काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 453, कुल 828 में से
संदर्भ में पढ़ें४५२ ॥ काशिका ॥ ५ । ३ ॥ किं यत् तत् इत्येतेभ्यः प्रातिपदिकेभ्यो द्वयोरेकस्य निर्धारणे डतरच् प्रत्ययो भवति । निर्धार्यमाणवाचिभ्यः स्वार्थे प्रत्ययः । जात्या * क्रियया गुणेन वा संज्ञया वा समुदायादेकदेशस्य पृथक्करणं निर्धारणम् । कतरो भवतोः कठः । कतरो भवतोः कारकः । कतरो भवतोः पटुः । कतरो भवतोर्देवदत्तः । यतरो भवतोः कारकः । यतरो भवतोः पटुः । यतरो भवतोर्देवदत्तः । ततर आगच्छतु । महाविभाषया ऽत्र प्रत्ययो विकल्प्यते । को भवतोर्देवदत्तः, स आगच्छतु । निर्धारणइति विषयसप्तमीनिर्देशः । द्वयोरिति समुदायान्निर्धारणविभक्तिः । एकस्येति निर्देशः निर्धार्यमाणनिर्देशः ॥ वा बहूनां जातिपरिप्रश्ने डतमच् ॥ ९३ ॥ कियत्तद् इति वर्तते, निर्धारणे एकस्येति च । बहूनामिति निर्धारणे षष्ठी । बहूनां मध्ये एकस्य निर्धारणे गम्यमाने जातिपरिप्रश्नविषयेभ्यः किमा- दिभ्यः वा डतमच् प्रत्ययो भवति । कतमो भवतां कठः । यतमो भवतां कठः । ततम आगच्छतु । वावचनमकर्तव्यम्, यको भवतां कठः । सक आगच्छतु । महा- विभाषा च प्रत्ययविकल्पार्थानुवर्ततएव । को भवतां कठः । योभवतां कठः । स आगच्छतु । जातिपरिप्रश्नइति किम् । को भवतां देवदत्तः । परिप्रश्नग्रहणं च किम एव विशेषणं, न यत्तदोरसंभवात् । जातिग्रहणं तु सर्वैरेव संबध्यते । किमो ऽस्मिन्विषये डतरमपीच्छन्ति के चित् । कतरो भवतां कठः । कतरो भवतां कालाप इति । तन्न कतरकतमौ जातिपरिप्रश्नइति वचनात्सिद्धम् ॥ एकाच्च प्राचाम् ॥ ९४ ॥ एकशब्दात्प्राचामाचार्याणां मतेन डतरच् डतमच् इत्येतौ प्रत्ययौ भवतः स्वस्मिन्विषये । चकारो डतरचो ऽनुकर्षणार्थः । द्वयोर्निर्धारणे डतरच् । बहूनां निर्धारणे डतमच् । जातिपरिप्रश्नइति नानुवर्तते । सामान्येन विधा- नम् । एकतरो भवतोर्देवदत्तः । एकतमो भवतां देवदत्तः । प्राचांग्रहणं पूजार्थे, विकल्प्यानुवर्तते ॥ अवक्षेपे कन् ॥ ९५ ॥ अवक्षिप्यते येन तदवक्षेपणम् । तस्मिन्वर्तमानात्प्रातिपदिकात्कन्प्र- त्ययो भवति । व्याकरणकेन नाम त्वं गर्वितः । याज्ञिक्यकेन नाम त्वं गर्वितः । परस्य कुत्सार्थे यदुपादीयते तदिहोदाहरणम् । यत्पुनः स्वयमेव कुत्सितं तत्र कुत्सितइत्यनेन कन्प्रत्ययो भवति । देवदत्तको, यज्ञदत्तक इति । प्रागिवीयस्य परो ऽवधिः ॥
- जात्येत्येकस्मिन् पुस्तके नास्ति, कतरो भवतोः कठ इति तदुदाहरणं च । तच्चैव युक्त- म्पदभञ्जन्यां जात्या वेत्यपि दृष्टव्यं, कतरो भवतोः कठ इत्यादेरपि संभवदिति दर्शनात् ।