भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 464, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 464

॥ काशिका ॥ ५ ॥ ४ ॥ ४६३ तादर्थ्य इत्येव। अतिथिशब्दाच्चतुर्थीसमर्थात्तादर्थ्ये ऽभिधेये ञ्यः प्रत्ययो भवति। अतिथये इदम्। आतिथ्यम् ॥ देवात्तल् ॥ २७ ॥ तादर्थ्य इति निवृत्तम्। देवशब्दात् स्वार्थे तल् प्रत्ययो भवति। देव एव देवता ॥ अवेः कः २८ ॥ अविशब्दात् स्वार्थे कः प्रत्ययो भवति। अविरेवाविकः ॥ यावादिभ्यः कन् ॥ २९ ॥ याव इत्येवमादिभ्यः स्वार्थे कन् प्रत्ययो भवति। याव एव, यावकः। मणिकः। याव। मणि। अस्थि। चण्ड। पीतस्तम्ब॥ स्नातावुच्छीते॥ पशो लूनविधाने॥ अणु निपुणे॥ पुत्र कृत्रिमे॥ स्नात वेदसमाप्तौ॥ शून्य रिक्ते॥ दानकुत्सिते॥ तनु सूत्रे॥ ईयसश्च॥ श्रेयस्कः। ज्ञात॥ कुमारक्रीडनकानि च॥ लोहितान्मणौ ॥ ३० ॥ लोहितशब्दान्मणी वर्तमानात्स्वार्थे कन् प्रत्ययो भवति। लोहितो मणिः। लोहितकः। मणाविति किम्। लोहितः॥ वर्णे चानित्ये ॥ ३१ ॥ अनित्ये वर्णे वर्तमानाल्लोहितशब्दात्स्वार्थे कन्प्रत्ययो भवति। लोहि- तकः कोपेन। लोहितकः पीडनेन। अनित्य इति किम्। लोहितो गौः। लोहितं रुधिरम्॥ लोहिताल्लिङ्गबाधनं वा वक्तव्यम्॥ * ॥ लोहितिका कोपेन। लोहिनिका कोपेन॥ रक्ते ॥ ३२ ॥ लाक्षादिना रक्ते यो लोहितशब्दस्तस्मात्कन्प्रत्ययो भवति। लोहितकः कम्बलः। लोहितकः पटः। लिङ्गबाधनं वेत्येव। लोहितिका। लोहिनिका शाटी॥ कालाच्च ॥ ३३ ॥ वर्णे चानित्ये रक्तइति द्वयमप्यनुवर्त्तते। कालशब्दादनित्ये वर्त्तमाना- द्रक्ते च कन् प्रत्ययो भवति। कालकं मुखं वैलक्ष्येण। रक्ते। कालकः पटः। कालिका शाटी॥ विनयादिभ्यष्ठक् ॥ ३४ ॥ विनय इत्येवमादिभ्यः स्वार्थे कन् प्रत्ययो भवति। विनय एव, वैन- यिकः। सामयिकः। औपयिकः। विभाषाग्रहणेन विकल्प्यते प्रत्ययः। विनय। समय॥ उपायाद्द्र्ह्रस्वत्वं च॥ संगति। कथंचित्। अकस्मात्। समयाचार।