काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 402, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ५ । १ ॥ ४०१ यत्प्रथमासमर्थं प्राप्तं चेद्भवति । समयः प्राप्तो ऽस्य, सामयिकं कार्यम् । उपनतकालमित्यर्थः । समर्थविभक्तिनिर्देशउत्तरार्थः ॥ ऋतोरण् ॥ १०५ ॥ तदस्य प्राप्तमित्यनुवर्त्तते । ऋतुशब्दात्तदिति प्रथमा समर्थाद् अस्येति षष्ठ्यर्थे ऽण् प्रत्ययो भवति तदस्य प्राप्तमित्येतस्मिन् विषये * । ऋतुः प्राप्तो ऽस्य, आर्त्तवं पुष्पम् ॥ तदस्य प्रकरणे उपवस्त्रादिभ्य उपसंख्यानम् ॥ * ॥ उप- वस्त्रा प्राप्तो ऽस्य औपवस्त्रम् । प्राशिता प्राप्तोस्य प्राशित्रम् ॥ छन्दसि घस् ॥ १०६ ॥ ऋतुशब्दाच्छन्दसि विषये घस् प्रत्ययो भवति तदस्य प्राप्तमित्यस्मि- न्विषये । अणोऽपवादः । अयं ते योनिर्ऋत्वियः ॥ कालाद्यत् ॥ १०७ ॥ कालशब्दाद्यत्प्रत्ययो भवति तदस्य प्राप्तमित्यस्मिन्विषये । कालः प्राप्तोस्य काल्यस्तापः । काल्यं शीतम् † ॥ प्रकृष्टे ठञ् ॥ १०८ ॥ कालादित्येव, तदस्येति च । प्राप्तमिति निवृत्तम् । प्रकर्षेण कालो विशेष्यते । प्रकर्षे वर्त्तमानात्कालात्प्रथमासमर्थादस्येति षष्ठ्यर्थे ठञ् प्रत्ययो भवति । प्रकृष्टो दीर्घः कालोस्य, कालिकमृणम् । कालिकं वैरम् । ठञ्ग्रहणं विस्पष्टार्थम् ॥ प्रयोजनम् ॥ १०९ ॥ तदस्येत्येव । तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठञ् प्रत्ययो भवति यत्प्रथमासमर्थं प्रयोजनं चेत्तद्भवति । इन्द्रमहः प्रयोजनमस्य, ऐन्द्रमहिकम् माहार्महिकम् ॥ विशाखाषाढादण्डमन्थयदण्डयोः ॥ ११० ॥ विशाखाषाढाशब्दाभ्यामण् प्रत्ययो भवति तदस्य प्रयोजनमित्येत- स्मिन्विषये यथासंख्यं मन्थदण्डयोरभिधेययोः । विशाखा प्रयोजनमस्य, वैशाखो मन्थः । आषाढो दण्डः ॥ चूडादिभ्य उपसंख्यानम् ॥ * ॥ चूडा प्रयोजनमस्य चौडम् । श्रुतुः प्रयोजनमस्य, श्राद्धम् ॥ अनुप्रवचनादिभ्यश्छः ॥ १११ ॥
- ऋतुशब्दात्प्रथमासमर्थात्प्राप्तोपाधिकादस्येति षष्ठ्यर्थे ऽण् प्रत्ययो भवति । पा० २ अयमेव च पाठो युक्तः । † शीतम् । वा० २ । २६