काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 454, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ५ ॥ ३ ॥ ४५३ इवे प्रतिकृतौ ॥ ९६ ॥ कनित्यनुवर्त्तते । इवार्थे यत्प्रातिपदिकं वर्तते तस्मात्कन् प्रत्ययो भवति इवार्थः सादृश्यं तस्य विशेषणं प्रतिकृतिग्रहणम् । प्रतिकृतिः प्रतिरूपकं प्रतिच्छन्दकम् । अश्व इवायमश्वप्रतिकृतिः, अश्वकः । उष्ट्रकः । गर्दभकः । प्रतिकृताविति किम् । गौरिव गवयः ॥ संज्ञायां च ॥ ९७ ॥ इवेत्यनुवर्त्तते, कनिति च । इवार्थे गम्यमाने कन्प्रत्ययो भवति समु- दायेन चेत् संज्ञा गम्यते । अप्रतिकृत्यर्थ आरम्भः । अश्वसदृशस्य संज्ञा, अश्वकः । उष्ट्रकः । गर्दभकः ॥ लुम्मनुष्ये ॥ ९८ ॥ संज्ञायामित्येव । संज्ञायां विहितस्य कनो मनुष्ये ऽभिधेये लुप् भवति । चञ्चेव मनुष्यः, चञ्चा । दासी । खरकुटी । मनुष्यइति किम् । अश्वकः । उष्ट्रकः । गर्दभकः । देवपथादेराकृतिगणत्वात्तस्यैवायं प्रपञ्चो वेदितव्यः ॥ जीविकार्थे चापण्ये ॥ ९९ ॥ जीविकार्थे यदपण्यं तस्मिनभिधेये कनो लुप् भवति । विक्रीयते यत्तत्पण्यम् । वासुदेवः । शिवः । स्कन्दः । विष्णुः । आदित्यः । देवलका- दीनां जीविकार्थे देवप्रतिकृतय उच्यन्ते । अपण्यइति किम् । हस्तिकान्वि- क्रीणीते । अश्वकान् । रथकान् । देवपथादेरेवायं प्रपञ्चः ॥ देवपथादिभ्यश्च ॥ १०० ॥ इवे प्रतिकृतौ संज्ञायां च विहितस्य कनो देवपथादिभ्य उत्तरस्य लुप् भवति । आदिशब्दः प्रकारे । आकृतिगणश्चायम् । देवपथः । हंसपथः । अर्चासु पूजनार्थासु चित्रकर्मध्वजेषु च । इवे प्रतिकृतौ लोपः कनो देवपथादिषु ॥ अर्चासु तावत् । शिवः । विष्णुः । चित्रकर्मणि । अर्जुनः । दुर्योधनः । ध्वजेषु । कपिः । गरुडः । सिंहः । देवपथ । हंसपथ । वारिपथ । जलपथ । राजपथ । शतपथ । सिंहगति । उष्णग्रीवा । चामरज्जुः । रज्जुः । हस्त । कर्ण । दण्ड । पुष्य । मत्स्य* ॥ वस्तेर्ढञ् ॥ १०१ ॥ इवेत्यनुवर्त्तते, इतः प्रभृति प्रत्ययाः सामान्येन भवन्ति प्रतिकृतौ चाप्रतिकृतौ च । वस्तिशब्दादिवाऽर्थे द्योत्ये ढञ्प्रत्ययो भवति । वस्तिरिव वास्तेयः । वास्तेयी ॥
- रथपथ । ऋजुपथ । सिंहपथ । इत्येते शब्दा अत्र गणेऽधिकाः पुस्तकान्तरे ।