काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 468, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ५ ॥ ४ ॥ ४६७ रोगाच्चापनयने ॥ ४९ ॥ रोगो व्याधिः । तद्वाचिनः शब्दाद्या षष्ठी विभक्तिः तदन्ताद्वा तसिः प्रत्ययो भवति अपनयने गम्यमाने । अपनयनं प्रतीकारः, चिकित्सेत्यर्थः । प्रवा- हिकातः कुरु । कासतः कुरु । छर्दिकातः कुरु । प्रतीकारमस्याः कुर्वित्यर्थः । अपनयनइति किम् । प्रवाहिकायाः प्रकोपनं कुरु ॥ अभूततद्भावे कृभ्वस्तियोगे संपद्यकर्त्तरि च्विः ॥ ५० ॥ कारकस्य विकाररूपेण भूतस्य तदात्मना भावो ऽभूततद्भावः । संप- द्यतेः कर्त्ता संपद्यकर्त्ता । संपद्यकर्त्तरि वर्त्तमानात्प्रातिपदिकादभूततद्भावे गम्य- माने कृभ्वस्तिभिर्धातुभिर्योगे च्विः प्रत्ययो भवति । अशुक्लः शुक्लः संपद्यते, तं करोति शुक्ली करोति । मलिनं शुक्ली भवति । शुक्ली स्यात् । घटी करोति मृदम् । घटी भवति । घटीस्यात् । अभूततद्भावइति किम् । शुक्लं करोति । नात्र प्रकृतिर्विवक्षिता । कृभ्वस्तियोगइति किम् । अशुक्लः शुक्लो जायते । संप- द्यकर्त्तरीति किम् । यावता अभूततद्भावसामर्थ्याल्लभ्यतएव संपद्यकर्तृत्वम् । कारकान्तरसंपत्तौ मा भूत् । शदवेण्वोर् देवगृहे संपद्यते । देवगृहस्याधेयविशे- षसंबन्धेनाभूततद्भावः सत्त्वाधिकरणस्य न कर्तुरिति ॥ अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च ॥ ५१ ॥ अरुः प्रभृतीनामन्तस्य लोपो भवति च्विश्च प्रत्ययः । सर्वविशेषकसंब- न्धात्पूर्वेणैव प्रत्ययः सिद्धे लोपमात्रार्थं चारम्भः । अनरुः संपद्यते तं करोति, अरू करोति । अरू भवति । अरू स्यात् । मनस् । उन्मनी करोति । उन्मनी भवति । उन्मनी स्यात् । चक्षुस् । उच्चक्षू करोति । उच्चक्षू भवति । उच्चक्षू स्यात् । चेतस् । विचेती करोति । विचेती भवति । विचेती स्यात् । रहस् । विरही करोति । विरही भवति । विरही स्यात् । रजस् । विरजी करोति विरजी भवति । विरजी स्यात् ॥ विभाषा साति कात्स्न्र्य्ये ॥ ५२ ॥ अभूततद्भावे कृभ्वस्तियोगे संपद्यकर्त्तरीति सर्वमनुवर्त्तते । अस्मिन्विषये विभाषा सातिः प्रत्ययो भवति कात्स्न्र्य्ये गम्यमाने । यदि प्रकृतिः कृत्स्नं विका- रात्मतामापद्यातइत्यर्थः । अग्निसाद्भवति शस्त्रम् । अग्नीभवति शस्त्रम् । उद- कसाद्भवति लवणम् । उदकीभवति लवणम् । कात्स्न्र्ये इति किम् । एकदेशेन पटः शुक्ली भवति । विभाषाग्रहणं च्वेः प्रापकम् । प्रत्ययविकल्पस्तु महाविभा- षयैव सिद्धः ॥ अभिविधौ संपदा च ॥ ५३ ॥