काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 437, कुल 828 में से
संदर्भ में पढ़ें४३६ ॥ काशिका ॥ ५ ॥ ३ ॥ अहमिति शब्दान्तरमहंकारे वर्तते, शुभमित्यव्ययं शुभपर्याय,स्ताभ्यां युस्प्रत्ययो भवति मत्त्वर्थे। सकारः पदसंज्ञार्थः। अहंयुः। अहंकारवानित्यर्थः। शुभंयुः । कल्याणवानित्यर्थः ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमस्याध्यायस्य द्वितीयः पादः ॥ ॥ अथ पञ्चमाध्यायस्य तृतीयः पादः ॥ प्राग्दिशो विभक्तिः ॥ १ ॥ दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्य इति वक्ष्यति, प्रागेतस्माद्दिक्शं- ब्दानाख्यानादित ऊर्ध्वमनुक्रमिष्यामो विभक्तिसंज्ञास्ते वेदितव्याः । वक्ष्यति । पञ्च- म्यास्तसिल् । ततः । यतः । कुतः । तसिलादीनां विभक्तित्वे प्रयोजनं त्यदा- दिविधयः, इदमो विभक्तिस्वरश्च । इह । उँडिदमिति विभक्त्युदात्तत्वं सिद्धं भवति । इतः परं स्वार्थिकाः प्रत्ययास्तेषु समर्थाधिकारः प्रथमाग्रहणं च प्रति- योग्यपेक्षत्वाच्चोपयुज्यतइति निवृत्तम् । वावचनमनुवर्त्ततएव, तेन विकल्पेन तसिलादयो भवन्ति । कुतः । कस्मात् । कुत्र । कस्मिन्निति ॥ किंसर्वनामबहुभ्यो ऽद्व्यादिभ्यः ॥ २ ॥ प्राग्दिश इत्येव । किमः सर्वनाम्नो बहुशब्दाच्च प्राग्दिशः प्रत्यया वेदि- तव्याः । सर्वनामत्वात्प्राप्ते ग्रहणे द्व्यादिपर्युदासः क्रियते । कुतः । कुत्र । यतः । यत्र । ततः । तत्र । बहुत्तः । बहुत्र । अद्व्यादिभ्य इति किम् । द्वाभ्याम् । द्वयोः । प्रकृतिपरिसंख्यानं किम् । वृत्तात् । वृत्ते । प्राग्दिश इत्येव । वैयाकर- णपाशः । सर्वनामत्वादेव सिद्धे किमो ग्रहणं द्व्यादिपर्युदासात् ॥ बहुग्रहणे संख्याग्रहणम् ॥ * ॥ इह न भवति । बहोः सूपात् । बहौ सूपइति ॥ इदम इश् ॥ ३ ॥ प्राग्दिश इत्येव । इदम इश् इत्ययमादेशो भवति प्राग्दिशीयेषु प्रत्य- येषु परतः । शकारः सर्वादेशार्थः । इह ॥ एतेतौ रथोः ॥ ४ ॥ रेफथकारादौ प्राग्दिशीये प्रत्यये परत इदम एतेतावादेशौ भवतः । इशो- पवादः । रेफे ऽकार उच्चारणार्थः । इदमो र्हिल् । एतर्हि । इदमस्थमुः । इत्थम् ॥ एतदोऽन् ॥ ५ ॥