भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 403, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 403

४०२ ॥ काशिका ॥ ५ ॥ १ ॥

अनुप्रवचनादिभ्यः प्रातिपदिकेभ्यश्छः प्रत्ययो भवति तदस्य प्रयोजन- मित्यस्मिन्विषये। ठञोऽपवादः। अनुप्रवचनं प्रयोजनमस्य, अनुप्रवचनीयम्। उत्थापनीयम् ॥ विशिपूरिपतिदृहि*प्रकृतेरनात्पूर्वपदादुपसंख्यानम् ॥ * ॥ गृह- प्रवेशनं प्रयोजनमस्य, गृहप्रवेशनीयम्। प्रपापूरणीयम्। अश्वप्रपतनीयम्। प्रासादारोहणीयम् ॥ स्वर्गादिभ्यो यद्वक्तव्यः ॥ * ॥ स्वर्गः प्रयोजनमस्य, स्वर्यम्। यशस्यम्। आयुष्यम्। काम्यम्। धन्यम् ॥ पुण्याहवाचनादिभ्यो लुग्वक्तव्यः ॥

  • ॥ पुण्याहवाचनं प्रयोजनमस्य, पुण्याहवाचनम्। स्वस्तिवाचनम्। शान्तिवा- चनम्। अनुप्रवचन। उत्थापन। प्रवेशन। अनुप्रवेशन। उपस्थापन। संवेशन। अनुवेशन। अनुवचन। अनुवादन। अनुवासन। आरम्भण। आरोहण। प्ररो- हण। अन्वारोहण। अनुप्रवचनादिः ॥ समापनात्सपूर्वपदात् ॥ ११२ ॥ समापनशब्दात्सपूर्वपदाद्विद्यमानपूर्वपदाच्छः प्रत्ययो भवति तदस्य प्रयोजनमित्येतस्मिन्विषये। ठञोऽपवादः। छन्दस्समापनं प्रयोजनमस्य छन्दः- समापनीयम्। व्याकरणसमापनीयम्। पदग्रहणं बहुपूर्वपद्निरासार्थम् ॥ ऐकागारिकट् चौरे ॥ ११३ ॥ ऐकागारिकट् इति निपात्यते चौरेऽभिधेये। एकागारं प्रयोजनमस्य, ऐकागारिकः चौरः। ऐकागारिकी। किमर्थमिदं निपात्यते। यावता प्रयोजन- मित्येव सिद्धश्छञ्। चौरे नियमार्थं वचनम्। इह मा भूत्। एकागारं प्रयोज- नमस्य भिक्षोरिति। टकारः कार्यावधारणार्थः। ङीबेव भवति, न ञित्स्वर इति। अपरे पुनरिकट् प्रत्ययं वृद्धिं च निपातयन्ति ॥ आकालिकडाद्यन्तवचने ॥ ११४ ॥ आकालिकड् इति निपात्यते आद्यन्तवचने। समानकालशब्दस्याका- लशब्द आदेशः। चाद्यन्तयोश्चैतद्विशेषणम्। इकट् प्रत्ययश्च निपात्यते। समा- नकालावाद्यन्तावस्य, आकालिकः स्तनयित्नुः। आकालिकी विद्युत्। जन्मना तुल्यकालविनाशा। उत्पत्त्यानन्तरं विनाशीत्यर्थः ॥ आकालाट् ठंश्च, ॥ * ॥ वात् ठञ् च। आकालिका विद्युत्। ठञः पूर्वेावधिः ॥ तेन तुल्यं क्रिया चेद्वतिः ॥ ११५ ॥ तेनेति तृतीयासमर्थात्सुल्यमित्यर्थे वतिः प्रत्ययो भवति यत्तुल्यं क्रिया चेत्सा भवति। ब्राह्मणेन तुल्यं वर्तते, ब्राह्मणवत्। राजवत्। क्रियाग्रहणं

  • दृहेरित्यस्याग्रे पठतीत्यधिकं, प्रपद्नीयमित्युदाहरणं चाधिकमेकस्मिन्पुस्तके। परं तु पदमञ्जर्यसंमतस्तस्य पाठः। भाष्यपुस्तकेषु तु विशिपूरिपतीत्येव पाठ उपलभ्यते।