काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 429, कुल 828 में से
संदर्भ में पढ़ें४२८ ॥ काशिका ॥ ५ ॥ २ ॥ गलूलः ॥ जटाघटाकालाः क्षेपे ॥ जटालः । घटालः । सक्थि । कर्ण । स्नेह । शीत । श्याम । पिङ्ग । पित्त । शुष्क । पृथु । मृदु । मज्जु । पत्र । चटु कपि । कण्डु । संज्ञा ॥ क्षुद्रजन्तूपतापाच्चेष्यते ॥ क्षुद्रजन्तुः । यूकालः । मक्षि- कालः ॥ उपतापाच्च ॥ विचर्चिकालः । विपादिकालः । मूर्च्छालः । सिध्मादिः वत्सांसाभ्यां कामबले ॥ ९८ ॥ वत्सांसशब्दाभ्यां लच्प्रत्ययो भवति यथासंख्यं कामवति बलवति चार्थे वत्सलः । अंसलः । वृत्तिविषये वत्सांसशब्दौ स्वभावात्कामबलयोर्वर्तेते तद्गुति प्रत्ययमुत्पादयतः । नह्यत्र वत्सार्थो ऽसार्थो वा विद्यते, वत्सल इति स्नेहवानुच्यते । वत्सलः स्वामी । वत्सलः पितेति । अंसल इति चोपचित- मांसो बलवानुच्यते । न चायमर्थो मतुपि संभवतीति नित्यं लजेव भवति अन्यत्रांसवती गौः । अंसवान् दुर्बलः ॥ फेनादिलच्च ॥ ९९ ॥ फेनशब्दादिलच् प्रत्ययो भवति मत्वर्थे । चकाराल्लच्च । अन्यतरस्यां ग्रहणं मतुप्समुच्चयार्थं सर्वत्रैवानुवर्त्तते । फेनिलः । फेनलः । फेनवान् ॥ लोमादिपामादिपिच्छादिभ्यः शनेलचः ॥ १०० ॥ लोमादिभ्यः पामादिभ्यः पिच्छादिभ्यश्च त्रिभ्यो गणेभ्यो यथासंख्यं श न इलच् इत्येते प्रत्यया भवन्ति मत्वर्थे, मतुप् च । लोमादिभ्यः शो भवति लोमशः । लोमवान् । पामादिभ्यो नो भवति । पामनः । पामवान् । पिच्छा- दिभ्य इलच् भवति । पिच्छिलः । पिच्छवान् । उरसिलः । उरस्वान् । लोमन् रोमन् । वल्गु । बभ्रु । हरि । कपि । शुनि । तरु । लोमादिः ॥ पामन् । वामन् हेमन् । श्लेष्मन् । कटु । बलि । श्रेष्ठ । पलल । सामन् । अङ्गात्कल्याणे शाकी पलाली दद्रूवां ह्रस्वत्वं च ॥ विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः लस्य ऋच्च ॥ पामादिः ॥ पिच्छ । उरस् ध्रुवका । तुवका ॥ जटाघटाकालात्क्षेपे वर्णे । उदक । पङ्क । प्रज्ञा । पिच्छादिः ॥ प्रज्ञाश्रद्धाऽर्चावृत्तिभ्यो णः ॥ १०१ ॥ प्रज्ञा श्रद्धा ऽर्चा वृत्ति इत्येतेभ्यो णः प्रत्ययो भवति मत्वर्थे । मतुप् चैव समुच्चीयते । प्राज्ञः । प्रज्ञावान् । श्राद्धः । श्रद्धावान् । आर्चः । अर्च्चावान् वार्त्तः । वृत्तिमान् ॥ तपःसहस्राभ्यां विनीनी ॥ १०२ ॥ तपःसहस्रशब्दाभ्यां विनि इनि इत्येतौ प्रत्ययौ भवतो मत्वर्थे ॥ -- यार्थयोस्तु यथासंख्यं सर्वत्रैवास्मिन् प्रकरणे नेष्यते ॥ तपो ऽस्यास्तिन्