काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 404, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ५ । १ ॥ ४०३ किम् । गुणद्रव्य*तुल्ये मा भूत । पुत्रेण सह स्थूलः । पुत्रेण तुल्यः पिङ्गलः । पुत्रेण तुल्यो गोमान् † ॥ तत्र तस्येव ॥ ११६ ॥ तत्रेति सप्तमीसमर्थात् तस्येति षष्ठीसमर्थाच्च इवार्थे वतिः प्रत्ययो भवति । मथुरायामिव, मथुराशत् स्रुघ्ने प्राकारः ‡ । पाटलिपुत्रवत्साकेते परिखा । षष्ठी- समर्थात् । देवदत्तस्येव देवदत्तवद् यज्ञदत्तस्य गावः । यज्ञ, दत्तस्येव देवदत्तस्य दन्ताः यज्ञदत्तवत् § ॥ तदर्हम् ॥ ११७ ॥ तदिति द्वितीयासमर्थादर्हमित्येतस्मिन्नर्थे वतिः प्रत्ययो भवति । राजा- नमर्हति, राजवत्पालनम् । ब्राह्मणवत् । ऋषिवत् । क्षत्रियवत् ॥ उपसर्गाच्छन्दसि धात्वर्थे ॥ ११८ ॥ उपसर्गात्साधने धात्वर्थे वर्तमानात्साध्वर्थे वतिः प्रत्ययो भवति छन्दसि विषये । यदुद्वतो निवतो यासि वप्सद्, उद्वतानि निगतानि च ॥ तस्य भावस्त्वतलौ ॥ ११९ ॥ तस्येति षष्ठीसमर्थाद् भाव इत्येतस्मिन्नर्थे त्वतलौ प्रत्ययौ भवतः ॥ भवतोऽस्मादभिधानप्रत्ययाविति भावः । शब्दस्य प्रवृत्तिनिमित्तं भावशब्देनो- च्यते । अश्वस्य भावो, ऽश्वत्वम् । अश्वता । गोत्वम् । गोता ॥ आ च त्वात् ॥ १२० ॥ ब्रह्मभ्रूणस्त्व इति वक्ष्यति । आ .एतस्मात्त्वसंज्ञकशब्दाद् , यदित ऊर्ध्वमनु- क्रमिष्याम,स्तत्र त्वतलौ प्रत्ययावधिकृतौ वेदितव्यौ । वक्ष्यति । पृथ्वादिभ्य इमनिज्स्वेति । प्रथिमा । पार्थवम् । पृथुत्वम् । पृथुता । म्रदिमा । मार्दवम् । मृदुत्वम् । मृदुता । अपवादैः सह समावेशार्थं वचनम् । कर्मणि च विधानार्थे गुणवचनब्राह्मणादिभ्यः कर्मणि चेति । चकारो नञ्स्नभ्यामपि समावेशार्थः । स्त्रियाः भावः, स्त्रैणम् । स्त्रीत्वम् । स्त्रीता । पुंसो भावः, पुंस्त्वम् । पुंस्ता । पौंसम् ॥ न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटबुध- कतरसलवेभ्यः ॥ १२१ ॥ इत उत्तरे ये भावप्रत्ययास्ते नञ्पूर्वात्तत्पुरुषाच्च भवन्ति चतुरादीन्वर्ज- * द्रव्येति बहुषु पुस्तकेषु नास्ति । † पुत्रेण तुल्यो गोमानिति बहुषु पुस्तकेषु नास्ति । ‡ प्रासाद इति पा० २ । § देवदत्तवद्यज्ञदत्तस्य दन्ता इति पा० २ ।