काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 430, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ५ ॥ २ ॥ ३२९ विद्यन्ते, तपस्वी । सहस्री । असन्तत्वाददन्तत्वाच्च सिद्धे प्रत्यये पुनर्वचनमण्बा- ध्यमानेन बाधा मा भूदिति । सहस्रात्तु ठन्नपि बाध्यते ॥ अण् च ॥ १०३ ॥ तपःसहस्राभ्यामण्प्रत्ययो भवति । तापसः । साहस्रः । योगविभाग उत्तरार्थो, यथासंख्यौर्थश्च ॥ अण्प्रकरणे ज्योत्स्नादिभ्य उपसंख्यानम् ॥ * ॥ ज्योत्स्ना विद्यन्ते । ऽस्मिन्नर्थे, ज्योत्स्नः पक्षः । तामिस्रः । कौण्डिनः । कौतपः । वैसर्पः । वैयादिकः ॥ सिकताशर्कराभ्यां च ॥ १०४ ॥ सिकताशर्कराभ्यामण्प्रत्ययो भवति मत्वर्थे । सैकतो घटः । शार्करं मधु । अदेश इहोदाहरणम् । देशे तु लुबिलचौ भविष्यतः ॥ देशे लुबिलचौ च ॥ १०५ ॥ सिकताशर्कराभ्यां देशे ऽभिधेये लुबिलचौ भवतः । चकारादण् च, मतुप् च । कस्य पुनरयं लुप् । मतुबादीनामन्यतमस्य, विशेषाभावात् । सिकता अस्मिन्विद्यन्ते सिकता देशः । सिकतिलः । सैकतः । सिकतावान् । शर्करा देशः । शर्करिलः । शार्करः । शर्करावान् । देशइति किम् । सैकतो घटः । शार्करं मधु ॥ दन्त उन्नत उरच् ॥ १०६ ॥ उन्नत इति प्रकृतिविशेषणम् । दन्तशब्दादुन्नतोपाधिकादुरच् प्रत्ययो भवति मत्वर्थे । दन्ता उन्नता चास्य सन्ति, दन्तुरः । उन्नत इति किम् । दन्तवान् ॥ ऊषसुषिमुष्कमधो रः ॥ १०७ ॥ ऊष सुषि मुष्क मधु इत्येतेभ्यो रः प्रत्ययो भवति मत्वर्थे । ऊषरं क्षेत्रम् । सुषिरं काष्ठम् । मुष्करः पशुः । मधुरो गुडः ॥ इतिकरणो विवक्षार्थः सर्वत्रा- भिधेयनियमं करोति । इह न भवति । ऊषो ऽस्मिन् घटे विद्यते मध्वस्मि- न्घटे विद्यते इति ॥ रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम् ॥ * ॥ खमस्यास्ति कण्ठविवरं महत्, खरः । मुखमस्यास्तीति सर्वस्मिन्वक्तव्ये, मुखरः । कुञ्जावप्य- स्तः कुञ्जरः । हस्तिहनू कुञ्जशब्देनोच्येते ॥ नगपांसुपाण्डुभ्यश्चेति वक्तव्यम् ॥ * ॥ नगरम् । पांसुरम् । पाण्डुरम् ॥ कच्छा ह्रस्वत्वं च ॥ * ॥ कच्छुरम् ॥ कुद्रुभ्यां मः ॥ १०८ ॥ कुद्रुशब्दाभ्यां मः प्रत्ययो भवति मत्वर्थे कुमः । द्रुमः । रूढिशब्दा- वेतौ । रूढिषु च न मतुब्विकल्प्यते ॥