काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 438, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ५ ॥ ३ ॥ ४३७ प्राग्दिशइत्येव । एतदः प्राग्दिशीये परतो ऽशित्ययमादेशो भवति । शकारः सर्वादेशार्थः । अतः । अत्र । एतद् इति योगविभागः कर्त्तव्यः । एतदो रथोः परत एत इत् इत्येतावादेशौ भवतः । एतर्हि । इत्थम् । रेफादिरनद्य- तने र्हिलन्यतरस्यामिति विद्घातएव । थमुप्रत्ययः पुनरेतद् उपसंख्येयः ॥ सर्वस्य सो ऽन्यतरस्यां दि ॥ ६ ॥ सर्वस्य स इत्ययमादेशो भवति प्राग्दिशीये दकारादौ प्रत्यये परतो ऽन्यतरस्याम् । सर्वदा । सदा । प्राग्दशीयइत्येव । सर्वं ददातीति सर्वदा ब्राह्मणी ॥ पञ्चम्यास्तसिल् ॥ ७ ॥ पञ्चम्यन्तेभ्यः किंसर्वनामबहुभ्यस्तसिल्प्रत्ययो भवति । कुतः । यतः । ततः । बहुतः । तसेश्च ॥ ८ ॥ प्रतियोगे पञ्चम्यास्तसिः, अपादाने चाहीयरुहोरिति वक्ष्यति । तस्य तसेः किंसर्वनामबहुभ्यः परस्य तसिलादेशोभवति । कुत आगतः । यतः । ततः । बहुत आगतः । तसेस्तसिल्वचनं स्वरार्थं विभक्त्यर्थं च ॥ पर्यभिभ्यां च ॥ ९ ॥ परि अभि इत्येताभ्यां तसिल् प्रत्ययो भवति ॥ सर्वोभयार्थे वर्त्तमानाभ्यां प्रत्यय इष्यते ॥ परितः सर्वत इत्यर्थः । अभितः । उभयत इत्यर्थः ॥ सप्तम्यास्त्रल् ॥ १० ॥ किंसर्वनामबहुभ्यः सप्तम्यन्तेभ्यः त्रल् प्रत्ययो भवति । कुत्र । तत्र । बहुत्र ॥ इदमो हः ॥ ११ ॥ इदमः सप्तम्यन्ताद्धः प्रत्ययो भवति । त्रलो ऽपवादः । इह ॥ किमो ऽत् ॥ १२ ॥ किमः सप्तम्यन्तादत्प्रत्ययो भवति । त्रलो ऽपवादः । क्व भोक्ष्यसे । क्वाध्येष्यसे । त्रलमपि के चिदिच्छन्ति । कुत्र । तत्कथ, मुत्तरसूत्राद्वावचनं पुरस्तादपकृष्यते ॥ वा ह च्छन्दसि ॥ १३ ॥ किमः सप्तम्यन्ताद्वा हः प्रत्ययो भवति छन्दसि विषये । यथाप्राप्तं च । क्व । कुह । कुत्र चिदस्य सा दूरे क्व ब्राह्मणस्य चावकाः ॥