काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 427, कुल 828 में से
संदर्भ में पढ़ें४२६ ॥ काशिका ॥ ५ ॥ २ ॥ साक्षाच्छब्दो ऽव्ययम् । तस्मादिनिः प्रत्ययो भवति द्रष्टरि वाच्ये । संज्ञाग्रहणमभिधेयनियमार्थम् । साक्षाद् द्रष्टा साक्षी । साक्षिणौ । साक्षिणः । संज्ञाग्रहणादुपद्रष्टैवोच्यते न दाता ग्रहीता वा ॥ क्षेत्रियच् परक्षेत्रे चिकित्स्यः ॥ ९२ ॥ क्षेत्रियञिति निपात्यते । परक्षेत्रे चिकित्स्य इत्येतस्मिन् वाक्यार्थे पदवो- चनम् । परक्षेत्राद्वा तत्रेति सप्तमीसमर्थात् चिकित्स्य इत्येतस्मिन्नर्थे घच् प्रत्ययः परशब्दलोपश्च निपात्यते । परक्षेत्रे चिकित्स्यः, क्षेत्रियो व्याधिः । क्षेत्रियं कुष्ठम् । परक्षेत्रं जन्मान्तरशरीरम् । तत्र चिकित्स्यः क्षेत्रियः । असाध्य- ऽप्रत्याख्येयो व्याधिरुच्यते । नामृतस्य निवर्त्ततइत्यर्थः । अथ वा क्षेत्रियं विषम् यत्परक्षेत्रे परशरीरे संक्रमय्य चिकित्स्यते । अथ वा क्षेत्रियाणि तृणानि । यानि सस्यार्थे क्षेत्रे जातानि चिकित्स्यानि नाशयितव्यानि । अथ वा क्षेत्रियः पारदा- रिकः । परदाराः परक्षेत्रं, तत्र चिकित्स्यः निग्रहीतव्यः । सर्वे चैतन्मयायाम् ॥ इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्र- जुष्टमिन्द्रदत्तमिति वा ॥ ९३ ॥ इन्द्रियमित्यान्तोदात्तं शब्दरूपं निपात्यते । रूढिरेषा चक्षुरादीनां कर- णानां, तथा च व्युत्पत्तेर्नियमं दर्शयति । इन्द्रशब्दात्षष्ठीसमर्थाल्लिङ्गमित्ये- तस्मिन्नर्थे घच्प्रत्ययो । भवति । इन्द्रस्य लिङ्गमिन्द्रियम् । इन्द्र आत्मा स रादिना करणेनानुमीयते । नाकत्तृकं करणमस्ति । इन्द्रेण दृष्टम् । तृतीयासं- मर्थात्प्रत्ययः । आत्मना दृष्टमित्यर्थः । इन्द्रेण सृष्टम् । आत्मना सृष्टम् । तेन शुभाशुभेन कर्मणोत्पद्यमिति कृत्वा । इन्द्रेण जुष्टम् । आत्मना जुष्टं सेवितं तद्द्वारेण विज्ञानात्पादनाद् । इन्द्रदत्त,मात्मना विषयेभ्यो दत्तं यर्थं ग्रहणाय । इतिकरणः प्रकारार्थः । सति संभवे व्युत्पत्तिरन्यथापि कर्त्तव्या रूढेर्नियमादिति । वाशब्दः प्रत्येकमभिसंबध्यमानो विकल्पानां स्वातन्त्र्यं दर्शयति ॥ तदस्यास्त्यस्मिन्निति मतुप् ॥ ९४ ॥ तदिति प्रथमा समर्थविभक्तिः । अस्यास्मिन्निति प्रत्ययार्थैः, चास्तीति प्रकृतिविशेषणम् । इतिकरणो विवक्षार्थः तदितिप्रथमासमर्थादस्येति ऽस्मिन्निति सप्तम्यर्थे वा मतुप् प्रत्ययो भवति, यत्तत्प्रथमासमर्थमस्ति वति । अस्त्यर्थोपाधिकं चेत्तद्भवतीत्यर्थः । इतिकरणस्तत्त्वेनेतिवक्ता । गावो ऽस्य सन्ति, वृक्षा अस्मिन्सन्ति, गोमान्देवदत्तः । वृक्षवान्पर्वतः । यवमान् प्रस्थवान् । इतिकरणाद्विषयनियमः ।