भवतः ॥ भवतोऽस्मादभिधानप्रत्ययाविति भावः । शब्दस्य प्रवृत्तिनिमित्तं भावशब्देनो- च्यते । अश्वस्य भावो, ऽश्वत्वम् । अश्वता । गोत्वम् । गोता ॥ आ च त्वात् ॥ १२० ॥ ब्रह्मभ्रूणस्त्व इति वक्ष्यति । आ .एतस्मात्त्वसंज्ञकशब्दाद् , यदित ऊर्ध्वमनु- क्रमिष्याम,स्तत्र त्वतलौ प्रत्ययावधिकृतौ वेदितव्यौ । वक्ष्यति । पृथ्वादिभ्य इमनिज्स्वेति । प्रथिमा । पार्थवम् । पृथुत्वम् । पृथुता । म्रदिमा । मार्दवम् । मृदुत्वम् । मृदुता । अपवादैः सह समावेशार्थं वचनम् । कर्मणि च विधानार्थे गुणवचनब्राह्मणादिभ्यः कर्मणि चेति । चकारो नञ्स्नभ्यामपि समावेशार्थः । स्त्रियाः भावः, स्त्रैणम् । स्त्रीत्वम् । स्त्रीता । पुंसो भावः, पुंस्त्वम् । पुंस्ता । पौंसम् ॥ न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटबुध- कतरसलवेभ्यः ॥ १२१ ॥ इत उत्तरे ये भावप्रत्ययास्ते नञ्पूर्वात्तत्पुरुषाच्च भवन्ति चतुरादीन्वर्ज- * द्रव्येति बहुषु पुस्तकेषु नास्ति । † पुत्रेण तुल्यो गोमानिति बहुषु पुस्तकेषु नास्ति । ‡ प्रासाद इति पा० २ । § देवदत्तवद्यज्ञदत्तस्य दन्ता इति पा० २ ।
४०४ काशिका ॥ ५ ॥ १ ॥ यित्वा। वक्ष्यति। पत्यन्तपुरोहितादिभ्यो यगिति। अपतित्वम्। अपतिता। अपटुत्वम्। अपटुता। अरमणीयत्वम्। अरमणीयता। नञ्पूर्वादिति किम्? बार्हस्पत्यम्। प्राजापत्यम्। तत्पुरुषादिति किम्। नास्य पटवः सन्तीत्य- पटुः, तस्य भाव आपटवम्। आलघवम्। अचतुरादिभ्य इति किम्। आच- तुर्यम्। आसंगतम्। आलवण्यम्। आवट्यम्। आबुध्यम्। आक्त्यम्। आरस्यम्। आलस्यम्॥ पृथ्वादिभ्य इमनिज्वा ॥ १२२ ॥ पृथु इत्येवमादिभ्यः प्रातिपदिकेभ्य इमनिच्प्रत्ययो भवति वा तस्य भाव इत्येतस्मिन्नर्थे। वावचनमणादेः समावेशार्थम्। पृथोर्भावः, प्रथिमा। पार्थवम्। म्रदिमा। मार्दवम्। तुरिष्टेमेयस्सु टेरिति टिलोपः। र ऋतो- र्हलादेर्लघोरोरिति रेफादेशः*। त्वतलौ सर्वत्र भवत एव। पृथुत्वम्। पृथुता। मृदुत्वम्। मृदुता। पृथु। मृदु। महत्। पटु। तनु। लघु। बहु। साधु। वेणु। आशु। बहुल। गुरु। दण्ड। ऊरु। खण्ड। चण्ड। बाल। अकिञ्चन। होड। पाक। वत्स। मन्द। स्वादु। ह्रस्व। दीर्घ। प्रिय। वृष। ऋजु। क्षिप्र। क्षुद्र। पृथ्वादिः॥ वर्णदृढादिभ्यः ष्यञ् च ॥ १२३ ॥ वर्णविशेषवाचिभ्यः प्रातिपदिकेभ्यो दृढादिभ्यश्च ष्यञ् प्रत्ययो भवति, चकारादिमनिच्च, तस्य भाव इत्येतस्मिन्विषये। शुक्लस्य भावः, शौक्ल्यम्। शुक्लिमा। शुक्लत्वम्। शुक्लता। कार्ष्ण्यम्। कृष्णिमा। कृष्णत्वम्। कृष्णता। दृढादिभ्यः। दार्ढ्यम्। द्रढिमा। दृढत्वम्। दृढता। षकारो ङीबर्थः। शौचिती। यथाकामी। दृढ। परिवृढ। भृश। कृश। वक्र। आम्र। लवण। ताम्र। अम्ल। शीत। उष्ण। जड। बधिर। पण्डित। मधुर। मूर्ख। मूक। बेर्योतस्लाभमतिमन्:शारदानाम्॥ समो मतिमन्सोर्जवने†‡॥ गुणवचनब्राह्मणादिभ्यः कर्मणि च ॥ १२४ ॥ गुणमुक्तवन्तो गुणवचनाः। गुणवचनेभ्यो ब्राह्मणादिभ्यश्च तस्येति षष्ठीसमर्थेभ्यः कर्मण्यभिधेये ष्यञ्प्रत्ययो भवति। चकाराद् भावे च। कर्म- शब्दः क्रियावचनः। जडस्य भावः कर्म वा, जाड्यम्। ब्राह्मणादिभ्यः ष्यञपि। ब्राह्मण्यम्। माढव्यम्। आ पादपरिसमाप्तेर्भावकर्माधिकारः।
- तुरिष्टेमेयस्स्वित्यारभ्य रेफादेश इत्यन्तं बहुषु पुस्तकेषु नास्ति। † जवनइति बहुषु पुस्तकेषु न दृश्यते। ‡ बाल। तरण्ड। मन्द। स्थिर। बहुल। दीर्घ। मूढ। चाकष्ट। इत्येते शब्दा अत्र मध्ये अधिकाः।
॥ काशिका ॥ ५ । १ ॥ ४०५ ब्राह्मणादिराकृतिगणः । आदिशब्दः प्रकारवचनः ॥ चातुर्वर्ण्यादीनां स्वार्थे- उपसंख्यानम् ॥ * ॥ चत्वार एव वर्णाश्चातुर्वर्ण्यम् । चातुराश्रम्यम् । त्रैलो- क्यम् । त्रैश्वर्यम् । षाड्गुण्यम् । सैन्यम् । साचिध्यम् । सामीप्यम् । औप- म्यम् । सौख्यम् । ब्राह्मण । वाडव । माणव । चोर । मूक । आराध्य । विराध्य । अपराधय । उपराध्य । एकभाव । द्विभाव । त्रिभाव । अन्यभाव । समस्थ । विषमस्थ । परस्थ । मध्यमस्थ । अनीश्वर । कुशल । कपि । चपल । अचेतन । निपुण ॥ अर्हतो नुम् च ॥ आर्हन्त्यम् । संवादिन् । संवेशिन् । बहुभाषिन् । बालिश । दुष्पुरुष । कापुरुष । दायाद । विशसि । धूर्त्त । राजन् । संभाषिन् । शीर्षघातिन् । अधिपति । अलस । पिशाच । पिशुन । विशाल । गणपति । धनपति । नरपति । गडुल । निख । निधान । विष ॥ सर्ववेदादिभ्यः स्वार्थे ॥ चतुर्वेदस्योभयपदवृद्धिश्च ॥ चातुर्वैद्यम् * ॥ स्तेनाद्यन्नलोपश्च ॥ १२५ ॥ स्तेनशब्दात्षष्ठीसमर्थाद्भावकर्मणोर्यत्प्रत्ययो भवति, नशब्दस्य लोपश्च भवति । स्तेनस्य भावः कर्म वा, स्तेयम् । स्तेनादिति के चिद् योगविभागं कुर्वन्ति । स्तेनात्ष्यङ्भवति । स्तैन्यम् । ततो यन्नलोपश्च, स्तेयम् ॥ सख्युर्यः ॥ १२६ ॥ सखिशब्दाद् यः प्रत्ययो भवति भावकर्मणोरर्थयोः सख्युर्भावः कर्म वा, सख्यम् ॥ दूतवणिग्भ्यां चेति वक्तव्यम् ॥ * ॥ दूत्यम् । वणिज्यम् । कथं वाणिज्यम् । ब्राह्मणादित्वात् ॥ कपिज्ञात्योर्ढक् ॥ १२७ ॥ कपिज्ञातिशब्दाभ्यां ढक् प्रत्ययो भवति भावकर्मणोरर्थयोः । कपेर्भावः कर्म वा, कापेयम् । ज्ञातेयम् ॥ यथासंख्यमर्थयोः सर्वेनैवात्र प्रकरणे नेष्यते ॥ पत्यन्तपुरोहितादिभ्यो यक् ॥ १२८ ॥ पत्यन्तात्प्रातिपदिकात्पुरोहितादिभ्यश्च यक् प्रत्ययो भवति भावकर्म- णोरर्थयोः । सेनापतेर्भावः कर्म वा, सेनापत्यम् । गार्हपत्यम् । प्राजापत्यम् । पौरोहित्यम् । राज्यम् । पुरोहित । राजन् । संयामिक । एषिक । वर्मित ।
- स्वभाव । निघातिन् । विघातिन् । राजपुत्र । विशस्ति । विप्राय । विप्रात । विश्वा- स । नयात । सुझित । दीन । विदग्ध । उचित । शमथ । श्लो । तत्पर । इदंपर । अवातपा । पुरस् । पुनःपुनर् । अभीक्ष्ण । सरतम । प्रकाम । यथाकाम । निकुल । स्वराज । महाराज । युवराज । सबाहु । अविदूर । अपिशुन । अयशस । अयवातथ । अयथापुर । स्वधर्म । अनुकूल । परिमण्डल । विमण्डल । असिच्यु । उदासीन । ईश्वर । प्रतिभू । साक्षि । मानुष । काशिक । नास्तिक । पुगपत् । पूर्वापर । उत्तराधर । एते शब्दा अत्र गणे अधिकाः पुस्तकान्तरे ।
४०६ ॥ काशिका ॥ ५ ॥ १ ॥ खण्डिक । दण्डिक । कुञ्जिक । मिल्लिक । पिण्डिक । आल । मन्द । स्वनिक । मूडितिक । ह्रषिक । पूतिक । पश्विक । प्रतिक । अजानिक । सलनिक । सूचिक । राकर । सूचक । पत्तिक । सारथिक । जलिक । सूतिक । अञ्ज- लिक । सूचक * ॥ प्राणभृज्जातिवयोवचनोद्गात्रादिभ्यो ऽञ् ॥ १२६ ॥ प्राणभृज्जातिवाचिभ्यः प्रातिपदिकेभ्यो वयोवचनेभ्य उद्गात्रादिभ्यश्चाञ् प्रत्ययो भवति भावकर्मणोरर्थयोः । अश्वस्य भावः कर्म वा, आश्वम् । मौष्ट्रम् । वयोवचनेभ्यः । कौमारम् । कैशोरम् । उद्गात्रादिभ्यः । औद्गात्रम् । औन्नेत्रम् । उद्गातृ । उन्नेतृ । प्रतिहर्तृ । रथगणक । पत्तिगणक † । सुष्ठु । दुष्ठु । आध्वर्यु । वधू ॥ सुभगमन्त्रे ‡ ॥ हायनान्तयुवादिभ्योऽण् ॥ १३० ॥ हायनान्तेभ्यः प्रातिपदिकेभ्यः युवादिभ्यश्चाण् प्रत्ययो भवति भाव- कर्मणोरर्थयोः । द्विहायनस्य भावः कर्म वा, द्वैहायनम् । त्रैहायनम् । युवा- दिभ्यः । यौवनम् । स्थविरम् ॥ श्रोत्रियस्य यलोपश्च वाच्यः ॥ * ॥ श्रोत्रि- यस्य भावः कर्म वा, श्रौत्रम् । युवन् । स्थविर । होतृ । यजमान । कमण्डलु ॥ पुरुषासे ॥ सुहृत् । यातृ । श्रवण । कुस्त्री । सुस्त्री । सुहृदय । सुभ्रातृ । वृषल । दुर्भ्रातृ ॥ हृदयासे ॥ क्षेत्रज्ञ । सूतक । परिव्राजक । कुशल । चपल । निपुण । पिशुन । सब्रह्मचारिन् । कुतूहल । अनृशंस § । युवादिः ॥ इगन्ताच्च लघुपूर्वात् ॥ १३१ ॥ इगन्ताच्च लघुपूर्वाद् अण् प्रत्ययो भवति भावकर्मणोः । लघुपूर्वग्रहणेन प्रातिपदिकसमुदायो विशेष्यते । लघुः पूर्वो ऽवयवो ऽस्येति लघुपूर्वः । कुतः पुनरसौ लघुः पूर्वः । इक्संविधानादिक इति विज्ञायते । लघुपूर्वोऽयस्मादिकः तदन्तात्प्रातिपदिकादित्ययमर्थो विवक्षितः । अपरे तत्पुरुषकर्मधारयं वर्ण- यन्ति । इक्चासावन्तश्चेतीगन्तः । लघुपूर्वग्रहणेन स एव विशेष्यते । पश्चा- त्तेन प्रातिपदिकस्य तदन्तविधिरिति । अस्मिन्व्याख्याने ऽन्तग्रहणमतिरिच्यते । लघुपूर्वादिक इत्येतावदेव वाच्यं स्यात् । शुचेर्भावः कर्म वा, शौचम् ।
- शर्मिक । चर्मिक । कार्मिक । शीलिन । मूलिन । तिलिका । तिथिक । अञ्जलिका । वार्त्तिक । पुत्रक । पथिक । प्रचिक । प्रविक । परिचक । पूजनिक ॥ राजासे ॥ मूचिक । स्व- रिक । मुडिक । एते शब्दा अत्र गणे पुस्तकान्तरे ऽधिकाः । † पत्तिगणक । पा० २ । ‡ प्रशास्तृ । पोतृ । नेष्टृ । कर्तृ । एते ऽत्र गणे ऽधिकाः कुत्र चित् । § भ्रातृ । कुपुत्र । कन्दुक । दुःस्त्री । दुर्हृदय । दुर्हृत् । मिथुन । कुस्त्री । मङ्गल । कतक । किसलय । पोत । एते ऽत्र गणे ऽधिकाः पुस्तकान्तरे ।
मौनम् । नागरम् । हारीतकम् । पाटवम् । लाघवम् । इगन्तादिति किम् । पटुत्वम् । लघुत्वम् । लघुपूर्वादिति किम् । कण्डूत्वम् । पाण्डुत्वम् । कथं काव्यमिति । ब्राह्मणादिषु कविशब्दो द्रष्टव्यः ॥ योपधाद्गुरूपोत्तमाद्वुञ् ॥ १३२ ॥ त्रिपभृतीनामन्तस्य समीपमुपोत्तमम् । गुरूपोत्तमं यस्य तद्गुरूपोत्तमम् । यकारोपधाद्गुरूपोत्तमाद्वुञ् प्रत्ययो भवति भावकर्मणोः । रमणीयस्य भावः कर्म वा, रामणीयकम् । वासनीयकम् । योपधादिति किम् । विमानत्वम् * । गुरूपोत्तमादिति किम् । तच्चियत्वम् ॥ सहायाद्वेति वक्तव्यम् ॥ * ॥ साहा- यकम् । साहाय्यम् ॥ द्वन्द्वमनोज्ञादिभ्यश्च ॥ १३३ ॥ द्वन्द्वसंज्ञकेभ्यो मनोज्ञादिभ्यश्च वुञ् प्रत्ययो भवति भावकर्मणोः । गोपा- लपशुपालानां भावः कर्म वा, गोपालपशुपालिका । शैष्योपाध्यायिका । कौत्स- कुशिकिका । मनोज्ञादिभ्यः । मानोज्ञकम् । काल्याणकम् । मनोज्ञ । कल्याण । प्रियरूप । छान्दस । छात्त्र । मेधाविन् । अभिरूप । आढ्य । कुलपुत्र । श्रोत्रिय । चोर । धूर्त्त । वैश्वदेव । युवन् । ग्रामपुत्र । ग्रामखण्ड । ग्रामकुमार । अमु- ष्यपुत्र । अमुष्यकुल । शतपुत्र । कुशल । मनोज्ञादिः † ॥ गोत्रचरणाच्छ्लाघात्याकारतद्वेतेषु ॥ १३४ ॥ गोत्रवाचिनश्चरणवाचिनश्च प्रातिपदिकाद् वुञ् प्रत्ययो भवति प्रत्येकं भावकर्मणोरर्थयोः श्लाघादिषु विषयभूतेषु । तत्र श्लाघा विकत्थनम् । अत्या- कारः पराधिक्षेपः तद्वेतस्तत्प्राप्तस्तत्सङ्गेतो वा । तदिति गोत्रचरणयोर्भावक- र्मणी निर्दिश्येते । तत्प्राप्तस्तदवगतवान् तद्वेत्त इत्युच्यते । श्लाघायां तावत् । गार्गिकया श्लाघते । काठिकया श्लाघते । गार्ग्यत्वेन कठत्वे विक- त्थनमित्यर्थः । अत्याकारे । गार्गिकयात्याकुरुते । काठिकयात्याकुरुते । गार्ग्य- त्वेन कठत्वेन परानधिक्षिप्तीत्यर्थः । तद्वेत्तः । गार्गिकामवेतः । काठिकाम- वेतः । गार्ग्यत्वं कठत्वं च प्राप्त इत्यर्थः । तद्वा ऽवगतवानित्यर्थः । श्लाघा- दिष्विति किम् । गार्ग्यत्वम् । कठत्वम् ॥ होत्राभ्यश्छः ॥ १३५ ॥ होत्राशब्द ऋत्विग्विशेषवचनः । ऋत्विग्विशेषवाचिभ्यश्छः प्रत्ययो भवति भावकर्मणोः । अच्छावाकस्य भावः कर्म वा, ऽच्छावाकीयम् । मित्रा-
पादटिप्पणी (Footnotes):
- कुलीनत्वम् । पा० २ । † अपुत्र । अवश्य । अहोपुरुष । एते शब्दा अत्र ग्रन्थे ऽधिकाः कुत्र चित् ।