काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 389, कुल 828 में से
संदर्भ में पढ़ें३८८ ॥ काशिका ॥ ५ ॥ १ ॥ तेन क्रीतम् ॥ ३७ ॥ ठञादयस्त्रयोदश प्रत्ययाः प्रकृताः तेषामितः प्रभृति समर्थविभक्तयः प्रत्ययार्थाश्च निर्दिश्यन्ते । तेनेति तृतीयासमर्थात् क्रीतमित्येतस्मिन्नर्थे यथा- विहितं प्रत्ययो भवति । सप्तत्या क्रीतं, साप्ततिकम् । आशीतिकम् । नैष्क- कम् । पाक्षिकम् । पादिकम् । माषिकम् । शत्यम् । शतिकम् । द्विकम् । त्रिकम् । तेनेति मूल्यात्करणे तृतीया समर्थविभक्तिः । अन्यत्रानभिधानान्न भवति । देवदत्तेन क्रीतं, पाणिना क्रीतमिति । द्विवचनबहुवचनान्तात्प्रत्ययो न भवति । प्रस्थाभ्यां क्रीतं, प्रस्थैः क्रीतमिति, अनभिधानादेव । यत्र तु प्रकृ- त्यर्थस्य संख्याभेदावगमे प्रमाणमस्ति तत्र द्विवचनबहुवचनान्तादपि प्रत्ययो भवति । द्वाभ्यां क्रीतं, द्विकम् । त्रिकम् । पञ्चकम् । तथा मुद्गैः क्रीतं मौद्गि- कम् । माषिकम् । नह्येकेन मुद्गेन क्रयः संभवति ॥ तस्य निमित्तं संयोगोत्पातौ ॥ ३८ ॥ तस्येति षष्ठीसमर्थान्निमित्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यन्निमित्तं संयोगश्चेत्स भवति उत्पातो वा । संयोगः संबन्धः प्राणिनां शुभाशुभसूचकः । महाभूतपरिणाम उत्पातः । शतस्य निमित्तं धनपतिना संयोगः, शत्यः । शतिकः । साहस्रः । उत्पातः । खल्वपि । शतस्य निमित्तमु- त्यातो दक्षिणाक्षिस्यन्दनम्, शत्यम् । शतिकम् । साहस्रम् ॥ तस्य निमित्त- प्रकरणे वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसंख्यानम् ॥ * ॥ वातस्य शमनं कोपनं वा, वातिकम् । पैत्तिकम् । श्लैष्मिकम् ॥ सन्निपाताच्चेति वक्तव्यम् ॥ * ॥ सान्निपातिकम् ॥ गोद्व्यचोसंख्यापरिमाणाश्वादेर्यत् ॥ ३९ ॥ गोशब्दाद् द्व्यचश्च प्रातिपदिकात्संख्यापरिमाणाश्वादिविवर्जिताद्यत् प्रत्ययो भवति तस्य निमित्तं संयोगोत्पातावित्येतस्मिन्नर्थे । ठञादीनामप- वादः । गोर्निमित्तं संयोग उत्पातो वा, गव्यः । द्व्यचः खल्वपि । धन्यम् । स्वर्ग्यम् । यशस्यम् । आयुष्यम् । असंख्यापरिमाणाश्वादेरिति किम् । पञ्चानां निमित्तं पञ्चकम् । सप्तकम् । अष्टकम् । परिमाण । प्रास्थिकम् । खारीकम् । अश्वादिः । आश्विकः ॥ ब्रह्मवर्चसादुपसंख्यानम् ॥ * ॥ ब्रह्मवर्चसस्य निमित्तं गुरुणा संयोगः, ब्रह्मवर्चस्यम् । अश्व । अश्मन् । गण । ऊर्वा । उमा । वसु । वर्ष । मधु । अश्वादिः ॥ पुत्राच्छ च ॥ ४० ॥ पुत्रशब्दाच्छः प्रत्ययो भवति चकाराद्यच्च तस्य निमित्तं संयोगोत्पाता-