काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 439, कुल 828 में से
संदर्भ में पढ़ें४३८ ॥ काशिका ॥ ५ ॥ ३ ॥ इतराभ्योऽपि दृश्यन्ते ॥ १४ ॥ सप्तमीपञ्चम्यपेक्षमितरत्वम् । इतराभ्यो विभक्तिभ्यस्तसिलादयो दृश्यन्ते । दृशिग्रहणं प्रायिकविध्यर्थं, तेन भवदादिभिर्योग एवैतद्विधानम् । के पुनर्भवदादयः । भवान्दीर्घायुरायुष्मान् देवानांप्रिय इति । स भवान् । ततो भवान् । तत्र भवान् । तं भवन्तम् । तत्र भवन्तम् । ततो भवन्तम् । तेन भवता । तत्र भवता । ततो भवता । तस्मै भवते । ततो भवते । तत्र भवते । तस्माद्भवतः । ततो भवतः । तत्र भवतः । तस्य भवतः । ततो भवतः । तत्र भवतः । तस्मिन् भवति । ततो भवति । तत्र भवति । एवं दीर्घायुष्प्र- भृतिष्वप्युदाहार्यम् ॥ सर्वेकान्यकिंयत्तदः काले दा ॥ १५ ॥ सप्तम्या इति वर्तते, न त्वितराभ्य इति । सर्वादिभ्यः प्रातिपदिकेभ्यो दा प्रत्ययो भवति । त्रलोपवादः । सर्वस्मिन्काले, सर्वदा । एकदा । अन्यदा । कदा । तदा । काले इति किम् । सर्वत्र देशे ॥ इदमो हिँल् ॥ १६ ॥ सप्तम्या इत्येव । काल इति च । इदमः सप्तम्यन्तात्काले वर्तमानाद् हिँल् प्रत्ययो भवति । हस्यापवादः । लकारः स्वरार्थः । अस्मिन् काले, एतर्हि । कालेत्येव । इह देशे ॥ अधुना ॥ १७ ॥ अधुनेति निपात्यते । इदमो ऽश्भावो धुना च प्रत्ययः । अस्मिन्काले, अधुना ॥ दानीं च ॥ १८ ॥ इदमः सप्तम्यन्तात्काले वर्तमानाद्द्दानीं प्रत्ययो भवति । अस्मिन्काले, इदानीम् ॥ तदो दा च ॥ १९ ॥ तदः सप्तम्यन्तात्काले वर्तमानाद् दा प्रत्ययो भवति, चकाराद्द्दानीं च । तस्मिन्काले, तदा । तदानीम् । तदो दावचनमनर्थकं, विहितत्वात् ॥ तयोर्दाहिँलौ चच्छन्दसि ॥ २० ॥ तयोरिति प्रातिपदिकनिर्देशः । तयोरिदमः तदश्च यथासंख्यं दाहिँलौ प्रत्ययौ भवतश्छन्दसि विषये । चकाराद्यथाप्राप्तं च । इदावत्सरीमः । इत्थं तर्हि । इदानीम् । तदानीम् ॥