काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 428, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ५ । २ ॥ ४२७ भूमनिन्दाप्रशंसासु नित्ययोगे ऽतिशायने । संसर्गे ऽस्तिविवक्षायां भवन्ति मतुबादयः ॥ भूम्नि तावत् । गोमान् । निन्दायाम् । कुष्ठी । ककुदावर्त्तिनी । प्रशंसा- याम् । रूपवती कन्या । नित्ययोगे । क्षीरिणो वृक्षाः । अतिशायने । उदरिणी कन्या । संसर्गे । दण्डी । छत्री । अस्तिविवक्षायाम् । अस्तिमान् ॥ गुणवचनेभ्यो मतुपो लुग्वक्तव्यः ॥ * ॥ शुक्लो गुणोस्यास्ति, शुक्लः पटः । कृष्णः । श्वेतः ॥ रसादिभ्यश्च ॥ ९५ ॥ रसादिभ्यः प्रातिपदिकेभ्यो मतुप् प्रत्ययो भवति, तदस्यास्त्यस्मिन्नित्ये- तस्मिन्विषये । रसवान् । रूपवान् । किमर्थमिदमुच्यते, न पूर्वसूत्रेणैव मतुप् सिद्धः । रसादिभ्यः पुनर्वचनमन्यनिवृत्त्यर्थम् । अन्येमत्वर्थीया मा भूवन्निति । कथं रूपिणी कन्या । रूपिको दारकः । प्रायिकमेतद्वचनम् । इतिकरणो विष- यार्थो ऽनुवर्त्तते । अथ वा मुखादित्यत्र पठ्यते । तेन ये रसनेन्द्रियादिग्राह्या गुणास्तेषामत्र पाठः । इह मा भूत्, रूपिणी, रूपिक इति, शोभायोग्यता गम्यते । रसिको नट इत्यत्र भावयोगः । रस । रूप । गन्ध । स्पर्श । शब्द । स्नेह । गुणात् । एकाचः । गुणग्रहणं रसादीनां विशेषणम् ॥ प्राणिस्थादातो लजन्यतरस्याम् ॥ ९६ ॥ प्राणिस्थवाचिनः शब्दादाकारान्ताल्लच् प्रत्ययो भवत्यन्यतरस्यां मत्वर्थे । चूडालः । चूडावान् । कर्णिकालः । कर्णिकावान् । प्राणिस्थादिति किम् । शिखावान्प्रदीपः । आदिति किम् । हस्तवान् । पादवान् ॥ प्राण्यङ्गादिति वक्तव्यम् ॥ * ॥ इह मा भूत् । चिकीर्षा ऽस्यास्ति, जिहीर्षा ऽस्यास्ति, चिकी- र्षावान्, जिहीर्षावान् । प्रत्ययस्वरेणैवान्तोदात्तत्वे सिद्धे चकारश्चूढालोऽसीत्यत्र स्वरितो वा ऽनुदात्ते पदादाविति स्वरितबाधनार्थः ॥ सिध्मादिभ्यश्च ॥ ९७ ॥ लजन्यतरस्यामिति वर्त्तते । सिध्मादिभ्यः प्रातिपदिकेभ्यो लच् प्रत्ययो भवत्यन्यतरस्यां मत्वर्थे । सिध्मलः । सिध्मवान् । गडुलः । गडुमान् अन्यतर- स्यांग्रहणेन मतुप्समुच्चीयते, न तु प्रत्ययो विकल्प्यते । तस्मादकारान्तेभ्य इनि- ठनौ प्रत्ययौ न भवतः । सिध्म । गडु । मणि । नाभि । जीव । निष्पाव । पांसु । सक्तु । हनु । मांस । परशु ॥ पार्श्वाधमन्योर्दीर्घश्च । पार्श्वोलः । धमनीलः । पर्यश्व । उदक । प्रज्ञा । मण्ड । पार्श्व । गण्ड । ग्रन्थि ॥ वातद- न्तबलललाटगलानामुट् च * ॥ वातूलः । दन्तूलः । बलूलः । ललाटूलः ।
- वातदन्तेति गवासूत्रे मत्वेति, तदुदाहरणं गमूत इति च पुस्तकान्तरे, पदमञ्जर्य्यां च नास्ति ।