भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 463, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 463

[header] ४६२ ॥ काशिका ॥ ५ ॥ ४ ॥ [/header]

लिङ्गवचनानि । द्वितीये सूत्रार्थे मोदकाः प्रकृता अस्मिन्यज्ञे, मौदकिको यज्ञः । मोदकमयः । शाष्कुलिकः । शष्कुलीमयः ॥ अनन्तावसथेतिहभेषजाञ् ञ्यः ॥ २३ ॥ अनन्तादिभ्यः स्वार्थे ञ्यः प्रत्ययो भवति । अनन्त एव, आनन्त्यम् । आवसथ एवावसथ्यम् । इति ह, ऐतिह्यम् । निपातसमुदायो ऽयमुपदेशपार- म्पर्ये वर्तते । भेषजमेव, भैषज्यम् । महाविभाषया विकल्प्यते प्रत्ययः ॥ देवतान्तात्तादर्थ्ये यत् ॥ २४ ॥ देवताशब्दान्तात्प्रातिपदिकाच्चतुर्थीसमर्थात्तदर्थ्ये यत् प्रत्ययो भवति । तदर्थ एव तादर्थ्यम् । चातुर्वण्यादित्वात्ष्यञ् । तदिति प्रकृत्यर्थो निर्दिश्यते । अग्निदेवतायै इदम्, अग्निदेवत्यम् । पितृदेवत्यम्