भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 462, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 462

॥ काशिका ॥ ५ ॥ ४ ॥ ४६१

किम्। क्रियामात्रगणने मा भूत्। पञ्चपाकाः। दशपाकाः। गणनग्रहणं किमर्थम्। यावता गणनात्मिकैव संख्या। अक्रियमाणे गणनग्रहणे क्रियाभ्या- वृत्तौ वर्त्तमानेभ्यः संख्योपवचनेभ्य एव प्रत्ययः स्यात्। शतवारान्भुङ्क्ते, शतकृत्व इति। इह न स्यात्। शतं वाराणां भुङ्क्त इति। नह्यत्राभ्यावृत्तौ शतशब्दः। संख्यानमात्रवृत्तित्वात्। गणनग्रहणात्तु सर्वत्र सिद्धं भवति॥ द्वित्रिचतुर्भ्यः सुच्॥ १८॥ द्वि त्रि चतुर् इत्येतेभ्यः संख्याशब्देभ्यः क्रियाभ्यावृत्तिगणने वर्त्तमानेभ्यः सुच् प्रत्ययो भवति। कृत्वसुचो ऽपवादः। द्विर्भुङ्क्ते। त्रिर्भुङ्क्ते। चतुर्भुङ्क्ते। सकारः स्वरार्थः॥ एकस्य सकृच्च॥ १९॥ एकशब्दस्य सकृदित्ययमादेशो भवति सुच्च प्रत्ययः क्रियागणने। कृत्व- सुचो ऽपवादः। अभ्यावृत्तिस्त्विह न संभवति। सकृद्भुङ्क्ते। सकृदधीते। एकः पाक इत्यत्र न भवति, अनभिधानात्॥ विभाषा बहुर्द्धा ऽविप्रकृष्टकाले॥ २०॥ बहुशब्दात् क्रियाभ्यावृत्तिगणने वर्त्तमानात् विभाषा धा प्रत्ययो भवति। कृत्वसुचो ऽपवादः। पक्षे सोऽपि भवति। अविप्रकृष्टग्रहणं क्रियाभ्यावृत्तिविशे- षणम्। क्रियाणामभ्यासाश्चेदासन्नकालाः भवन्ति, न विप्रकृष्टकालाः। बहुधा दिवसस्य भुङ्क्ते। बहुकृत्वो दिवसस्य भुङ्क्ते। अविप्रकृष्टकाल इति किम्। बहु- कृत्वो मासस्य भुङ्क्ते॥ तत्प्रकृतवचने मयट्॥ २१॥ तदिति प्रथमा समर्थविभक्तिः, प्राचुर्येण प्रस्तुतं प्रकृतम्। प्रथमासम- र्थात् प्रकृतोपाधिकेऽर्थे वर्त्तमानात्स्वार्थे मयट् प्रत्ययो भवति। टकारो ङीबर्थः। अन्नं प्रकृतम्, अन्नमयम्। अपूपमयम्। अपरे पुनरेवं सूत्रार्थमाहुः। प्रकृतमित्यु- च्यतेऽस्मिन्निति प्रकृतवचनं, तदिति प्रथमासमर्थात्प्रकृतवचने ऽभिधेये मयट् प्रत्ययो भवति। अन्नं प्रकृतमस्मिन्नन्नमयो यज्ञः। अपूपमयं पर्व। वटकमयी यात्रा। द्वयमपि प्रमाणमुभयथा सूत्रप्रणयनात्॥ समूहवच्च बहुषु॥ २२॥ तत्प्रकृतवचनइत्येव। बहुषु प्रकृतेषूच्यमानेषु समूहवत्प्रत्यया भवन्ति। चकारान्मयट् च। मोदकाः प्रकृताः प्राचुर्येण प्रस्तुताः, मौदकिकम्। मोदक- मयम्। शाष्कुलिकम्। शष्कुलीमयम्। अतिवर्त्तन्तेऽपि स्वार्थिकाः प्रकृतिभ्यो